SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आता 227 अभिधानराजेन्द्रः भाग 2 आता ' ऽस्य दोषोऽस्तु, पृथिव्यादीनां रूपाद्यनात्मकत्वे खादिभ्यो विशिष्टतया व्यवस्थापयितुमशक्त: / स्यान्मतम्, आत्मनो ज्ञानमस्मास्विति प्रतियन्ति / आत्मत्वात्, ये तु न तथा तेनाऽऽत्मनो, यथा खादयः / आत्मानश्चैतेऽहंप्रत्ययग्राह्या-स्तस्मात्तथा; इत्यात्मत्त्वमेव खाऽऽदिभ्यो विशेषमात्मनां साधयति, पृथिवीत्वादिवत्, पृथिव्यादीनां पृथिवीत्वादियोगाद्धि पृथिव्यादयः तद्वदात्मत्त्वयोगादात्मान इति / तदयुक्तम्, आत्मत्वादिजातीनामपि जातिमदनात्मकत्त्वे तत् समवायनियमासिद्धेः / प्रत्ययविशेषात्तत्सिद्धिरिति चेत् स एव विचारयितुमारब्धः परस्परमत्यन्तभेदाविशेषेऽपि जातितद्वताम्, आत्मत्वजातिरात्मनि प्रत्यविशेषमुपजनयति, न पृथिव्यादीषु पृथिवीत्यादिजातयश्च तत्रैव प्रत्ययमुत्पादयन्ति, नात्मनि; इति कोऽत्र नियमहेतु:? समवाय इतिचेत्, सोऽयमन्योन्यसंश्रय:- सतिप्रत्ययविशेषे जातिविशेषस्य जातिमति समवायाः, सति च समवाये प्रत्ययविशेष इति। प्रत्यासत्तिविशेषादन्यत एव तत्प्रत्ययविशेष इति चेत् / स कोऽन्योऽन्यत्र कथंचित्तदात्म्य-परिणामाद् ? इति स एव प्रत्ययविशेषहेतुरेषितव्यः तदभावे तद्घटनाज्जातिविशेषस्य कृचिदेव समवायाऽसिद्धरात्मादि-विभागानुपपत्तेरात्मन्येव ज्ञानं समयेतमिहेदमिति प्रत्ययं कुरुते न पुनराकाशादिषुः इति प्रतिपत्तुमेशक्तेर्न चैतन्ययोगादा-त्मनश्चेतनत्वं सिध्येत्; अथ किमपरेण? प्रतीयते तावचेतनासमवायादात्मा चेतन इति चेत् / तदयुक्तम् / यत: प्रतीतिश्चेत्प्रमाणीक्रियते, तर्हि निष्प्रतिद्वन्द्वमुपयोगात्मक एवाऽऽत्मा प्रसिध्यति। न हि जातुचित्स्वयवमचेतनोऽहं चेतनायोगाचेतनः, अचेतने वा मयि चेतनाया: समवाय इति प्रतीतिरस्ति; ज्ञाताऽहमिति समानाधिकरणतया प्रतीतेः / भेदे तथा प्रतीतिरिति चेत् / न कथंचित्तादात्म्याभावे तददर्शनात् / यष्टिः पुरुष इत्यादिप्रतीतिस्तु भेदे सत्युपचाराद् दृष्टान पुनस्तात्विकी तथा चात्मनि ज्ञाताऽहमिति प्रतीति: कथंचिचेतनाऽऽत्मतां गमयति तामन्तरेणानुपपद्यमानत्वात् कलशादिवत; न हि कलशादिरचेतनात्मको ज्ञाताऽहमिति प्रत्येति। चैतन्ययोगाभावादसौ न तथा प्रत्येतीति चेत् / न, अचेतनस्यापि चैतन्ययोगाचेतनोऽहमितिप्रतिपत्तेरनन्तरमेव निरस्तत्वाद्, इत्यचेतनत्व सिद्धमात्मनो जडस्यार्थपरिच्छेदं पराकरोति तं पुनरिच्छता चैतन्यस्वरूपताऽस्य स्वीकरणीया। ननुज्ञानवानहमिति प्रत्ययादात्मज्ञानयोर्भेदः, अन्यथा धनवानिति प्रत्ययादपि धनतद्वतोभेदाभावानुषङ्गादिति कश्चित् / तदप्यसत्। यतो ज्ञानवानहमिति नाऽऽत्मा प्रत्येति जडत्वैकान्तरूपत्वाद्, घटवत् / सर्वथा जडश्च स्यादात्मा, ज्ञानवानहमिति प्रत्ययश्चाऽस्य स्यात्, विरोधाभावाद्, इति मा निर्णैषीः; तस्य तथोत्पत्त्यसंभवात्; ज्ञानवानहमिति हि प्रत्ययो नागृहीते ज्ञानाख्ये विशेषणे विशेष्ये चात्मनि जातूत्पद्यते, स्वमतविरोधात् / "नागृहीताविशेषणा विशेष्ये बुद्धिः" इति वचनात् / गृहीतयोस्त. योरुत्पद्यते इति चेत् कुतस्तद्गृहीति: ? न तावत्सवत: स्वसंवेदनानभ्युपगमात्स्वसंविदिते ह्यात्मनि ज्ञानेचस्वत: सायुज्यते, | नान्यथा; सन्तानान्तरवत्। परतश्चेत्, तदपि