SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आणुपुव्वी 153 अमिधानराजेन्द्रः भाग२ आणुपुवी संख्येयभाग एव वृत्तिर्न संख्येयभागादिषु यतोऽनानुपूर्वीतावत्परमाणुरुच्यते, स चैकाकाशप्रदेशाऽवगाढ़ एव भवति अवक्तव्यकं तु व्यणुकस्कन्धः, सचैकाकाशप्रदेशावगाढोद्वि-प्रदेशावगाढो वा स्यादिति यथोक्तभागवृत्तितैवेति, नाना द्रव्य-भावना पूर्ववदिति। उक्त क्षेत्रद्वारम्। साम्प्रतं स्पर्शनाद्वारमुच्यतेनेगमववहाराणं आणुपुट्विदव्वाइं लोगस्स किं संखेज्जइ-भागं फुसं ति असंखेज्जइभागं फुसंति संखेज्जे भागे | फुसति असंखेज्जे भागे फुसंति सव्वलोअं फुसंति? एगंदव्वं पडुच लोगस्स संखेज्जइभागं वा फुसंति जाव सवलोगं वा फुसंति णाणादव्वाइं पडुच निअमा सव्वलोगं फुसंति / णेगमववहाराणं अणाणुपुट्विदय्वाई लोअस्स किं संखेज्जइभागं फुसंति जाव सव्वलोगं फुसंति / एगं दवं पडुच नो संखिज्जइजभागं फुसंति असंखिज्जइमागं फुसंति नो संखिज्जे भागे फुसंति नो असंखेज्जे भागे फुसंति नो सव्वलोअं फुसंति, नाणादव्वाइं पडुच निअमा सवलोअं फुसंति, एवं अवत्तय्वगदब्वाइंभाणिअव्वाई। (सूत्र-८४) भावना तु क्षेत्रद्वारवदेव कर्तव्या नवरं क्षेत्रस्पर्शनयोरयंविशेष: क्षेत्रम् अवगाह्याक्रान्तप्रदेशमात्रं, स्पर्शना तु षड्दिक्कैः प्रदेशस्तरहिरपि भवंति, तथा च-परमाणुद्रव्यमाश्रित्य ताव-दवगाहनास्पर्शनयोरन्यत्रोक्तो भेदः। 'एगपएसो गाढं सत्त पएसा य से फुसणंत्ति-अस्यार्थ:परमाणुद्रव्यमगाद तावदेस्मिन्नेवा-काशप्रदेशे, स्पर्शनातु (से) तस्य सप्त प्रदेशा भवन्ति, षड्दिग्व्यवस्थितान् षट्प्रदेशान यत्र चावगाहस्तं च स्पृशतीत्यर्थ:, एवमन्यत्रापि क्षेत्रस्पर्शनयोर्भेदो भावनीयः / अत्र: सौगताः प्रेरयन्ति-यदि परमाणो: षदिगस्पर्शना अभ्युपगम्यते तदैकत्वमस्य हीयते, तथा हि प्रष्टव्यमत्र, किं येनैव स्वरूपेणासौ पूर्वाद्यन्यतरदिशा सम्बद्धस्तेनैवान्यदिग्भिः, उत स्वरूपान्तरेण ? यदि तेनैव तदाऽयं पूर्वदिसंबन्धोऽयं चापरदिक्संबन्ध इत्यादि विभागो न स्यात् एकस्वरूपत्वात्, विभागाभावे च षड्दिसंबन्धवचनमुपप्लवत् एव, अथाऽपरो विकल्प: कल्प्यते तर्हि तस्य षट्स्वरूपाऽऽपत्त्या एकत्वं विशीर्यते, उक्तंच-'दिग्भागभेदो यस्याऽस्ति तस्यैकत्वं नयुज्यत' इति। अत्र प्रतिविधीयते-इह परमाणुद्रव्यमादिमध्याऽन्त्यादिविभागरहित निरंशमेकस्वरूपपमिष्यते अत: सांशवस्तुसंभवित्वात्परोक्तं विकल्पद्वयं निरास्पदमेव, अथानभ्युपगम्यमानाऽपि परमाणो: सांशता अनन्तरोक्तविकल्पबलेनापाद्यते, ननुभवन्तोऽपि तर्हि प्रष्टव्या:-क्वचिद्विसंज्ञानसंताने विक्षितः कश्चिद्विज्ञानलक्षण-क्षण: स्वजनकपूर्व-क्षणस्य कार्य स्वजन्योत्तरक्षणस्य कारणमित्यत्र सौगतानां तावदविप्रतिपत्ति: तत्रेहापि विचार्यते-किमसौ येन स्वरूपेण पूर्वक्षणस्य कार्यं तेनैवोत्तरक्षणस्य कारणम; उत स्वरूपान्तरेण ? यद्याद्य: पक्षस्तर्हि यथा पूर्वापेक्षयाऽसौ कार्य तथोत्तरापेक्षयापि स्यात् यथा वा उत्तराऽपेक्षया कारणं तथा पूर्वापेक्षयापि स्याद, एकस्वरूपत्वात्तस्येति, अथ द्वितीय: पक्षस्तर्हि तस्य सांशत्वप्रसङ्गोऽत्राऽपि दुर्वार: स्याद् अथ निरंश एदासौ ज्ञानलक्षणक्षणोऽकार्याकारणरूप: तत्तद्वस्तुव्यापृतत्वात्। तथा तथा व्यपदिश्यते, न पुनस्तस्यानेकस्वरूपत्वमस्ति, नन्वस्माकमपि नेदमुत्तरमतिदुर्लभं स्यात्, यतो द्रव्यतया निरंशवपरमाणुस्तथाविधाऽ-चिन्त्यपरिणामत्वाद् द्विकषट्केन सह नैरन्तर्येणावस्थितत्वात्तस्य स्पर्शकमुच्यते, न पुनस्तत्रांशैः काचित् स्पर्शना समस्तीति, अत्र बहुवक्तव्यं; तत्तु नोच्यते स्थानान्तरेषु चर्चितत्वादिति। अलं विस्तरेणा उक्त स्पर्शना-द्वारम्। इदानीं कालद्वारं विभणिषुराहणेगमववहाराणं आणुपुटिवदवाई कालओ के वचिरं होइ? एगं दवं पडुच जहण्णेणं एगं समयं उक्कोसेणं असंखेज्जं कालं, णाणादव्वाइं पडुब णिअमा सव्वऽद्वा अणाणुपुविदवाइं अवत्तटवगदट्वाइंच एवं चेव भाणिअप्वाइं। (सूत्र-८५) नैगमव्यवहारयोरानुपूर्वीद्रव्याणि कालत:- कालमाश्रित्य कियचिरंकियन्तं कालं भवन्ति आनुपूर्वीत्वपर्यायेणाव-तिष्ठन्ते? अत्रोत्तरम-'एगं दव्वमि' त्यादि, इयमत्र भावना- परमाणुद्वयादेरपरैकादिपरमाणुमीलने अपूर्व किं-चिदानुपूर्वीद्रव्यं समुत्पन्नम्, तत: समयादूचं पुनरप्येकाद्यणौ वियुक्तऽपगत- स्तद्भाव इत्येकमानुपूर्वीद्रव्यमधिकृत्य-जघन्यत: समय:अव- स्थितिकाल:, यदा तु तदेवासंख्यातं कालं सद्भावेन स्थित्वाऽनन्तरोक्तस्वरूपेण वियुज्यते तदा उत्कृष्टतोऽसंख्येयोऽवस्थितिकाल: प्राप्यते, अनन्तं कालं पुनर्नावतिष्ठते उत्कृष्टाया अपि पुद्गलसंयोगस्थितेरसंख्येयकालत्वत्वादिति। नानाद्रव्याणि बहूनि पुनरानुपूर्वीद्रव्याण्यधिकृत्य सर्वाऽद्धास्थितिर्भवति, नाऽस्तिस: कश्चित्कालो यत्रानुपूर्वीद्रव्यविरहितोऽयं लोक: स्यादिति भावः / अनानुपूर्व्यवक्तव्यकद्रव्येष्वपि जघन्यादिभेद-भिन्न एतावानेवावस्थितिकाल:, तथाहि-कश्चित्परमागुरेकं समयमेकाकीभूत्वा तत: परमाण्वादिना अन्येन सह संयुज्यत इत्थमेकमनानुपूर्वीद्रव्यमधिकृत्य जधन्यत: समय:- अवस्थितिकाल:, यदा तु स एवावसंख्यातं कालं तद्भावेन स्थित्वा अन्येन परमाण्वादिना सह संयुज्यते तत उत्कृष्टतोऽसंख्येयोऽव-स्थितिकाल: संप्राप्यते, नानाद्रव्यपक्षस्तु पूर्ववदेव भावनीय: / अवक्तव्यकद्रव्यमपि परमाणुद्वयलक्षणं यदा समयमेकं संयुक्तं स्थित्वा ततो वियुज्यते तदवस्थमेव वाऽन्येन परमाण्वादिना संयुज्यते तदा तस्याऽवक्तव्यकद्रव्यतया जघन्यत: समयोऽ-वस्थानं लभ्यते, यदा तूतदेवाऽसंख्यातं कालं तद्भावेन स्थित्वा विघटते तदवस्थमेव वाऽ(चा)न्येन परमाण्यादिना संयुज्यते तदोत्कृष्टत: अवक्तव्यकद्रव्यतया असंख्यातं कालमवस्थानं प्राप्यते, नानाद्रव्यपक्षस्तु तथैव भावनीय इति। उक्तं कालद्वारम / अथाऽन्तरद्वारं प्रतिपिपादयिषुराहणे गमववहाराणं आणु पुटिवदवाणं अंतरं कालओं के वचिरं होइ? एगं दवं पडुच जहण्णे णं एगं समयं
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy