SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ आलोयणा 434 अभिधानराजेन्द्रः भाग 2 आलोयणा अर्वाकभागपरभागवर्जिते अक्तीर्णा अवगाढा इति संवेग कृत्वेति योगः।। तथा॥ उद्धरियसव्वसल्ला, तित्थगराणाए सुत्थिया जीवा। भवसयकयाइं खविओ, पापाइंगया सिवंथाम ||4|| व्याख्या। उद्धृत सर्वशल्याः कृतालोचनास्तीर्थकराज्ञायां जिनोपदेशे सुस्थिताः सुष्टु व्यवस्थिताः संतोजीवा देहिनः भवशतकृतानि जन्मशत विहितानि क्षपयित्वा प्रक्षपय्य-शल्योद्वारसामर्थ्यात् पापानि कर्माणि गताः प्राप्ताः शिवं निरुपद्रवं (थामंति) स्थानं सिद्धालयमित्यर्थः / / सल्लुद्धरणं च इम, ति लोगवंधूहिं दंसियं सम्म। अवितहमारोगफलं, धण्णोहं जेणिमं णायं ||4|| व्याख्या / शल्योद्धरणमालोचना च शब्दः पूर्वगाथा-द्वयोक्तार्थापेक्षया समुच्चयार्यः / इदमनंतरोक्त विधानं त्रि-लोकबंधुभिर्जिनैरित्यर्थः दर्शितमुक्तं / सम्यक् सोपपत्तिकं अवितयमव्यभिचारि आरोग्यफलं भावारोग्यसाधकं ततश्च धन्योऽहं पुण्यवाहनं येन मया इदमेतच्छल्योद्धरण ज्ञातमवगतं॥ ता उद्धरेमि सम्मं, एय एयस्स णाणरासिस्स। आवेदिय असेस, अणियाणो दारुणविवागं ||4|| व्याख्या / ता इति यस्मादिदं मया ज्ञातं तत्तस्मा-दुद्धराम्यपनयामि सम्यग् न्यायेन एतत् भावशल्यं एतस्य गुरोनिराशेः अग्रे सदोधनिकरस्यावेद्य कथयित्वाऽशेष सकल मनिदानो निर्निदानः सन् दारुणविपाक रौद्रफलं शल्यमिति प्रक्रमः इय संवेगं काऊं, मरुगाहरणादिएहिं विधेहि / / दृढपुणकरणाजुत्तो, सामायारिं पउंजेला // 46| व्या०॥ इति एवमनंतरगाथाचतुष्कोक्तप्रकारं संवेगं शुभाध्यवसायविशेषं कृत्वा विधाय कैरित्याह। मरुकाहरणा-दिर्भिब्राम्हणोदाहणाधैः समयप्रसिद्धैश्चिन्हैर्लिगैमरणाभ्युपग-मेनाऽपि शुद्धिः कार्येत्येवंभूतार्थगमकैः।। पंचा-वृ.१५० नविसुझंतिससल्ला, जहभणियं सव्वभावदंसीहिं / गरणापुणन्भवरहिआ, आलोअणनिंदणा साहू।।१|| द. प.४॥ () आलोचनीये विषये यथाक्रममालोचनाप्रकारः।। संप्रति यत् आलोचनीयं तदालोचनाविषयं तस्य विधिमाह। मूलगुणपढमकाया, तत्थवि पढमं तु पंथमादीस। पाय अपमजणादी, विइए उल्लाइपंथे वा। इह द्विधा अपराधा (मूलगुणापराधा उत्तरगुणापराधाश्च तत्र उभयसंभवे प्रथम) मूलगुणापराधालोचना / तेष्वपि मूलगुणापराधेषु मध्ये प्रथम मूलगुणापराधः प्राणातिपात इति सः प्रथममालोचनीयः / स च षड्जीवकायविषय इति काया प्रथमत आलोधयिव्यास्ते च कायाः पृथिव्यादिक्रमेण तत्र सूत्रे उपन्यस्ता इति (तत्थवि) तेष्वपि कायेषु पृथिव्यादिषु मध्ये प्रथम पृथिवीकायमेवमालोचयेत् / "पंथमादीसु पादअपमजणादी, पंथादिषु यत् पादप्रमार्जनादि कृतं। किमुक्तं भवति / पथि व्रजिता स्थंडिलादस्थंडिलाद्वा स्थंडिलं कृष्णमृत्तिकातो वा नीलमृत्तिकां नीलमृत्तिकातो वा कृष्णमृत्तिका मेवं शेषवर्णेष्वपि भावनीयं / संक्रामता पादयोर्यत्प्रमार्जनं न कृतं / तथा वातोद्धृतेन सचित्तेन रजसासचित्तया वा मृत्ति कया संसृष्टेन हस्तेन संसृष्टन मात्रकेण वा यत् भिक्षाग्रहणं कृतं! तदेव मयाऽऽलोचीति सर्वत्रापि सामर्थ्यात् योजनीयम् "विश्यउल्लाह पंथेवा'' इति पृथिवीकायविराधनालोचनानंतरं द्वितीये अप्कायविषये यदुदकार्दादिआदिशब्दात्सस्निग्धादि परिग्रहः / एतदुक्तं भवति / उदकाट्टैण सस्निग्धेन वा हस्तेन मात्रेण भिक्षाग्रहणं कृतं पथि वा मार्गे वा अयतनया उदकमुत्तीर्णं वा एवमादि तयालोचयेत्। तइए पइडियादी अभिधारणवीयणादिवाउंडि। वीयाइघमंचमे, इंदिये अणुवायतो छट्टे॥ अप्कायविराधनालोचनानंतरं तृतीये तेजस्काये यत् प्रतिष्ठितादितेजसि परंपरादिप्रतिष्ठितं भक्तंपानं वा गृहीतं आदिशब्दात् सद्योषिति वा वसतावस्थानं कृतमित्येवमादीति-भावः / तदा लोचयेत्। तदनंतरं वायौ वातकाये यत् अभिधार-णवीजनादि कृतं / घर्तेिन बहितिोऽभिसंधारितो भक्तं पानं शरीरं वा वीजनिकादि वा जीवितं एवमादि तदालोचयेत् / ततः पंचमे वनस्पतिकाये "वीयाइघट्ठत्ति,,। यत् बीजादिघट्टनं आदिशब्दात् हरितकायादिपरिग्रहः उपलक्षणमेतत्। तेन यदि वा बीजादिकं भिक्षासु पतितं गृहीतमित्येवमादितदालोचयेत्। तदनंतरं षष्ठेऽत्र त्रसकाये इंद्रियानुपात्तत इंद्रियवृद्धिक्रमेणालोचना दातव्या॥ तद्यथा। प्रथमतो।वींद्रियाणां संघट्टनपरितापनाद्यालोचयेत्। तदनंतरं त्रींद्रियाणां चतुरिंद्रियाणां ततः पंचेंद्रियाणामिति / एवं प्रथममूलगुणापराधेषु क्रमेणालोचितेषु सत्सु॥ दुम्मासियहीयसादी, विए तइएयजावियग्गहणं / संघट्टणपुय्वरयादी, इंदियआलोगमेहुण्णे // द्वितीये मूलगुणापराधिमृषावादे मृषावादविषये यत् दुर्भाषितहसितादियत्किमपि दुर्भाषितं हासेन वा मृषावादो भणितः आदिशब्दात् / क्रोधेन वा मानेन मायया वा लोभेन वा यत्किमपि मृषा भणित मिति परिग्रहस्तदालोचयेत् / तदनंतरं तृतीयेन मूलगुणापराधे अदत्तादानलक्षणे यत् अयाचितस्य तृण-डगलकादेहणं उपलक्षणमेतत् / तेन अनुज्ञाप्य वा अवग्रहं कायिकादिव्युत्सृष्टं भवेदित्यादि परिग्रहः / तदालोचयेत् / मैथुनविषये ततौमैथुने यत् घट्टने पूर्वरतादि / किमुक्तं भवति। चैत्यभवनम हिमादिषु प्रभूतजनसंमर्दै स्त्रीशरीरसंघट्टने स्पर्श आस्वादितो भवेत् / पूर्वरतक्रीडितं वा अनुस्मृतं स्यात् (इंदियत्ति) इंद्रियाणि वा मनोहरणानि उपलक्षणमेतत् / वदनस्तनादिमतिसुमनोहरमवेक्ष्य मनाक् रागं गतो भवेत्। इत्यादि तदालोचयेत्। मुच्छातिरित्तपंचमे,छट्टे लेवाडअगयसुंठादी। गुत्तिसमिईविवक्खा, णामि गहणुत्तरगुणेसु॥ चतुर्थमूलगुणापराधालोचनानंतरं पंचमे मूलगुणापराधेपरिग्रहे विषयभूते यत् उपकरणेषु मूर्छा कृता भवेत्। (अइरित्तित्ति) अतिरिक्तो वा उपधिः परिगृहीत एतदालोचयेत्। तदनंतरं षष्ठे मूलगुणापराधे रात्रिभोजने (लेवाडेत्ति) लेपकृदवयवः कथमपि पर्युषितो भवेत्। अगदं वा शुंठ्यादिकं किंचित्सन्निहितं परिभुक्तं भवेत् ! एवमादि आलोचयेत् एवं क्रमेण मूलगुणापराधालोचनां दत्वा तदनंतरमुत्तरगुणेषु विषयेषु गुप्तिसमितिविपक्षाः कृताः। अनेषणीयग्रहणं वाऽकारि। किमुक्तं भवति / गुप्तिषु कदाचिदगुप्तः स्यात् / समि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy