________________ इंदभूइ 573 अभिधानराजेन्द्रः भाग 2 इंदभूइ तथा ममापि त्रैलोक्य-जित्वरस्य महौजसः / / अजेयं किमिवास्तीह तद्गच्छामिजयाम्यमुम्॥७॥ इत्यादि चिन्तयन् प्रभुमवेक्ष्य सोपानसंस्थितो दध्यौ। किं ब्रह्मा किं विष्णुः सदाशिवः शङ्करः किं वा / / 8 / / चन्द्रः किं सन यत्कलङ्ककलितः सूर्योऽपि नो तीव्ररुक्। मेरुः किं न सयन्नितान्तकठिनो विष्णुर्न यत् सोऽशितः।। ब्रह्मा किं नजरातुरः स च जराभीरुन यत्सोऽतनु तिं दोषविवर्जिताखिलगुणाकीर्णो न्तिमस्तीर्यकृत् // 6 // हेमसिंहासनासीनां सुरराजनिषेवितम् // दृष्ट्वा वीरं जगतत्पूज्यं चिन्तयामास चेतसि // 10 // कथं मया महत्त्वं हा, रक्षणीयं पुार्जितम्॥ प्रासादं कीलिकोहेतो- तु को नाम वाञ्छति // 4 // एकेन चाजितेनापि मानहानिस्तु का मम / / जगज्जैत्रस्य किं नाम करिष्यामि च सांप्रतम् / / 5 / / अविचारितकारित्व महो मे मददुर्धियः।। जगदीशावतारं य-जेतुमेनं समागतः।।६।। अस्याग्रेऽहं कथं वक्ष्ये पार्श्वे यास्यामि वा कथम्॥ संकटे पतितोऽस्मीति शिवा रक्षतु मे यशः / / 7 / / कथञ्चिदपि भाग्येन चेद्भवेदत्र मेजयः॥ तदा पण्डितमूर्द्धन्यो भवामि भुवनत्रये // 8 // इत्यादि चिन्तयन्नेष सुधा मधुरया गिरा।। आभाषितो जिनेन्द्रेण नामगोत्रोक्तिपूर्वकम् // 6 // हे गोतमेन्द्रभूते त्वं सुखेनागतवानसि॥ इत्युक्तेऽचिन्तयद्वेत्ति नामापि किमसौ सम ||10|| जगत्रितयविख्यातं को वा नाम न वेत्ति माम्॥ जनस्याबालगोपालं प्रच्छन्नः किं दिवाकरः / / 11 / / प्रकाशयति गुप्तं चेत्संदेहं मे मनःस्थितम्॥ तदा जानामि सर्वज्ञ-मन्यथा तु न किंचन / / 12 / / चिन्तयन्तमिति प्रोचे प्रभुः को जीवसंशयः / / विभावयसि नो वेद पदार्थं श्रृणु तान्यथ // 13 // समुद्रो मथ्यमानः किं गङ्गापरोऽथवा किमु / / आदिब्रह्मध्वनिः किं वा वीरे वेदध्वनिर्बभौ // 14 / / वेद पदानि च "विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यतिनप्रे त्यसंज्ञास्तीति" त्वं तावदेतेषां पदानामर्यमेवं करोषि यत् विज्ञानघनो गमनागमनादिचेष्टा वान् आत्मा एतेभ्यो भूतेभ्यः पृथिव्यप्तेजो वाय्वाकाशेभ्यः समुत्थाय प्रकटीभूय मद्यांगेभ्यो मदशक्तिरिव ततस्तानि भूतान्येव अनुविनश्यति तत्रैव विलयं याति जले बुदबुद इव ततो भूतातिरिक्तस्य आत्मनो-ऽभावात्न प्रेत्यसंज्ञाऽस्तीति मृत्वा पुनर्जन्म नास्तीति / परमयुक्तोऽयमर्थः शृणु तावदेतोषामर्थम् / विज्ञानघन इति को ऽर्थः विज्ञानघनोज्ञान दर्शनोपयोगात्मकं विज्ञानं तन्मयत्वादात्माऽपि विज्ञानघनः प्रति देशं प्रदेशमन्तनज्ञानपर्यायात्मकत्वात् स च विज्ञानधन उपयोगात्मक आत्मा कथंचिद्भूतेभ्यस्ताद्विकारेभ्यो वा घटा दिभ्यः समुत्तिष्ठते उत्पद्यत इत्यर्थः / घटादिज्ञानपरिणतो हि जीवो घटादिभ्य एव हेतुभूतेभ्यः भवति घटादिज्ञानपरिणामस्यघटादिवस्तुसापेक्षत्वात्। एवं च एतेभ्यो भूतेभ्यो घटादिवस्तुभ्यस्तत्तदुपयोगरूपतया जीवः समुत्थाय समुत्पद्य तान्येव अनुविनश्यति कोऽर्थःतस्मिन् घटादौ वस्तुनि नष्ट च्यवते वा जीवोऽपि तदुपयोगरूपतथा नश्यति अन्योपयोगरूपतया उत्पद्यतेसामान्यरूपतया अवतिष्ठते ततश्च न प्रेत्य संज्ञाऽस्ति कोर्यःन प्राक्तनी घटाधुपयोगरूपा संज्ञा अवतिष्ठते वर्तमानोपयोगेन तस्या नाशितत्वादिति। अपरं च सवै अयमात्मा ज्ञानमय इत्यादि, तथा दददकोर्थः दमो दानं दया इति दकारत्रयं योवेत्तिस जीवः किंच विद्यमानभोकृक मिदं शरीरं भोग्यत्वात् ओदनादिवत् इत्याद्यनुमानेनापि तथा "क्षीरे घृतं तिले तैलं काष्ठे ऽग्रिः सौरभं सुमे। चन्द्र कान्ते सुधा यद्व-तथात्माप्यङ्गतः पृथक् // एवं च प्रभुवचनैश्छिन्नसंदेहः श्रीइन्द्रभूतिः पंचशतपरिवारैः प्रद्रजितः / तत्क्षपाच" उत्पन्नेइ वा 1 विगमेइ वा 2 धुवेइ वा 3 इति" प्रभुव दनात्रिपदीं प्राप्य द्वादशाङ्गी रचितवान्। कल्प० / / इन्द्रभूतिवर्णको यथातेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेहे अंतोवासी इंदभूती णामं अणगारे गोयम गोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वजारिसहनारायसंघयणे कणगपुलगणिघसपन्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे उराले घोरे धोरगुणे घोरतवस्सि घोरबंभचेरवासी उच्छूढसरीरे / संखित्तविउल्लतेउलेस्से चउद्दसपुथ्वी चउणाणोवगए सवक्खरसण्णिवाती। समणस्स भगवओ महावीरस्स अदूरसामंते उड्डजाणू अहोसिरे ज्झाणकोट्टोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ॥ (तेणमित्यादि) तेन कालेनतेन समयेन श्रमणस्य भगवतो महावीरस्य (जेडेत्ति) प्रथमः (अन्तेवासित्ति) शिष्यः अनेन पदद्वयेन तस्य सकलसंघनायकत्वमाह (इंदभूएत्ति) इन्द्रभूतिरितिमातृपितृकृतंनामधेयं (नामंति) विभक्तिविपरिणामात् नाम्नेत्यर्थः अन्तेवासी किल विवक्षया श्रावकोऽपि स्यादित्यत आह / (अणगारत्ति) नास्त्यगारं विद्यत इत्यन गारः अयञ्चावगीतगोत्रोऽपि स्यादित्यत आह (गोतम गोत्तेणंति) गौतमसगोत्र इत्यर्थः / अयश्च तत्कालोचितदेह मानापेक्षया न्यूनाधिकदेहोऽपिस्यादित्यत आह (सतुस्सेहेत्ति) सप्तहस्तोच्छ्यः अयंच लक्षणहीनोऽपि स्यादित्य आह (समचउरंससंठाणसंठिएत्ति) समं नाभेरुपरि अधश्च सकलपुरुषलक्षणोपेतावयवतया तुल्यं तच्च तचतुरस्रं च प्रधानं समचतुरस्रमथवा समाः शरीरलक्षणोक्तप्रमाणा विसंवादिन्यश्चतस्रोऽश्रयो यस्य तत्समचतुरस्रम / अश्रयस्त्विह चतुर्दिभागोपलक्षिताः शरीरावयवा इति / अन्ये त्वाहु:-समाअन्यूनाधिकाश्चतस्रोऽप्यश्रयो यत्र तत् समचतुरस्रम् अश्रयश्च पर्यंकासनोपविष्टस्य जानुनोरन्तरम् आसनस्य ललाटो-परिभागस्य चान्तरं दक्षिणस्कन्धस्य वामजानुनश्चान्तरं वाम-स्कन्धस्य दक्षिणजानुनश्चान्तरमिति अन्ये त्वाहुविस्तारोत्सेधयोः सम त्वात् समं चतुरश्रं तच तत्संस्थानं चाकारः सम-चतुरश्रसंस्थानं तेन संस्थितो व्यवस्थितो यः स तथा। अयं च हीनसंहननोऽपि स्यादित्य आह (वजरिसहणारायसंघयणेत्ति) इह संहननमस्थिसंचयविशेषः वज्रादीनां लक्षणमिदम् - "रिसहो य होई पट्टो, वजं पुण कीलियं विजाणाहि। उभ ओमक्कडबंधो णारायं तं, वियाणाहि त्ति" तत्र वज्र च तत्कीलिका-कीलितकाष्ठसम्पुटोपमसामर्थ्य युक्तत्वात्। ऋषभश्च लोहा-दिमयपट्टवद्धकाष्ठसम्पुटोपमसामर्थ्यान्वितत्वात्। वर्षभः स चासौ नाराचं च उभयतो मर्कटबन्धनिबद्धकाष्ठसम्पुटोपम