________________ आलोयणा 441 अभिधानराजेन्द्रः भाग 2 आलोयणा एत इति एवं च चिंतयित्वा स्वपक्षेपरपक्षेच मत्सरिण एतेइतिप्रकाशयति। ततो लोके मत्सरिप्रवादो विद्वेषकरं च तद्वचस्तेषां मा भूदिति प्रागुक्तयतनया निवारणा क्रियते वचनेमाया-मृषादोषसंभवः / यतः परप्रीत्यनुवादकतया परिणाममसुंदरतया चोभयोरपि गुणकारित्वेक्ष्य तछा वाग्यतना क्रियते। न विप्रतारणबुद्येति / / एतेषामेव प्रतीच्छने अपवादमाह।। निग्गमसुमुवागए ण, वारिया गेण्हए समाउडं। अहिगरपडिणि अणुबद्ध, मेगागिजट न साएजा। निर्गमोऽशुद्धो यस्य स, निर्गमाशुद्धस्तं उपायनप्रागुक्तयत-नालक्षणेन वारितं समावृत्तं संतं गृण्हाति। किमुक्तं भवति / यदि स तथा प्रतिषिद्धः सन् ब्रूते भगवन्मिथ्या मे दुष्कृतं न पुनरेवं करिष्यामि। किन्तु यथा यूयं भणिष्यथ तथा करिष्यामि। मुक्तो मया पापस्वभावो दुर्गतिवर्द्धन इति। तत एवं तं समावृत्तं गृहाति किं सर्वमपि नेत्याह / (अहिगरणेत्यादि) योऽधिकरणं कृत्वा समागतस्तं यश्च मे तत्र प्रत्यनीकोऽस्तीत्युक्तवान्तं तथा अनु-बद्धरोषं येन च पश्चादेकाकी आचार्यस्त्यक्तस्तंचन (साएजा) न सात्मयेत् न सात्मीकुर्यादिति भावः॥ केवलं प्रत्यनीके अपवादोऽस्ति तमेवाभिधित्सुराह / / पडिणीयंमि उ भयणा, गिहंमि आयरियमादिदुहृमि // संजयपडिणीए पुण, न होति उवसामिए भयणा / / प्रत्यनीके भजना तामेवाह / गृहिणी गृहस्थे आचार्यादिदुष्ट / किमुक्तं भवति / यदि कोऽपिनाम गृहस्थ आचार्यस्य आदि-शब्दादुपाध्यायप्रवर्तिस्थविरगणावच्छेदानां शेषभिक्षणां च प्रद्धिष्टः स चाऽनेकधा उपशम्यमानोऽपि नोपशांतस्ततस्तस्मिन् आचार्यादिप्रदुष्टे गृहिण्यनुपशतितद्भयादागतः सन् प्रतिगृह्यते।यदि पुनः सब्रूयात् संयतोमे तत्र प्रत्यनीकोऽस्ति ततस्तस्मिन् संयतप्रत्यनीके न भवत्युपसंपत्नस प्रतिगृह्यते इत्यर्थः / अथवा स भण्यते / गच्छत्वं क्षमयित्वा समागच्छ। एवमुक्तो यदि तत्र गत्वा तं न क्षमयति ततो न स प्रतिगृह्यते अथ तेन गत्वाऽसौ क्षामितः केवलं स एव न क्षमते तर्हि पश्चादागतः प्रतिग्राह्यः। अथ स वक्ति मया स तदानीमेवागच्छता क्षामितः। तदा तस्मिन्नुपशांते स नियमात् प्रतिगृह्य एव न भवति भजनादिर्दोषत्वात्॥ सो पुण उवसंपन्जे, नाणहादसणे, चरित्ते, य। एएसिंनाणत्तं, वुच्छामि अहाणुपुष्वीए।। सपुनरुक्तप्रकारेण संगृह्यमाण उपसंपद्यते ज्ञानार्थं ज्ञाननिमित्तं दर्शने दर्शननिमित्तं सप्तम्या निमित्ते विधानात् / दर्शनप्रभावकशास्त्रनिमित्तमित्यर्थः / चारित्रार्थं चारित्रनिमित्तं एतेषां ज्ञानाद्यर्थमुपसंपद्यमानानां नानात्वभेदं यथोपन्यासं या आनुपूर्वी तया वक्ष्यामि। प्रतिज्ञातमेव निर्वाहयति॥ वत्तणा संघणा चेव, गहवे सुत्तत्थ तदुभए। वेयावचे खमणे, काले आवकहाएय॥ ज्ञानार्थ दर्शनार्थ चोपसंपत्प्रत्येकं त्रिधा। तद्यथा सूत्रं चार्थश्च तदुभयं च सूत्रार्थतदुभयं तस्मिन् सूत्रेऽर्थे तदुभयस्मिश्चेत्यर्थः / निमित्तसप्तमी चेयं। ततोऽयं भावार्थः / ज्ञानार्थं दर्शनार्थं चोप-संपद्यमानः प्रत्येकं सूत्रार्थं वा उपसंपद्यते। अर्थार्थ वा तदुभयार्थं चेति। पुनरेकैका प्रत्येकं भवति त्रिधा / तद्यथा / वर्तनेति अत्र सप्तमीलोपः प्राकृतत्वात् / वर्तनायां वर्तनानिमित्तमेवमेव संधनायां संधनानिमित्तं ग्रहणे ग्रहणानिमित्तें तत्र पूर्वगृहीतस्य सूत्रार्थस्य तदुभयस्य वा पुनः पुनः रभ्यसनं वर्तना। पूर्वगृहीतस्य विस्मृतस्यपुनः संस्थापनं संधना। तथा ग्रहणे तत्प्रथमतया अपूर्वस्य सूत्रार्थस्य तदुभयस्यवा ग्रहणनिमित्त एवं ज्ञाने दर्शनेच प्रत्येक भवति त्रिधा उपसंपत् चरणोपसंपद्यमानोद्विधोप-संपद्यते / तद्यथा। वैयावृत्ये क्षपणे च वैयावृत्यनिमित्तं क्षपणनिमित्तं च / ते द्विधा उपसंपद्यमानाः कालतो यावज्जीवं भवेयुश्च शब्दादित्वराश्च / / एनामेव गाथा व्याख्यानयति॥ दंसणनाणे सुत्तत्थ, तदुभए वत्तणाय एकक्के / उवसंपया य चरिते, देयावचे य खमणे यशा दर्शनविशोधकानि यानि सूत्राणि शास्त्राणि वा तानि दर्शन शेषाणि सूत्राणि शास्त्राणि वा ज्ञानं / तत्र दर्शनज्ञाने च प्रत्येकमुपसंपत्रिधा। सूत्रनिमित्तमर्थनिमित्तं यदुभयनिमित्तं च / एकैकस्मिन् सूत्रादौ प्रत्येक वर्त्तना संधना ग्रहणं च / किमुक्तं भवति / सूत्रेऽपि वर्तनानिमित्तमुपसंपद्यते / संधना निमित्तमुपसं-पद्यते। अपूर्वग्रहणनिमित्तं वा उपसंपद्यते। एवमर्थेऽपि त्रितयमुभयेऽपित्रितयमितिदर्शनेऽपि नवविधोपसंपद् ज्ञानेऽपि नवविधेति। चारित्रे चारित्रविषया उपसंपत् वैयावृत्ये, क्षपणे च // शुद्ध अपडिच्छणे, लहुगा अकरेंते सारणा अणापुच्छा। तेसु विमासो लहुतो, वत्तणादिसुत्थाणेसु / / / यदेतद्गुरुसकाशे सूत्रं तत् सर्वमधीतं / ततोगुरुभिरनुज्ञातो विधिना आपृच्छ्य व्रजकादिष्वप्रतिवध्यमान आगतः / आगतश्च सन् त्रीन् दिवसान्यावत् परीक्षितः शुद्धः। इत्थंभूतं योन प्रती-च्छत्याचार्यास्तस्य प्रायश्चित्तं लघुकाश्चत्वारो लघुमासाः। योऽपि उपसंपन्नो वर्तनानिमित्तं संधनानिमित्तं ग्रहणनिमित्तं वा स यदि वर्तनां संधनां ग्रहणं वान करोति तदा तस्मिन् वर्तना-दिकमकुर्वति प्रत्येकं त्रिष्वपि स्थानेषु वर्तनादिषु मासोलघुकः प्रायश्चित्तं / आचार्योऽपि यद्युपसंपन्नं प्रमाद्यतं न सारयति तदातस्मिन्नपि सारणा / अत्र विभक्तिलोप आर्षत्वात्। अकुर्वति त्रिष्वपि / वर्तनादिषु स्थानेषुभासलघु। एतच्च प्रायश्चित्तविधानं सूत्रविषयम्। अर्थे पुनर्वर्तनादिमकुर्वति शिष्ये अर्थनिमित्त-मुपसंपन्नं प्रमाद्यंत वर्तनादिष्वसारयति गुरौच प्रत्येकं त्रिष्वपि वर्तनादिषु स्छानेषु प्रायश्चित्तं मासगुरु।उभयविषये च द्वयोरपि प्रत्येकं वर्त्तनादि त्रिष्वपि स्थानेषु पृथक् उभयं प्रायश्चित्त मासगुरु मास लघु चेति / एतच गाथायामनुक्तमपि संप्रदायादवसितं। यथा (अणापुच्छा) इति। अनापृच्छायामननुज्ञायामित्यर्थः / अत्र चत्वारो भंगास्तद्यथा / अननुज्ञातोऽननुज्ञातेन सह वर्तनां करोत्ये-कोभंगः१ अनुज्ञातो अननुज्ञातेन सहेति द्वितीयः 2 अननु-ज्ञातोऽनुज्ञातेनेति तृतीयः३ अनुज्ञातोऽनुज्ञातेनेति चतुर्थः४ एवं संधनायां ग्रहणेऽपि च प्रत्येकं चत्वारो भंगाः / एवमर्थेऽपि तदुभयस्मिन्नपि च प्रत्येकं वर्तनादिषु चत्वारो भंगा। तत्र सूत्रविषये त्रिष्वपि वर्तनादिषु स्थानेषु प्रत्येकमायेषु भंगेषु ददानस्य गृण्हानस्य च प्रायश्चित्तं मासलघु। तपःकालविशेषितं / तद्यथा। वर्तनायामाद्येषु