ज्ञानान्तरं विशेष्यं नागृहीते ज्ञानत्वविशेषणे गृहीतुं शक्यमिति / ज्ञानान्तरात्, तद्ग्रहणेन भाव्यमित्यनवस्था-नात्कुत: प्रकृतप्रत्यय:? तदेवं नाऽऽत्मनो जडस्वरूपता संगच्छते नाऽपि कुटस्थनित्यता। यतो यथाविध: पूर्वदशायामात्मा तथाविध एव चेत् ज्ञानोत्पत्तिसमयेऽपि भवेत्तदा प्रागिव कथमेष पदार्थपरिच्छेदक: स्यात? प्रतिनियत- स्वरूपाप्रच्युतिरूपस्वात्कौटस्थ्यस्य; पदार्थपरिच्छेदे तु प्राग प्रमातुः प्रमातृरूप-तया परिणामात्कुत: कौटस्थ्यमिति कर्ता साक्षाद्भोक्तेति विशेषणयुगलकेन कापिलमतं तिरस्क्रियते, तथा हि-कापिल: कर्तृत्वं प्रकृते: प्रतिजानीते; न पुरुषस्य।"अकर्ता निर्गुणो भोक्ता'' इति वचनात्। तदयुक्तम् / यतो यद्ययमकर्ता स्यात्, तदानीमनुभवितापि न भवेत् / द्रष्टः कर्तृत्वे मुक्तस्याऽपि कर्तृत्वप्रसक्तिरिति चेत् / मुक्त: किमकर्तेष्टः? विषयसुखादेरकर्तवति चेत्, कुतः स तथा? तत्कारण-कर्मकर्तृत्वाभावादिति चेत्, तर्हि संसारी विषयसुखादिकारणकर्मविशेषस्य कर्तृत्वात् विषयसुखादे: कर्ता, स एव चानुभविता किं न भवेत? / संसार्यवस्थायामात्मा विषयसुखाऽऽदितत्कारण कर्मणां न कर्ता चेतनत्त्वात्, मुक्ताऽवस्थावत्; इत्येतदपिनसुन्दरम्।स्वेष्टविघातकारित्वात्संसार्यवस्थायामात्मा न सुखादेर्भोक्ता, चेतनत्वात्, मुक्तावस्थावद्; इति स्वेष्टस्यात्मनो भोक्तृत्वस्य विघातात्। प्रतीतिविरुद्धमिष्टविधातसाधनमिदमितिचेत् / कर्तृत्वा-भावसाधनमपि किं न तथा ? पुंसः श्रोता घ्राताऽहमिति स्वकर्तृत्वप्रतीतेः / अथ श्रोताऽहमित्यादिप्रतीतिरहंकाराऽऽस्पदम्, अहंकारस्य च प्रधानमेव कर्तृतया प्रतीयत इति चेत्, तत एवाऽनुभवितृप्रधानमस्तु / न हि तस्याऽहंकारा-ऽऽस्पदत्वं न प्रतिभाति, शब्दादेरनुभविताहमिति प्रतीते: सकलजन साक्षिकत्वात्। भ्रान्तमनुवितुरहङ्काराऽऽस्पदत्वमिति चेत्, कर्तुः कथन्न भ्रान्तम्? तस्याऽहंकाराऽऽस्पदत्वादिति चेत्, तत एवानुभवितुस्तदभ्रान्तमस्तु, तस्योपाधिकत्वादहंकारा-ऽऽस्पदत्वं भ्रान्तमवति चेत्, कुतस्तदौपाधिकत्वसिद्धिः? अथ पुरुषस्वभावत्वाऽभावादहंकारस्यतदास्पदत्वं पुरुषस्वभावस्यानुभवितृत्व- स्यौपाधिकमिति चेत् / स्यादेवं, यदि पुरुषस्वभावोऽहंकारो न स्यात् / मुक्तस्याऽहंकाराऽभावात् अपुरुषस्वभावा एवाऽहंकारः; स्वभावो हि न जातुचित्तद्वन्तं त्यजति, तस्य नि:स्वभावत्व-प्रसङ्गादिति चेत्।नस्वभावस्य द्विविधत्वातसामान्यविशेषपर्यायभेदात्, तत्र सामान्यपर्याय: शाश्वतिकस्वभावः / कादाचित्को विशेषपर्याय इतिनकादाचित्कत्वात्पुंस्यहङ्कारादेव तत्स्वभावता, ततो न तदास्प-दत्वमनुभवितृत्वस्यौपाधिकं, येनाऽभ्रान्तं न भवेत् / तत: सिद्धमात्मानुभवितेव कर्ताः अकर्तुर्भोक्तृत्वानुपपत्तेश्च ।ननु भोक्तृत्वमप्युपचरितमेवास्य, प्रकृतिविकारभूतायां हि दर्पणाकारायां बुद्धौ संक्रान्तानां सुखदु:खादीनां पुरुष: स्वात्मनि प्रतिबिम्बोदयमात्रेण भोक्ता व्यपदिश्यते। तदशस्यं तस्य तथापरिणाममन्तरेण प्रतिबिम्बोदयस्याऽघटनात् स्फटिकादावपि परिणामेनैव प्रतिबिम्बोदयसमर्थनात्, तथापरिणामभ्युपगमे च कुतः कर्तृत्वमस्य न स्यात्? इति सिद्ध
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy