SearchBrowseAboutContactDonate
Page Preview
Page 1213
Loading...
Download File
Download File
Page Text
________________ उस्सारकप्प 1205 - अभिधानराजेन्द्रः - भाग 2 उस्सारकप्प योगकारकः पूर्ववत् / दुर्मेधा अपि यः सलब्धिकः परिपक्ववयाः परिणामको विनीतः अभ्युत्थानादिविनययोगतः आचार्यवर्णवादी गुरूणां गुणोत्कीर्तनकारी अनुकूलः आचार्याणामन्येषां वा पूज्यानां वैयावृत्त्यादिना हितकारी धर्मे तपःसंयमात्मके चारित्रधर्मे श्राद्धिकः श्रद्धावान् एतादृश एवंविधगुणोपेतो महाभागः शिष्यः उत्सारं कर्तु-मर्हति उत्सारकल्पस्य योग्यो भवतीत्यर्थः। अनीदृशानुत्सारयितुः प्रायश्चित्तमाह। अणभिगयमाझ्याणं, उस्सास्तिस्स चगुरू होति। उग्गहणम्मि वि गुरुगा, कालमसज्झाय वक्खेवे॥ आदेशद्वयेनापि ये गुणा उक्तास्तद्विपरीता ये अनभिगतादयस्तद्यथा अनभिगतः अप्रतिबद्धः असंविग्नः अलब्धिकः अनयस्थितः अमर्यादोऽमेधावी अप्रतिबोद्धा अयोगकारकः अपरिणतः अविनीतः आचार्यावर्णवादी अननुकूलः अधर्मश्रद्धालुः एतेषामुत्सारयतः उत्सारकल्पं कुर्वतः आचार्यस्य प्रत्येकं चतुर्गुरवः प्रायश्चित्तम् / (उग्गहणम्मि वि गुरुगात्ति) सूत्रमर्थ वा झगित्येवावगृह्णातीत्यवग्रहणः नन्द्यादिभ्योऽ नट् इति कर्तर्यनट्प्रत्ययः ग्रहणमेधावीत्यर्थः। तस्य यदि निष्कारणमुत्सारयति तदापि चत्वारो गुरुकाः / अथ किमर्थं मेधाविनो नोत्सायन्ते उच्यते यतोऽसौ प्रज्ञावत्त्वादेवानुपूर्व्यवपाठ्यमानो झगित्येव विवक्षितमुत्सारणीयं श्रुतं प्राप्स्यति ततः को नाम तस्योत्सारकल्पकरणेऽभ्यधिको गुणः। अथवा (उग्गहणम्मि वित्ति) यस्याचारान्तर्गतवस्त्रैषणाध्ययनस्योपक्रमणनिमित्तमुत्सार्यते तस्य यद्यप्युत्सारकल्पसमकालमेव सर्वमपि सूत्रमर्थ वा अवग्टहाति अपिशब्दान्मन्दमेधस्तया यद्यपि नावगृह्णाति तथाप्यवग्रहणे अनवग्रहणे वाऽकालोऽस्वाध्यायिक व्याक्षेपश्चन कर्तव्यःयदिकरोति तदा चत्वारोगुरुकाः। एतचाकालादिकमुपरिष्टाद्भावयिष्यते / अथवा (उग्गहणम्मि वि गुरुगत्ति) अन्यथा व्याख्यायते योऽवग्रहणे समर्थ उत्तममेधावी अपिशब्दः संभावनायां किं संभावयति यावन्मानं सूत्रं तस्योद्दिश्यते तावदशेषमप्यर्थेन युक्तमवगृह्णाति यो वा वैरस्वामिवत्पदानुसारिप्रतिभो भूयस्तरमप्यनु-सरति तस्योत्सारणीयम् / अथ नोत्सारयति तदा चतुर्गुरुकाः तत्रापि यावदुत्सारकल्पः क्रियते तावदकालोऽस्वाध्यायिकं व्याक्षेपश्च न कर्तव्यः यदि करोति तदापि चतुर्गुरुकाः। अथोत्सारकल्पकरणे यत् प्राक् कारणं संन्यासिकीकृतं तद्दर्श-यति॥ गच्छो अ अलद्धीओ, ओमाणं चेव अणहिसहाय। गिहिणो उमंदधम्मा, सुद्धं च गवेसए उवहिं / / कस्याप्याचार्यस्य गच्छः सर्वोऽपि वस्त्रपात्रशय्योत्पादने अलब्धिकः तत्रच क्षेत्रे स्वपक्षतः परपक्षतोवा अवमानं विद्यतेतेचसाधवोऽनधिसहाः शीतादिपरीषहान सोढुमसमर्थाः गृहस्थाश्च मन्दधर्माणः तुच्छधर्मश्रद्धकाः अप्रज्ञापिताः सन्तो न वस्त्रादि प्रयच्छन्ति सुद्धं चोपधिं साधवो गवेषयेयुरितिभगवतामुपदेशः सचदुर्लभत्वात्यादृशेनसाधुनानलभ्यते अत ईदृशे कार्ये लब्धिवान् दुर्मेधा अप्युत्सारकल्पं कृत्वा वस्वैषणाध्ययनमुद्दिश्य कल्पिकः क्रियते ततश्च कल्पिकीकृतः सन् किं करोति इत्याह। हिंडउगीयसहाओ,सलद्धिआउवहणंति से लद्धिं / तो एकओ विहिंडइ, आयरुस्सरियसुत्तत्थो॥ ___ गीतसहायो गीतार्थसाधुसहितो वस्वाधुत्पादनार्थं हिण्डताम् / अथ गीतार्थास्तस्य लब्धिभुषघ्नन्ति तत एककोऽप्यसहायोऽप्याचारोत्सारितसूत्रार्थः आचारान्तर्गतवस्वैषणादिसूत्रार्थमुत्सारकल्पकरणेन ग्राहितः सन् हिण्डते / ननु च किं कोऽपि कस्यापि लाभान्तरायकर्मक्षयोपशमसमुत्थां लब्धिमुपहन्ति येनैवमुच्यते ते गीतार्थास्तस्योपलब्धुिपघ्नन्ति इत्यत आह // भिक्खू विहतणुवबल-अभागधेजो जहिं तहिं न पड़े। दुग्गतिगमाइभेदे, पडइ तहिं तत्थ सो नत्थि / / "कोइ किर परं वसईओसत्थो अडविं पवन्नो / तत्थय एगो रत्त-पटो निब्भग्गसिरसेहरो पंचण्ह वि सयाणं पुण्णे उवहणइ सो असत्थो तहाए पारद्धो दूरे अ अब्भवद्दलयं वासइ तेसिं उवरि न पडइ ते दुहा तिण्णा इयरोरत्तपडो पुविण्णेणं मज्झे मेलिओ सव्वत्थपडइजत्थसातत्थन पडइ जाव निव्वेडिओ एकओजाओ जत्थ सो तत्थ पडइ एवं एयारिसा परस्स पुत्ते उवहणंति “अथ गाथाक्षरार्थः भिक्षुरेकः सार्थेन सार्द्ध विहमध्वानं प्रविष्ट इति शेषः / ततस्तृष्णया सार्थः प्रारब्धः वार्दलं च वर्षितुमारब्धं यत्र येषां मध्ये सोऽभागधेयो यो भिक्षुस्तत्र वर्ष न पतति ततो द्विकत्रिकादिना द्विधा त्रिधादिना प्रकारेण सार्थस्य भेदः कृतस्तस्मिंश्च कृते यत्र स भिक्षुनास्ति तत्र सर्वत्र वर्ष पतति तस्योपरिन पततीत्येयं दृष्टान्तः। अथार्थोपनयः यथा स भिक्षुः पञ्चविंशतिकस्यापि सार्थस्य पुण्यान्युपहृतवानेवमन्येऽप्येवंविधाः परेषां लब्धिमतामपि स्वस्वकर्मक्षयोपशमसमुत्थां लब्धिमुपघ्नन्तीति। अथासौ कथं च वस्त्राण्युत्पादयतीत्युच्यते।। भिक्खं वा वि अडतो, विइआ पढमा य अहव सव्वासु / सहिओ व असहिओवा, उप्पापवायभावे वा / / भिक्षामटन् वस्त्राण्युत्पादयति वाशब्दो वक्ष्यमाणपक्षापेक्षायां विभाषायामपिशब्दः संभावनायां संभाव्यते। अयमपि प्रकार इति। अथ न शक्नोति युगपत् भिक्षामप्यटितुं वस्त्राण्युत्पादयितुं व्यतिक्रामति वा वेला भैक्षस्य वस्त्राण्युत्पादयतः / भिक्षां वाऽद्भिर्न प्राप्यन्ते वस्त्राणीत्यादिना कारणेन द्वितीयायां पौरुष्यामनुयोग-ग्रहणं हापयित्वा वस्त्राण्युत्पादयेत् / अथ तदा न लभते बह्नी वा हिण्डिः कर्तच्या ततः प्रथमायामप्युत्पादयेत्। अथ बहवो गृहस्था द्रष्टव्या महता च कष्टन ते श्रद्धांग्राह्यन्तेततः द्वयोरपिपौरुष्योः सर्वासुवा पौरुषीषुपर्यटति। यद्यपरे गीतार्थास्तस्य लब्धिं नोपघ्नन्ति तदा स तैः सहितोऽप्युत्पादयेद्वा वस्त्राणि प्रभावयेद्वा दानधर्म गृहिणांपुरतो यथा ईदृशः साधूनां धर्मो न कल्पतेऽमीषां भगवतामुद्गमोत्पादनैषणादोषदुष्ट पिण्डशय्यावस्वपात्रचतुष्टयं गृहीतं तदमीषां वस्त्रादाक्नुपयोज्यमानो महती कर्मनिरत्यादि। अथ ते गीतार्थास्तस्य लब्धिमुपहन्युस्ततस्तैरसहितोऽप्येकाकी उत्पादयितुं वा प्रभावयितुं वा प्रभुर्न कश्चिद्दोषः / इत्थं तावद्वस्त्रादीनां कल्पिको भवत्विति कृत्वा यथा आचारः उस्सार्यते तथा प्रतिपादितम् / अथ दृष्टिवादी येन कारणेनोत्सार्यते तत्प्रतिपादयति। कालियसुआणु ओगम्मि, गंडियाणं समोयरणहेउं / उस्सारिंति सुविहिया, भूयवायं न अन्नेणं // . इह यो धर्मकथालब्धिसंपन्नः परमद्यापि स्वल्पपर्यायत्वात् दृष्टिवादं पठितुमप्राप्तस्तस्य कालिकश्रुतानुयोगेन धर्मकथां कुर्वाणस्य गण्डिकाः कुलकरतीर्थक रगण्डिकादयो दृष्टि वादान्तर्गता
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy