________________ आधाकम्म 247 अभिधानराजेन्द्रः भाग 2 आधाकम्म संप्रति दृष्टान्तोक्तस्य कुमारस्य ये दोषाः संप्रभवन्ति तानुपदाऽऽधाकर्मणो भोक्तरि योजयतिपडिसेवण पडिसुणणा, संवासऽणुमोयणा उचउरोऽवि। पियमारग रायसुए, विभासियव्वा जइजणेऽवि / / 124 / / पितृमारके राजसुते प्रतिषेवण-प्रतिश्रवण-संवासाऽनुमोदनारूपाश्चत्वारोऽपि दोषा घटन्ते, तथाहि-तस्य स्वयं पितृ-मारणाय प्रवृत्तत्वात् प्रतिषेवणं, वयं तत्र सहाया इति निजभट-वचनं प्रतिपद्यमानस्य प्रतिश्रवणं, तैरेव सार्द्धमेकत्रनिवसनेन संवासः, तेष्वेव बहुभानकरणादनुमोदना, एवं यतिजनेऽप्याधा-कर्मणो भोक्तरि विभाषितव्यायोजनीयाः, अत्र य: स्वय-मानीयान्यैः सह भुक्ते तत्र प्रथमतो योज्यन्ते तस्य आधाकर्म गृहस्थगृहादानीय भुञ्जानस्य प्रतिषेवणं, गृहस्थेना- धाकमग्रहणाय निमन्त्रितस्य तद्ग्रहणाभ्युपगम: प्रतिश्रवणं, तस्मै तदाधाकर्म आनीय संविभागेन प्रयच्छति तेन सहकत्र संवसत: संवासः, तत्रैव बहुमानकरणादनुमोदना यश्चान्येनानीतमाधा- कर्मनिमन्त्रित: सन भुक्ते तस्य प्रथमतो निमन्त्रणानन्तरमभ्युपगच्छतः प्रतिश्रवणं, ततो भुञ्जानस्य प्रतिषेवणं, निमन्त्रकेण सह एकत्र संवसत: संवास: तत्र बहुमानकरणादनुमोदना, तदेवं यत्र प्रतिषेवणंतत्र नियमत-श्चत्वारोऽपि दोषा: प्रतिश्रवणे च केवले त्रय: संवासे द्वौ अनुमोदनायां त्वनुमोदनैव वेचला,अत एवाऽऽदिपदं गुरु, शेषाणि तु पदानि लघुलघुलघुकानीति। संप्रति संवासे पल्लीदृष्टान्तं भावयतिपल्लीवहम्मि नट्ठा, चोरा वणिया वयं न चोर त्ति। न पलाया पावकर त्ति, काउंरना उवालद्धा / / 125 / / वसन्तपुरं नामनगरं तत्र-अरिमर्दनो नाम राजा, तस्य प्रियदर्शना देवी, तस्य वसन्तपुरस्य प्रत्यासन्ना भीमाभिधाना पल्ली, तस्यां च बहयो | भिल्लरूपा दस्यवः परिवसन्ति, वणिजश्च / तेच दस्यवस्सदैवस्वपल्या विनिर्गत्य सकलमप्यरि-मर्दनराजमण्डलमुपद्रवन्तिानस कश्चिदस्ति राज्ञ: सामन्तो माण्डलिको वा यस्तान् साधयति, ततोऽन्यदा तत्कृतं सकल-मण्डलोपद्रवमाकर्ण्य महाकोपावेशपूरितमानसो राजा स्वयं महती सामठी विधाय भिल्लान् प्रतिजगाम, भिल्लाश्च पल्लीं मुक्त्या संमुखीभूय संग्राभं दातुमुद्यता:, राजा प्रबलसेना-परिकलिततया तान् सनिप्यविगणय्य सोत्साहो हन्तुमार-उधवान्, ते चैवं हन्यमाना: केऽपि तत्रैव परासवो बभूवुः, केऽपि पुन: पलायितवन्त:, राजा च साऽमर्ष: पल्ली गृहीतवान् वणिजश्च तत्रत्या न वयं चौरास्तत: किमस्माकं राजा करिष्यतीति बुद्ध्या नाऽनेशन्, राज्ञा च तेऽपि ग्राहिता: ततस्तैर्विज्ञपयांचक्रे यथा देव! वयं वणिजो; न चोरा इति, ततो राजाऽवादीत् यूयं चौरेभ्योऽप्यतीवापराधकारिणो येऽस्माकमपराधकारिभिश्चौरैः सह संवसंथति, ततो निगृहीताः / गाथाऽक्षरयोजना तु सुगमत्वात् स्वयं कार्या। दार्शन्तिकयोजनां करोतिआहाकडभोईहिं, सहवासो तह य तट्विवज्जंपि। दसणगंधपरिकहां, भाति सुल्लूहवित्तिं पि।।