SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ आहार 537 अभिधानराजेन्द्रः भाग 2 आहार अधुना लोमाहाराधिकारं विभावयिषुरिदमाह // नेरझ्या णं भंते ! किं लोमाहारा पक्खेवाहारा ? गोयमा ! लोमाहारा नो पक्खेवाहारा / एवं एगिंदिया सवे देवा य माणियव्वा जाव वेमाणिया / बेइंदिया जाव मणुस्सा लोमाहारा विपक्खेवाहारा वि // (नेरइयाणमित्यादि) सुगमं नवरं नैरयिकाणां प्रक्षेपाहारो न भवतीति वैक्रियशरीराणां तथा स्वभावत्वात् लोमाहारोऽपि च पर्याप्तानामवसेयो नापयप्तिानामिति // (एवमेगिंदिया इत्यादि) एवं नैरयिकोक्तेन प्रकारेण एकेन्द्रियाः पृथिव्यप्तेजोवायुवन-स्पतयः सर्वे देवाश्चासुरकुमारादयो यावद्वैमानिका भणितव्या-स्तत्रै केन्द्रियाणां प्रक्षेपाहाराभावो मुखाभावात् / असुरकुमारा-दीनां वैक्रियशरीरितया तथा स्वभावात् द्वित्रिचतुरिन्द्रिया-स्तिर्यक्पञ्चेन्द्रिया मनुष्याश्चलोमाहारा अपि वक्तव्याः प्रक्षेपाहारा अपि उभयरूपस्याप्याहारस्य तेषां संभवात्। चरममर्थाधिकारमभिधित्सुराह॥ नेरइया णं भंते ! किं ओयाहारा मणमक्खी ? गोयमा ! ओयाहाराणो मणभक्खी एवं सव्वे उरालियसरीरा वि देवासवे जाव वेमाणिया ओयाहारा वि मणभक्खी वि / तत्थ णं जे ते मणभक्खी देवा तेसि णं इच्छामणे समुप्पज्जइ इच्छामो णं मणभक्खणं करित्तए तए णं तेहिं देवेहिं एवं मणसीकए समाणे खिप्पामेवजे पोग्गलाइट्टाकताजावमणामा तेसिंमणभक्खत्ताए परिणमंति से जहा नामए सीता पोग्गला सीतं पप्पसीतं चेव अतिवइत्ताणं चिटुंति उसिणावा पोग्गला उसिणं पप्पउसिणं चेव अतिवइत्ताणं चिटुंति एवामेव तेहिं मणभक्खणे कए समाणे से इच्छामणे खिप्पामेव अवेति // (नेरइया णं भंते! इत्यादि) ओज उत्पत्तिदेशे आहार-योग्यपुगलसमूहः / ओज आहारो येषान्ते ओजआहारा मनसा भक्षयन्तीत्येवं शीला मनोभक्षिणः। तत्रनैरयिका ओज आहारा भवन्ति / अपर्याप्तावस्थायामोजस एवाहारस्य संभवात् मनोभक्षिणस्त्वेते न भवन्ति मनोभक्षणलक्षणो ह्याहारस्स उच्यते / ये तथाविधशक्तिवशान्मनसा स्वशरीरपुष्टिजनकाः पुद्गला अभ्यवह्रियन्ते। यदभ्यवहरणानन्तरञ्च दृष्टपूर्वः परमसन्तोष उपजायते नचैतन्नैरयिकाणामस्ति / प्रतिकूलकर्मोदयवशतस्तथारूपशक्यभावादेवं (सव्वे उरालियशरीरावि) इति / एवं नैरयिकोक्तेन प्रकारेणौदारिकशरीरिणोऽपि सर्वे पृथिवीकायिकादयो मनुष्यपर्यवसाना वक्तव्याः / तद्यथा / (पुढधिकाइया णं भंते ! किं ओयाहारा मणभक्खी ? गोयमा ! ओयाहारा नो मणभक्खी त्यादि) देवा इत्यादि देवास्सर्वे यावद्वैमानिका ओजआहारा अपि मनोभक्षिणोऽपि वक्तव्याः / तद्यथाअसुरकुमाराणं मंते ! किं ओयाहारामणोभक्खी? गोयमा! ओयाहारा वि मणभक्खी विजाव वेमाणियाणं पुच्छा गोयमा! ओयाहारा दिमणभक्खी वि॥ सम्प्रति मनोभक्षित्वं देवानां यथा भवति तथोपदर्शयति / तत्र तेषु संसारिषु जीवेषु मध्ये णमिति वाक्यालंकारे / येमनोभक्षिणो | देवास्तेषां णमिति प्राग्वत् / मनः प्रस्ता-वादाहारविषयं समुत्पद्यते। के नोल्लेखेनेत्यत आह इच्छामो अभिलषामो णमिति पूर्ववत् मनोभक्षिणमिति मनसा भक्षणं मनोभक्षणं कर्तुमिति तत एवं तैर्मनसि कृतव्यवस्थापितमनो-भक्षणे सति तथा विधशुभकर्मोदयवशात् क्षिप्रमेव तत्कालमेवेति भावः / ये इष्टाः कान्ताः प्रिया मनोज्ञाः मन आपापुद्गलास्तेषां व्याख्यानं प्राग्वात् / तेषां देवानां मनोभक्षतया परिणमन्ति कथमित्यत्रैव दृष्टान्तमाह (से जहानामए) से शब्दोऽथशब्दार्थः सथात्र वाक्योपन्यासे यथा नामेति विवक्षिताः शीताः पुद्गलाः शीतं शीतयोनिकं प्राणिनं प्राप्य ते शीतत्वमेवातिव्र ज्यातिश-येन गत्वा तिष्ठन्ति किमुक्तं भवति / विशेषतश्शीतीभूय शीतयोनिकस्य प्राणिनः सुखित्वायोपकल्पन्त इति। उष्णा वा पुद्गला उष्णम् उष्णयोनिकं प्राप्य उष्णमेव उष्ण-त्वमेवातिव्रज्यातिशयेनगत्वा तिष्ठन्ति विशेषतस्स्वरूपलाभसम्पत्त्या तस्य सुखित्वायोपतिष्ठन्त इति भावः / एवमेव अनेनैव प्रकारेण तैर्देवैः प्रागुक्तरीत्या मनोभक्षणे कृते सतिस तेषां देवानामिच्छा मन आहारविषयेच्छा प्रधानमनः क्षिप्रमेवापैति तृप्तिभावान्निवर्तत इति भावः / इयमत्र भावना यथा शीत पुद्रलाः शीतयोनिकस्य प्राणिनः सुखित्वायोपकल्पन्ते उष्ण पुद्गला वा उष्णयोनिकस्य तथा देवैरपि मनसाऽभ्यवह्रियमाणाः पुद्रला-स्तेषांतृप्तये परमसंतोषाय चोपकल्पन्ते तत आहारो विषयाभिलाषनिवृत्तिर्भवतीति / अत्र च ओज आहारादिविभागप्रतिपादिका इमास्सूत्रकृताङ्गनियुक्तिगाथाः / सरीरेणोसयाहारो तयादिफासेण लोम आहारो। पक्खेवाहारो पुण कावलिओ होइनायव्वो ||1|| ओयाहार जीवा सव्वे अपजत्तगा मुणेयव्वा। पज्जत्तगा य लोमे पक्खेवे होति भइयव्वा / / 2 / / एगिदियदेवाणं णेरइयाणं च णत्थि पक्खेवो। सेसाणं जीवाणं संसारत्थाणपक्खेवा / / 3 / / लोमाहार एगिदियाओ णेरइयसुरगणा चेव। सेसाणं आहारो लोमे पक्खेवओ चेव ||4|| ओयाहारामणभक्खिणो यसव्वे विसुरगणा हॉति। सेसा हवंति जीवा लोमे पक्खेवओ चेव ||5|| अथक आहार आभोगनिर्वर्तितःको वाऽनाभोगनिर्वर्तितः इतिचेदुच्यते। देवानामाभोगनिर्वर्तित ओज आहारः स चापर्याप्तावस्थायां लोम आहारोऽपि अनाभोगनिवर्तितस्स चपर्याप्तावस्थायां आभोगनिर्वर्तितो मनोभक्षणलक्षणः स च पर्याप्तावस्थायां आभोगनिर्वर्तितो मनोभक्षणलक्षणनिर्वर्तित आहारोऽपर्याप्तावस्थायां लोमाहारः पर्याप्तावस्थायां नैरयिकवानां लोमाहारो नैरयिकाणां लोमाहार आभोग-निर्वर्तितोऽपि द्वीन्द्रियादीनां मनुष्यपर्यवसानानां यः प्रक्षेपाहारस्स आभोगनिर्वर्तित एवेति॥ नैरयिकादिषु आहारपुद्गलानां चयोपचयादिजीवशब्दे। आहारपदस्य द्वितीये उद्देशोऽर्थाधिकाराः। आहारभवियसन्नीलेस्सादिट्ठीय संजयकसाए। नाणाजोगुवओगे वेदेयसरीरपत्ति ||शा प्रथमं सामान्यत आहाराधिकारो, द्वितीयो भव्याधिकारो भव्यविशेषिताहाराधिकारः / एवं तृतीयः संज्ञाधिकार, श्चतुर्थो लेश्याधिकारः, पंचमो दृष्ट्यधिकारः, षष्ठःसंयताधिकारः, सप्तमः
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy