________________ आभिणिबोहियणाण 279 अभिधानराजेन्द्रः भाग 2 आमिणिबोहियणाण नियतो-निश्चित इति निशब्देन विशिष्यतेरसाद्यपोहेन रूपमे-वेदम् इत्येव | धारणात्मक इत्यर्थः / उत्तं च-" एवमवग्रहोऽपि निश्चितमवगृह्णाति, | कार्यत उपलब्धे:" अन्यथावग्रहकार्य-भूतोऽपायोऽपि निश्चयात्मको न स्यादिति भावः / आह-ननु नियतोऽर्थाभिमुख एव भवति ततो नियतत्वविशेषणमेवास्तु किमाभिमुखविशेषणेन ? तदयुत्तं द्विचन्द्रज्ञानस्यतैमिरिकं प्रति नियतत्वे सत्यप्यर्थाभिमुख्याभावादिति / एवं च सति-अर्थाभि- मुखो नियतो यो बोधः स तीर्थकरगणधरादीनामभिनिबोधो मत:- अभिप्रेतः। 'सो चेवाभिणिबोहियमिति' स एवाआभिनिबोध एवाभिनिबोधिकं, विनयादिपारदभिनिबोधशब्दस्य "विन-- यादिभ्यष्ठक" (पा.-५।४।३४) इत्यनेन स्वार्थ एव ठक्प्रत्ययो; यथा विनय एव वैनयिकमिति ! अहव जहाजोग्गमाउज्ज' तिअथवा- नेह स्वार्थिक प्रत्ययो विधीयते, किंतुयथायोगयथासंबन्धमायोजनीयम्; घटमानसंबन्धानुसारेण स्वयमेव वक्तव्यमित्यर्थः, तद्यथा- अर्थाभिमुखे नियते बोधे भवम् आभिनिबो-धिकं तेन वा निवृत्तं, तन्मयं वा, तत्प्रयोजनं वा, आभिनिबो- धिकं तच्च तज्ज्ञानं च आभिनिबोधिकज्ञानम् / इति गाथार्थः / तदेवमाभिनिबोधिकशब्दवाच्यं ज्ञानमुक्तम्। अथवा- ज्ञानं क्षयोपशम: आत्मा वा तद्वाच्य इति दर्शयन्नाहतं तेण तओ तम्मिव, सो वाऽऽभिनिबुज्मए, तओवातं / / 814|| 'त' ति-आभिमुख्येन निश्चितत्वेन अवबुध्यते- संवेदयते आत्मा तदित्यभिनिबोध: अवग्रहादिज्ञानं स एवाभिनिबोधिकम्, अथवा-आत्मा तेन प्रस्तुतज्ञानेन, तदावरणक्षयोपशमेन वा करणभूतेन घटादिवस्त्वभिनिबुध्यते तस्माद् वा-प्रकृतज्ञानात्, क्षयोपशमाद् वा अभिनिबुध्यते; तस्मिन्वाऽधिकृतज्ञाने, क्षयोपशमे वा सत्यभिनिबुध्यते अवगच्छतीत्याभिनिबोध:- ज्ञानं क्षयोपशमो वा। 'सो वाऽभिणिबुज्भए' त्ति- अथ वा- अभिनिबुध्यते- वस्तु अवगच्छतीति अभिनिबोधः / असावात्मैव ज्ञानज्ञानिनोः कथं चिदध्यतिरेकादिति / स एवाभिनिबोधिकम्'तओ वा तमि तिन वेचलं 'अत्थाभिमुहो नियओ' इत्यादि-व्युत्पत्त्या आभिनिबोधिकमुक्तं; किन्तु यत:-'तं तेण तओ तम्मि' इत्यादिव्युत्पत्त्यन्तरमस्ति, ततोऽपि कारणासदाभिनिबोधिकमुच्यत इत्यर्थः, नन्वात्मक्षयोप-शमयोरामिनिबोधिकशब्दवाच्यत्वे ज्ञानेन सह कथं समाना-धिकरणता स्यात् ? सत्यं, किं तुज्ञानस्यात्माश्रयत्वात् क्षयोपशमस्यच ज्ञानकारणत्वादपचारतोऽत्रापि पक्षे आभि-निबोधिकशब्दो ज्ञाने वर्तते / ततश्वामिनि-बोधिकंच तज्ज्ञानं चाभिनिबोधिकज्ञानमिति समाना-धिकरणमास: इत्यदोषः / विशे। आभिनिबोधिकज्ञानस्य स्वरूपं परोक्षं ज्ञानमधिकृत्यपचक्खं परोक्खं वा, जं अत्थं ऊहिऊण निहिसइ। तं होई अमिणिबोहं, अभिमुहमत्थं न विवरीयं / / 39 / / प्रत्यक्षम् -इन्द्रियविषयं परोक्षम् -इन्द्रियविषयातिक्रान्तम्, यदर्थमूहित्वा निर्दिशति- निर्णयपुरस्सरं ब्रूते एष एवंभूतोऽर्थ इति तदर्थं प्रति अभिमुखं- यथार्थविषयमाभिनिबोधिकं न विपरीतं नाऽनर्थाभिमुखं तस्य यथार्थतया मिथ्यारूपत्वात् तच्च द्विधा- इन्द्रियनिश्चितम्, अनिन्द्रियनिश्चितं च। बृ.१ उ.१ प्रक०। (2) आभिनिबोधिकज्ञानभेदाः-- जत्थ आमिणिबोहियणाणं तत्थ सुयनाणं, जत्थ सुअ-नाणं तत्थाऽऽमिणिबोहियणाणं,दो वि एयाइं अण्ण-मण्णमणुगयाइं, तह वि पुण इत्थ आयरिया नाणत्तं पण्णवयंति- अमिबुज्जई त्ति आभिणिबोहिअणाणं, सुणेइत्ति सु। (सूत्र 244) 'यत्र' पुरुष आभिनिबोधिकं ज्ञानं तत्रैव श्रुतज्ञानमपि, तथा 'यत्र' श्रुतज्ञानं तत्रैवाभिनिबोधिकज्ञानम्। आह-यत्रा-भिनिबोधिकज्ञानं तत्र श्रुतज्ञानमित्युक्ते यत्र श्रुतज्ञानंतत्रा-भिनिबोधिकज्ञानमिति गम्यत एव, तत: किमने नोक्तेनेति ? उच्यते, नियमतो न गम्यते, ततो नियमावधारणार्थमेतदुच्यते इत्यदोषः, नियमावधारणमेव स्पष्टयति-द्रे अप्येते- आभिनिबोधिकश्रुते अन्योऽन्यानुगते- परस्परप्रतिबद्धे, स्यादेतद्-अनयोर्यदि परस्परमनुगमस्तर्हि अभेद एव प्राणोति कथं भेदेन व्यवहार:? तत आह- 'तह वी' त्यादि, तथापिपरस्परमनुगमेऽपि पुनरत्र- आभिनिबोधिकश्रुतयोराचार्या:- पूर्वसूरयो नानात्वं-भेदं प्ररूपयन्ति, कथमिति चेत्? उच्यते, लक्षणभेदात, दृष्टश्च परस्परमनुगतयोरपि लक्षणभेदोद्भेदो: यथैकाकाशस्थयोर्धर्मास्तिकायाऽधर्मास्तिकाययोः, तथाहि- धर्माऽधर्मास्तिकायौ परस्पर लोलीभावेनैकस्मिन्नाकाशदेशे व्यवस्थितौ, तथापि यो गतिपरिणामपरिणतयोर्जीवपुगल-योर्गत्युपष्टम्भहेतुर्जलमिव मत्स्यस्य स खलु धर्माऽस्तिकायो, य पुन: स्थितिपरिणामपरिणतयोर्जीवपुद्रलयोरेव स्थि-त्युपष्टम्भहेतुः क्षितिरिवभषस्य स खलु अधर्मास्तिकाय इति लक्षणभेदाढ़ेदो भवति, एवमाभिनिबोधिक श्रुतयोरपि लक्षणभेदाढ़ेदो वेदितव्यः, लक्षणभेदमेव दर्शयति- 'अभि-निबुज्भई' त्यादि, अभिमुखं-योग्यदेशे व्यवस्थितं नियत-मर्थमिन्द्रियमनोद्वारेण बुध्यते- परिच्छिनत्ति आत्मा येन परि-णामविशेषण स परिणामविशेषो ज्ञानाऽपरपर्याय आभिनिबोधिकं, तथा शृणोतिवाच्यवाचकभावपुरस्सरं श्रवणविषयेन शब्देन सह संस्पृष्टमर्थ परिच्छिनत्त्यात्मा येन परिणामविशेषेण स परिणाम-विशेष: श्रुतम् / न० / (श्रुतज्ञानस्य सर्वा वक्तव्यता'सुय' शब्दे सप्तमे भागे करिष्यते) से किं तं आभिनिबोहियनाणं? आभिणिबोहियनाणं दुविहं पण्णतं,त्तं जहा-सुयनिस्सियं च, अस्सुयनिस्सियं च / (सूत्र-२६+) 'से किं तं' इत्यादि, अथ किं तद् ? आमिनिबोधिकज्ञानं सूरिराह- आभिनिबोधिक ज्ञानं द्विविध प्रज्ञप्तं , तद्यथाश्रुतनिश्रितं च, अश्रुतनिश्रित च / तत्र शास्त्रपरिक र्मितमतेरुत्पादकाले शास्त्रार्थपर्यालोचनमनपेक्ष्यैव यदुपजायते म 1- ("ठस्येकः" || इत्यनेन ठस्य इकाऽऽदेशः)