________________ इच्छक्कार 602 अभिधानराजेन्द्रः भाग 2 इच्छक्कार कारः इच्छाकारः इच्छाक्रियेत्यर्थ इति / स्था. 10 ठा० / प्रयः / आ. म०प्र० / इच्छायाः करणमिच्छाकार इति। वृ०१ऊ। स्वकीयाभिलाषे,। "इच्छाकारेण संदिसह भगवन् देवसिअं आलोएमि" इच्छाकारेण निजेच्छयेति / आत्मीयेच्छयेति / स्वकीयाभिलाषेण न पुनर्बलाभियोगेनेति च। ध० 2 अधिः / तदात्मके पष्ठे सामाचारीभेदे च। इच्छाकारो अ छडओ इति / उत्त० 26 अ / इच्छाकारेण ममेदं कुरु इच्छाप्रधानया क्रियया न बलाभियोगपूर्विकयेति / स्था० / 10 ठा० / इच्छाकारेण ममेदं कुरुतत्रचाहं करोमीति निर्देशोऽभ्युपगमो वा इच्छाकार इति। ध०३ अधिः / प्रक। आ. म प्र / वृ०॥"इच्छाकारो य सारेण" इति / उत्त० 26 अ० / सारेण इति औचित्येनात्मनः परस्य वा कृत्यं प्रतिप्रवर्तते / तत्रात्मसारेण यथेच्छाकारेण युष्मचिकीर्षित कार्यमिदमहंकरोमीति / अन्यसारेण च मम पात्रलेपनादि इच्छाकारेण कुरुतेति ग.२ अधिः / अस्य च प्रयोगः स्वार्थम्परार्थ वा चिकीर्षन्यदा परमभ्यर्थयते इति। स्था०१० ठा. "इच्छाकारपओगो णाम जं इच्छया करणं तं बलाभियोगादिणा इच्चेयस्स अत्थस्स संपयत्थं इच्छकार सड़ पउज्जंति। आ. चू. 2 अ / उत्सर्गतः साधूनां सति सामर्थ्य कार्यार्थपरो नाभ्यर्थयितव्यः अभिगूहितबलवीर्येण भाव्यं तत्कार्यस्य असामर्थे अप्रावीण्ये वा रत्नाधिकं विहायान्येषाभ्यर्थनाविषयमिच्छाकारं करोति। यदि वा नाभ्यर्थितोऽपि कोऽप्यन्यस्तत्प्रयोजनकरणशक्तो निर्जरार्थी साधुः कंचन साधु चिकीर्षितकार्य विनाशयन्तं गुरुतरकार्यकरणासमर्थमविनाशयन्तमप्यभ्यर्थयन्तं वाभिलषितकार्यकरणायान्यतरं साधुं दृष्ट्वा तत्कार्यं कर्तुकामस्तत्रापि इच्छाकारं प्रयुञ्जीत / इच्छाकारेण युष्मदी यमिदं कार्य करोमीति युष्माकमिच्छाक्रियया करोमि न बलादित्यर्थः / ध०३ अधि। तत्रेच्छाकारो येष्वर्थेषु क्रियते तत्प्रदर्शनार्थमाह। जइ अब्भत्थेअ परं, कारणजाते करेज सो को वि। तत्थ वि इच्छाकारो, न कप्पइ बलाभिओगो उ।। यदि इत्यभ्युपगमे अन्यथा साधूनामकारणे अभ्यर्थना नैव कल-पते। ततश्च यदि अभ्यर्थयेत् परमन्यं साधुग्लानादौ कारणजाते समुत्पन्ने सति ततस्तेनाभ्यर्थयमानेन इच्छाकारः प्रयोक्तव्यः। यदिवा अनभ्यर्थितोऽपि कोऽप्यन्यः साधुः (से)तस्य कर्तुकामस्य कस्यचित् साधोः कारणजातं कुर्यात् / तत्रापि तेनानभ्यर्थितेन साधुना तस्य चिकीर्षितं कर्तुकामेन इच्छाकारः प्रयोक्तव्यः / इह विरलाः केचिदनभ्यर्थिता एव परकार्यकर्तार इति कोपातिग्रहणम्। अथ कस्मादिच्छाकार प्रयोगः क्रियते। उच्यते-- बलाभियोगो मा भूदिति हेतोस्तथा चाह अतो न कल्पते बलाभियोगः साधूनाम् तत इच्छाकार प्रयोगः कर्तव्यः।तुशब्दः क्वचिद्वलाभियोगो मा भूदिति कल्पते इति सूचनार्थः। उक्तगाथावयवार्थप्रतिपादनार्थमाह। अन्मुवगमंमि निजइ, अब्भत्थेउं न वदृइ परो उ। अणिगूहियबलविरिएण, साहुणा ताव होयव्वं // यदि अभ्यर्थयेत्परमित्यस्मिन्यदिशब्दप्रदर्शिते अभ्युपगमे सति ज्ञायते। किमित्याह / अभ्यर्थयितुं न वर्तते न युज्यते परः। किमित्यत आह-न निगूहिते बलवीर्ये येनासावनिगूहितबलवीर्यस्तेन / बलं शारीरं, वीर्य मानसशक्तिविशेषः तावच्छब्दः प्रस्तुतार्थप्रदर्शकः / एवमनिगृहित बलवीर्येण तावत्साधुना भवितव्यम् / पाठान्तरं वा "अणिमूहियबलवीरिएण जेण साहुणा होयव्वं' अस्यायमर्यो येन कारणेन अनिगृहितबलवीर्येण साधुना भवितव्यमिति युक्तिः अतोऽभ्यर्ययितुंन युज्यते पर इति आहेत्थं तद्दभ्यर्थना-विषयेच्छाकारोपन्यासोऽनर्थकः / उच्यतेजइ होज्ज तस्स अनलो, कज्जस्स वियाणाइ न तं वाणं / गिलाणाइ विहिपहोजा, वावडो कारणेहिं सो।। यदि भवेत्तस्य प्रस्तुतस्य कार्यस्यानलो समर्थः यदि वा न विजानाति तत्कार्य कर्तु वाणमिति निपातः पादपूरणार्थ: ग्लानादिर्वा भवेत् व्यापृतः कारणैरसौ तदा संजातद्वितीय-पदाभ्यर्थनागोचरमिच्छाकारं रत्नाधिक विहायान्येषां करोति। तथा चाह रत्ताणि य वजेत्ता, इच्छाकारं करेइसेसाणं। एयं मजं कजं, तुम्भह करेह इच्छाणं॥ रत्नानि द्विविधानि द्रव्यरत्नानि भावरत्नानि च / तत्र मरकतवजेन्द्रनीलवैडूर्यादीनि द्रव्यरत्नानि सुखमधिकृत्य तेषामनैकान्तिकत्वादनात्यन्तिकत्वाच्च / भावरत्नानि सम्यग्दर्शनज्ञानचारित्राणि सुखनिबन्धनतामङ्गीकृत्य तेषामैकान्तिकत्वात् आत्यन्तिकत्वाच भावरत्नमधिको रत्नाधिकस्तं वर्जयित्वा इच्छाकारं करोति। शेषाणां कथमित्-याह / एतन्मम कार्यं वस्त्रसीवनिकादिरूपं कुरुत इच्छया न बलाभियोगे नेति। तत्र यदुक्तम्। (जइ अब्भत्थेज परं कारण जाते इति) तत्र प्रथमगाथया यदीत्यस्य भावार्थ उपदर्शितः / द्वितीयगाथया कारणजातानि कथितानि। अनया तु पूर्वार्द्धना-भ्यर्थनाविषयो दर्शितः / उत्तरार्द्धन त्वभ्यर्थनायाः स्वरूपम् / संप्रति "करेजवासे कोई" इति अस्य गाथावयस्यावयवार्थः प्रति पादनीयस्तत्रान्यकरणसंभवकारप्रतिपादनायाह // अहवा वि विणासंतं, अब्भत्थं तं च अण्णदठूणं / अन्नो कोइ भणिज्जा,त्तं साहुनिज्झरट्ठाउ / / अथवेति "जइ अब्भत्तेज परं कारणजाए" इत्यपेक्षया प्रकाशं ततो द्योतनाथ विनाशयन्तं चिकीर्षित कार्यमपिशब्दात् सोऽन्यस्मिन् गुरुतरे कार्ये समर्थस्ततो यदि स तत्र व्यापृतो भवति तर्हि तेन गुरुतरप्रयोजन सीदतीति परिभाव्य विनाशयन्तमपि, यदि वा स्वयमसमर्थतथा अभिलाषितकार्यकरणाय साधुमन्यमभ्यर्थयन्तं दृष्ट्वा निर्जरार्थी कोऽप्यन्यः साधुः साधु भणेत्। किं भणेदित्याह - अह यं तुज्झेमेयं, करेमि कजं तु इच्छकारेण / तत्थ वि से इच्छा से, करेइ मज्जायमूलीयं / / अहमित्यात्मनिर्देशे युष्माकमेतत् कर्तुमभीष्टं कार्यं करोमि इच्छाकारेण युष्माकमिच्छाक्रियया न बलादित्यर्थः तत्रापि सकारापकः साधुः इच्छति इच्छाकारं (से) तस्य स्वयमिच्छाकारेण कर्तुमभ्युद्यतस्य करोति नत्वसौ तेनेच्छाकारेण याचितस्ततः किमर्तमिच्छाकारं करोतीत्यत आहमर्यादामूलीयम्। मर्यादा साधूनां व्यवस्था तस्या मूलं मर्यादामूलंतत्रभवो मर्यादामूलीय इच्छाकारस्तं निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनमिति हेतोर्द्वितीया / ततोऽयमर्थः मर्यादामूलभूत इच्छाकारस्तयाहि-साधूनामियं मर्यादा न किंचिदवस्याव्यतिरेकेण कश्चित्कारयितव्यः। तदेवं व्याख्यातोऽधिकृतो गाथावयवः / /