SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आधाकम्म 249 अमिधानराजेन्द्रः भाग 2 आधाकम्म न्तरेऽशनविषये एवाधाकर्मेति नाम प्रयुज्यते, तथा ततोऽन्यत्रापि वसत्यन्तरे, तान्यमूनि सर्वाण्यप्याधाकर्मेति नामान्येकार्थानि एकव्यञ्जनानीति प्रथमे भङ्गेऽवतरन्ति, आधाकर्म अध:- कर्मत्यादीनि तु नामानि विवक्षिताशनादिरूपैकविषये प्रवर्तमानानि / द्वितीयो भङ्गः एकार्थानि नानाव्यञ्जनानी- त्येवंरूपद्वितीयभङ्गविषयाणि 'सक्किंद इवे' तियथा इन्द्रः शक्र इत्येवमादीनि नामानि, तथा अशनादय:अशनपानखादिम- स्वादिमरूपाश्चत्वार आधा-कर्मान्तरिताआधाकर्मशब्देन-व्यवहिता यथा- अशनमाधाकर्म पानमाधाकर्म इत्येवमादि, तृतीयभङ्गः- तृतीयभङ्गविषय: अत्राप्ययं भावार्थ:- यदा-अशनादय: प्रत्येकमाधाकर्म आधाकर्मेति देशभेदेन बहुभिः / पुरुषैरेक- कालमेकेन वा पुरुषेण कालभेदनोच्यन्ते तदा तानि आधाकर्म आधाकर्मेति नामानि नानार्थान्येकव्यञ्जनानीति तृतीये भङ्गेऽवतरन्ति, आधाकर्मरूपं नामाश्रित्य पुनश्चरमो भङ्गो नानार्थानि नानाव्यञ्जनानीत्येवंरूपो नियमाच्छू न्यः आधाकर्म आधाकर्मेत्येवमादिनाम्नां सर्वेषामपि समानव्यञ्जनत्वात, उपलक्षणमेतत्, तेन सर्वाण्यापि नामानि प्रत्येकं चरमभङ्गे न वर्तन्ते, यदा तु कोऽप्यशनविषये आधाकर्मेति ना प्रयुत्ते पानविषये त्वधःकर्मेति खादिमविषये त्वात्मघ्नमिति, खादिमविषये त्वात्मकर्मेति तदानि नामानि नानार्थानि नानाव्यञ्जनानि चेति चरमोऽपि भङ्गः प्राप्यते। इह विवक्षिताशनादिरूपैकविषये प्रवर्तमानान्याधाकर्माध: कर्मप्रभृतीनि नामानि द्वितीयभङ्ग उक्तस्ततस्तदेव भावयतिइंदत्थं जह सद्दा, पुरंदराई उनाऽइवत्तंते। अहकम्म आयहम्मा, तह आहे नाऽइवत्तंते / / 135 / / यथा इन्दार्थ इन्द्रशब्दवाच्यं देवराजरूपं पुरन्दरादय:- पुरन्दरः शक्र इत्येवमादयः शब्दा नातिवर्तन्ते- नातिक्रामन्ति / तथा अध:कर्मआत्मघ्नशब्दौ उपलक्षणमेतत्। आत्मकर्मशब्दश्च'आह'ति-"सूचनात् सूत्रमि" तिन्यायात् आधाकर्मार्थम्-आधाकर्मशब्दवाच्यं नातिवर्तन्ते, यदेव येन दोषेण दुष्टमा-धाकर्मशब्दवाच्यमोदनादि तनेव तेनैव दोषण दुष्टमध:कर्मादयोऽपि शब्दा ब्रुवते इति भावः / एतदेव भावयतिआहाकम्मेण अहे, करेइ जं हणइ पाणभूयाई। जंतं आययमाणो, परकम्मं अत्तणो कुणइ / / 136 // आधाकर्मणा भुज्यमानेन कृत्वा यस्माद्विशुद्धेभ्यो विशुद्ध-तरेभ्यः संयमादिस्थानेभ्योऽवतीर्याधस्तादात्मानं करोति / तेन कारणेन तदेवाधाकर्म अध:कर्मेत्युच्यते, तथा यस्मादाधाकर्मणा भुज्यमानेन कृत्वा स एव भोक्ता / परमार्थतः प्राणान्द्वीन्द्रिया-दीन् भूतान्वनस्पतिकायान् उपलक्षणमेतत् जीवान्- सत्त्वांश्च हन्तिविनाशयति / "जस्सऽट्ठा आरम्भो पाणिवहो होइ तस्स नियमेण' इति वचनप्रामाण्यात्प्राणादींश्च घ्नन् नियमत-श्वरणादिरूपमात्मानं हन्तिविनाशयति / 'पाणिवहे वयभंगो' इत्यादिवचनात् तत आधाकर्म आत्मघ्नमित्युच्यते, तथा यत्-स्मात्कारणात्तत्-आधाकर्म आददान: | परस्य-पाचकादेः संबन्धि यत्कर्म आरम्भजनितं ज्ञानावरणीयादिकमुत्पन्नमासीत् तदात्मनोऽपि करोति, ततस्तदाधाकर्म आत्मकर्मेत्युच्यते तस्मादध:कर्मादीनि नामानि सर्वाण्यपि नाऽऽधाकर्मशब्दार्थमतिवर्तन्ते इति द्वितीये भङ्गेऽवतरन्ति। तदेवं मूलद्वारगाथायाम् 'एगट्ठा' इत्यपि व्याख्यातम्। पिं। (६)आधाकाश्रित्य कल्प्याऽकल्प्यविधिः। संप्रत्येताने-वाधिकृत्य कल्प्याऽकल्प्यविधिर्वक्तव्यः, तत्र नामसाधर्मि-कमधिकृत्य प्रथमत: कल्प्याकल्प्यविधिं गाथाद्वयेन प्रति-पादयतिजावंत देवदत्ता, गिहीव अगिहीव तेसि दाहामि। नो कप्पई गिहीणं, दाहंति विसेसिए कप्पे // 142 / / पासंडीसु वि एवं, मीसाऽमीसेसु होई हु विभासा। समणेसुसंजयाणउ,विसरिसनामाणविन कप्पे॥१४३ / / इह कोऽपि पितरि मृते जीवति वा तन्नामानुरागतस्तन्नाम- युक्तेभ्यो दानं दित्सुरेवं संकल्पयति यथा यावन्तो गृहस्था अगृहस्था वा देवदत्तास्तेभ्यो मया भक्तादिकमुपस्कृत्य दातव्यं, तत्रैवं संकल्पे कृते देवदत्ताख्यस्य साधोर्न कल्पते, देवदत्त-शब्देन तस्यापि संकल्पविषयीकृतत्वात्, यदा पुनरेवं संकल्पयति, यथा यावन्तो गृहस्था देवदत्तास्तेभ्यो दातव्यमिति, तदा एवं विशेषिते- निर्धारिते सति तद्योग्यमुपस्कृतं देवदत्ताख्यस्य साधोः कल्पते, तस्य विवक्षितसंकल्पविषयीकरणाभावात, तथा पाषण्डिष्यपि मिश्राऽमिश्रेषु एवं पूर्वोक्तप्रकारेण विभाषा कर्तव्या, इह सामान्यसंकल्पविषया मिश्रा उच्यन्ते, यथा यावन्त: पाषण्डिनो देवदत्ता इति, प्रतिनियतसंकल्पविषयास्त्वमिश्रा यथा यावन्त: सरजस्का: पाखण्डिनो, यदिवासौगता देवदत्ता इत्यादि, तत्र यावन्तो देवदत्ता: पाखण्डिन इति मिश्रसंकल्पे कृते न कल्पते। पाषण्डिदेवदत्तशब्दाभ्यां देवदत्ताख्यस्थाऽपि साधो: संकल्पविषयीकृतत्वात् यदा पुनरमिश्रः संकल्पो यथायावन्त: सरजस्का: पाषण्डिनो देवदत्ता, यदि वायावन्त: सौगता देवदत्ताः, यद्वा-साधुव्यतिरेकेण सर्वेऽपि पाषण्डिनो देवदत्तास्तेभ्यो दास्यामीति, तदा देवदत्ताख्यस्य साधो: कल्पते, तस्य संकल्पविषयीकरणाभावात्, यथा च पाषण्डिषु मिश्रामिश्रेषु विभाषा कृता तथा श्रमणेष्वपि मिश्रामिश्रेषु कर्त्तव्या, श्रमणा हि शाक्यादयोऽपि भण्यन्ते, यतो वक्ष्यति-"निगंथ-सक्क- तावसगेरुयआजीवपंचहा समणा" ततो यदैवं मिश्रः संकल्पो यावन्त: श्रमणा देवदत्ताख्यास्तेभ्यो दास्यामीति तदा देव-दत्ताख्यस्य साधोर्न कल्पते, तस्य श्रमणदेवदत्तशब्दाभ्यां संकल्पविषयीकृतत्वात्, यदा पुनरेवममिश्रः संकल्पो यावन्त: शाक्या: श्रमणाः, यदि वा-आजीवका देवदत्ता, यद्वा- साधुव्यतिरेकेण सर्वे श्रमणा देवदत्तास्तेभ्यो दास्यामीति तदा कल्पते, तस्य विवक्षितसंकल्पविषयीकरणाभावात्, संयतानां तु निन्थिातां विसदृशनानामपि संकल्प कृते देवदत्ताख्यादे: साधोर्नकल्पते, किमुत्तं भवतिचैत्रनाम्रोऽपिसंयतस्योद्देशेन कृतं देवदत्ताख्यस्य साधोर्न कल्पते, तथा भगवदाज्ञाविजृम्भ
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy