SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ इत्थी 642 अभिधानराजेन्द्रः भाग 2 इत्थी रसं, व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम् // 3 // दीर्घेणाक्षिचलेन वक्रगतिना तेजस्विना भोगिना, नीलाब्जद्युतिनाऽहिना वरमहं दष्टो न तच्चक्षुषा // दष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण पुण्यार्थिनो, मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैद्यो न वाप्यौषधम् // संसार! तव निस्तर पदवी न दवीयसी। अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः / / 5 / / नूनं हि ते कविवरा विपरीतबोधा, ये नित्यमाहुरबला इति कामिनीनाम् / याभिर्विलोलतरलांशुकदृष्टिपातैः, शक्रादयोपि विजितास्त्वबलाः कथं ताः ll जल्पन्ति सार्द्धमन्येन, पश्यन्त्यन्यं सविभ्रमाः। हृदये चिन्तयन्त्यन्यं, प्रियः को नाम योषिताम् / / सव्वत्थे इत्थिवग्गम्मि, अप्पमत्तो सया अविस्सत्थो। नित्थरइबंभचेरं, तव्विवरीओ न नित्थरइ / / 7 / / सर्वत्र सर्वस्मिन् प्रव्रजिता प्रवृजितरूपे स्त्रीय, अप्रमत्तः निद्राविकथादिप्रमादरहितः सदा सर्वकालमविश्वस्तो विश्वा-सरहितः श्वसन् निस्तरति पालयतीत्यर्थः ब्रह्मचर्य मैथुनत्यागरूपं तद्विपरीतः उक्तविशेषणरहितोन निस्तरतिन निर्वहति ब्रह्मचर्यमिति गाथार्थः / ग०२ अधि। साध्वीसंसर्गो दोषायेति 'अज्जिया' शब्दे / / स्त्रीसंसर्गादि परित्यागो बंभचेरगुत्ति शब्दे] | (15) स्वीषु सक्तस्य परिग्रहोऽवश्यं भवतीतियथाइत्थीसु सत्ते य पुढो य बाले, परिग्गहं चेव पकुय्वमाणे | स्त्रीषु रमणीष्वासक्तो ऽध्युपपन्नः पृथक् पृथक् तद्भाषितहसित बिव्वोकशरीरावयवेष्विति बालबद्वालोऽज्ञः सदसद्विवेकविकलस्तदवसक्ततया च नान्यथा द्रव्यमन्तरेण तत्सं-प्राप्तिर्भवतीत्यतो येन केनचिदुपायेन तदुपायभूतं परिग्रहमेव प्रकर्षेण कुर्वाणः पापं कर्म समुचिनोतीति / सूत्र०१ श्रु०१० अ० [स्त्रीषु कामेषु चासक्तानामयश्यं नरकयातना भवतीति इत्थिकाम' शब्दे] स्त्रीषु च सर्वेन्द्रियगुप्तेन भाव्यम् तथा च।। सविदियाभिनिव्वुडे पयासु, चरे मुणी सव्वतो विप्पमुक्के। सर्वाणि च तानीन्द्रियाणि च स्पर्शनादीनि तैरभिनिर्वृतः संवृते-न्द्रियो जितेन्द्रिय इत्यर्थः / क्व प्रजासु स्त्रीषुतासु हिपञ्च प्रकारा अपि शब्दादयो विषया विद्यन्तेतथा चोक्तम्।"कलानि वाक्यानि विलासिनीनां, गतानि रम्याण्यवलोकितानि। रतानि चित्राणि च सुन्दरीणां, रसोपि गन्धोऽपि च चुम्बनादेः / / 1 / / तदेवं स्त्रीषु पञ्चेन्द्रियविषयसम्भवात्तद्विषये संवृतसर्वेन्द्रियेण भाव्यमेतदेव दर्शयति चरेत्संयमानुष्ठानमनुतिष्ठेन्मुनिः साधुः सर्वतः सबाह्याभ्यन्तरात्सङ्गाद्विशेषेण प्रमुक्तो निःसङ्गो निष्किञ्चनश्चेत्यर्थः / सूत्र०१ श्रु०१ अा स्त्रीणां दर्शननिषधो यथा"स्त्रीरम्याड़े-क्षणतरलितविलोचनो हि दीपशिखायां शलभ इव विनाशमुप-याति। ध०३ अधि० [ अत्र प्रायश्चित्तं रायपिंड शब्दे ] [16] स्त्रीकरस्पर्शादिनिषेधो यथाजत्थित्थीकरफरिसं, अंतरिय कारणे वि उप्पन्ने / दिट्ठी विसदित्तग्गी, विसं व