१२६ / / भावना-यथा वणिजां चौरैस्सहैकत्र संवासो दोषाया बभूव तथा साधूनामप्याधाकर्मभोक्तृभिः सहकत्र संवासो दोषाय वेदितव्यः, यतस्तद्विवजमपि-आधाकर्मपरिहारकमपि तथा सुरूक्षवृत्तिमपि, सुष्ठ अतिशयेन रूक्षा द्रव्यतो विकृत्य परिभोगेन भावतोऽभिष्वङ्गाभावेन नि:स्नेहा वृत्तिः-वर्तनं यस्य तथा तमपि आधाकर्मसंबन्धिन्यो दर्शनगन्धपरिकथा भावयन्ति आधाकर्मपरिभोगवाञ्छापादनेन वासयन्ति / तथाहि दर्शनम्अवलोकनं, तच मनोज्ञमनोज्ञतराऽऽधाकाहारविषयं नियमा- द्वासयति, यत: कस्य नाम शकुन्दावदातो रस-पाकनिधान- निष्णातमहासूपकारसुसंस्कृत: शाल्याद्योदनो न मन:क्षोभमुत्पादयति / गन्धोऽपि सद्यस्तापितधृतादिसंबन्धी नासिकेन्द्रिया ऽप्यायनशीलो बलादपि तद्भोजने श्रद्धा-मुपजनयति, परिकथाऽपि च विशिष्ट विशिष्टतरद्रव्यनिष्पा-दितमोदकादिविषया विधीयमाना तदात्वाद संपत्त्याशंसाविधौ चेत् उत्साहयितुमीश्वरा, तथादर्शनात् ततोऽवश्यमाधाकर्म-भोक्तृभिः सह संवासो यतीनां दोषायेति। अनुमोदनायां राजदुष्टदृष्टान्तं भावयतिरायारोहवराहे, विभूसिओ घाइओ नयरमजे। घन्नाऽधन्न त्ति कहा, वहाऽवहो कप्पडिय खोला / / 127 / / श्रीनिलयं नाम नगरं, तत्र गुणचन्द्रो नाम राजा, तस्य गुणवतीप्रमुखमन्तःपुरं, तत्रैव च पुरे सुरूपो नाम वणिक्: स च निजशरीरसौन्दर्यविनिर्जितमकरध्वजलवणिमाकमनीयकामिनी-नामतीव कामास्पदं स्वभावतश्च परदाराभिष्वलङ्गलालस:, तत: सोऽन्यदा राजान्त:पुर-सन्निवेशसमीपं गच्छन्नन्त:पुरिकाभि: सस्नेहमवलोकित: तेनाप्यपचित्ता: साभिलाषमवेक्षितास्ततो जात: परस्परमनुरागः, दूतीनिवेदितप्रयोगवशेन च ता: प्रतिदिनं तेन सेवितुमारब्धाः, राज्ञा च कथमप्ययं वृत्तान्तो जज्ञे, ततो सदा सोऽन्तःपुरं प्राविशत्तदा निजपुरुषाहितो ग्राहयित्वा च यैरेवाभरणैरलंकृतोऽन्तःपुरं प्रविवेश तैरेवाभरणैर्विभूषितो नगरमध्ये चतुष्पथे सकलजनसमक्ष विचित्रकदर्थनापुरस्सरं विनिपातितः। राजा चान्त:पुरविध्वंसेनातीवदूनमनास्तस्मिन् विनाशितेऽपि न कोपावेशं मुञ्चति / ततो हेरिकान् प्रेषयामास, यथारे दुरात्मानंतंये प्रशंसन्तियेवा निन्दन्ति तान् द्वयानपि मह्यं निवेदय? इति, एवं च प्रेषिता: कार्पटिकवेषधारिण: सर्वत्रापि नगरे परिभ्रमन्ति, लोकाश्च तं विनाशितं दृष्ट्वाकेचन रावते, यथा अहो जातेन मनुजन्मना अवश्यं तावन्मर्त्तव्यं परं या अस्मा-दृशामधन्यानां दृष्टिपथमपि कदाचनापि नायान्ति ता अप्येष यथासुखं चिरकालं भुक्त्वा मृतस्तस्माद्धन्य एष इति, अपरे वृवते - अधन्य एष उभयलोकविरुद्धकारी स्वामिनोऽन्तःपुरिका हि जननीतुल्यास्ततस्तास्वप्येष संचरन् कथं प्रशंसामर्हति शिष्टेभ्य: इति, ततस्ते द्वये अपि हेरिकैर्निवेदिता राज्ञो, राज्ञा च ये तस्य निन्दाकारिणस्ते सबुद्धय इति कृत्वा पूजिता:, इतरे तु-कृतान्तमुखे प्राक्षिप्यन्त, गाथाक्षरयोजना त्वेवम् राज्ञोऽव-रोधोऽन्तःपुरं तद्विपयेऽपराधे यैरेवाऽऽभरणैर्विभूषितोऽन्तःपुरे प्रविष्टस्तैरेव विभूषितो नगरमध्येघातितः / तत: कार्पटि