मुणिवजए गच्छे / / 3 / / यत्र गणे स्त्रीकरस्पर्शः अथवा स्त्रियाः करेण स्पर्शःस्त्रीकरस्पर्शस्तमुपलक्षणत्वात् स्त्रीपादादिस्पर्श च कथंभूतम् [अंतरियंति] अपि शब्दस्येहापि सम्बन्धादन्तरितमपि वस्त्रादिना जातान्तरमपि किं पुनरनन्तरितं कारणेऽपि कण्टकरोगोन्मत्तत्वादि उत्पन्ने सजाते सति किं पुनः अकारणे दृष्टिविषश्च सर्पविशेषः दीप्ताग्निश्च ज्वलितवहिर्विषं च हालाहलादीनि समाहरद्वन्द्वः तदिव वर्जयेत् उत्सर्गमार्गेण दूरतः त्यजेन्मुनिः समुदायः [गच्छत्ति] स गच्छः स्यादिति शेषगाथा छन्दः / बालाए बुडाए, नत्तु अदुहिआइ अह य भइणीए। नय कीरइ तणुफरिसं, गोयम ! गच्छं तयं भणियं / / 84) इहाङ्गस्पर्शस्य सर्वत्र सम्बन्धात् बालाया अपि अप्राप्तयौवनाया अपि किं पुनः प्राप्तयौवनायाः वृद्धाया अपि अतिक्रान्त यौवनाया अपि किंपुनरनतिक्रान्तयौवनायाः एवंविधायाः कस्या इत्याह / नतृका पौत्री तस्या अपि दुहिता पुत्री तस्या अपि अथवा भगिनी स्वसा तस्या अपि नालबद्धोपलक्षणत्वादस्य दौहित्रीभ्रातृ-जातामातुलीपितृष्वसृमातृष्वसृजननीमातामही ग्रहः / कोर्थः नतृकादिकानामेकादशानां नालबद्धानामपि स्त्रीणां किं पुनरनालबद्धानां तनुस्पर्श : उपलक्षणत्वात्सविलासशब्दश्रवणादि च यत्र गच्छे न च नैव क्रियते हे गौतम! स गच्छो भणित इति इह हिसम्बधिन्या अपि स्त्रिया अङ्गस्पर्शादि वर्जनं स्वीस्पर्शस्यो-त्कटमोहोदय हेतुत्वात्॥ जत्थ त्थीकरफरिसं,लिंगी अरिहो विसयमवि करिज्जा। तं निच्छयओ गोयम ! जाणिज्जा मूलगुणभटुं // 85 / / यत्र गणे स्वीकरस्पर्शम् लिङ्ग विद्यते अस्याऽसौ लिङ्गी साधु वेषवान् अर्होऽपि पदव्यादिप्राप्त्यादियोग्योऽपि स्वयमपि अपेरेवकारार्थत्वात् स्वयमेव कुर्यात्तं गच्छं निश्चयतो हे गौतम ! जानीयान्मूलगुणभ्रष्टं चारित्ररहितमिति // 85|| स्त्रीकरस्पर्शादिकमुत्सर्गपदेन निषिध्याथापवादपदेनापि निषिध्यति। कीरइ बीयपएणं,सुत्तममणियं न जत्थ विहिणाओ॥ उप्पन्ने पुण कजे, दिक्खा आयंकमाईए।८६|| अपेर्गम्यमानत्वादुत्सर्गपदापेक्षया द्वितीयपदेनापि अपवादपेदनापीत्यर्थः [सुत्तम भणियति मकारस्यालाक्षणिक-त्वात्सूत्राभणितं सूत्राननुज्ञातं सर्वथागमनिषिद्धंस्त्रीकरस्पर्शा-दिकमित्यर्थः। ग०२ अधिः। [कण्टकोद्धरणवक्तव्यता विस्तरेण कण्टकुद्धरण शब्दे] (17) स्त्रियाः सार्द्ध विहारस्वाध्यायाहारोचारप्रस्रवणपरिष्ठापनिकाधर्मकथादिनिषेधो यथा जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गहावइसुगहा वइकुलेसु वा परियागसहेसु वा एगो एगइत्थीए सद्धि विहारं वा करेइ सज्झायं वा करेइ असणं वा आहारेइ उच्चारं वा पासवणं वा परिहवेइ अण्णयरं वा अणरियं मेहणं अस्सणं पाओगकहं कहेइ कहंतं वा साइजइ |शा निचू. उा कहिता खलु आगारो, ते उ कहिं कतिविधा उ विण्णेया। आगंतागारादिसु, सविगारविहारमादीया॥ सत्तमस्स अंतसुत्ते त्थीपुरिसागारा कहिता ते कहिं हवेज आगंतागारादिसु ते आरामादिसु ते आगंतरादि इह समाणं कतिविहा ते आगारा विण्णे या / इह अपुध्वरूवियाणि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy