SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम 89 अभिधानराजेन्द्रः भाग 2 आगम मोक्षमार्गे चाऽऽगमस्यैव प्रामाण्यम्जम्हा न मोक्खमग्गे, मोत्तूणं आगम इह प्रमाणं / विज्जइछउमत्थाणं, तम्हा तत्थेव जइयव्वं / / 37 / / यस्मान्न नैव मोक्षमार्गे- मोक्षे साध्ये; मोक्षागमशास्त्रं परित्य-ज्येत्यर्थः 'इहे' ति-धर्मविचारे प्रमाणम्-आलम्बनमित्यर्थः, विद्यते छद्मस्थानाम, अतिशयवतां हि कथं चेत्सेवातिशय- वशात्प्रवर्त्तमानानामपि निर्जरालाभ एवावसीयते, तद्वहितैः पुनः सर्वथा शास्त्रमेव प्रमाणीकर्तव्यम् / तस्मात्तत्रैव यतितव्यम्- उद्यम: कार्य इति गाथार्थः। दर्श.५ तत्त्व। "धर्माऽधर्मव्यवस्थायां, शास्त्रमेव नियामकम्। तदुक्तासेवनाद्धर्म-स्त्वधर्मस्तद्विपर्ययात्॥शा" षो. टी. 1 विव। (आगमावलम्बनस्यैवैहिकामुष्मिकफलसिद्धिहेतुत्वम्) धर्मार्थिनाधर्ममार्गे प्रवर्त्तमानेन आगमावलम्बनेनैव प्रवर्तितव्यं तस्यैवैकस्यैहिकामुष्मिकफलसिद्धिहेतुतयोपादेयत्वात् अन्यस्य पुरुषमात्रस्यावलम्बने तदुच्छेद: स्यादित्येतद्दर्शयन्निदमाहकिं वा देइ वराओ, मणुओ सुछ वि धणी वि भत्तो वि। आणाअइक्कम पुण, तयं पि अणंतदुहहेऊ ||2|| किं वा न किंचिद्ददाति-प्रयच्छति वराक:- अत्यन्तशक्तिरहितो मनुजो-नर: सुष्ठपि-अतिशयेन धन्यपि- धान्यादिसंपदुपेतः भक्तोऽपिभक्तपानवस्त्रपात्रादिदानसमर्थ एवं स्यात; पुन: सुगते:, आज्ञातिक्रमणंभगवदाज्ञोल्लङ्घनं पुन: परापेक्षयापि तनुकमपिस्वल्पमपि आस्तां तावद् रहित्यपिशब्दार्थः, अनन्तदुखहेतुः; अनन्तसंसारनिबन्धनमित्यर्थः, अपेक्षया सर्वविदाज्ञाल्लङ्घनं क्रियतेस हि आहारादिदानमात्र एव समर्थ: न पुन: कुगति-रक्षाक्षम:, अत: किं तदपेक्षया भगवदाज्ञोल्लङ्घनेनान्त-संसारनिवर्त्तनेनेति गाथार्थः / दर्श 4 तत्त्वा (युक्त्युपपन्नस्यैव सदागमत्वम्) नाऽऽगममात्रमेऽर्थप्रति पत्ति हेतुर्भवतीति दर्शयन्नाहजुत्तीए अविरुद्धो, सदागमो साऽवि तयविरुद्ध त्ति। इय अण्णोण्णाऽणुगयं, उभयं पडिवत्तिहेउ ति ||4|| व्याख्या-युक्त्या-उपपत्त्याऽविरुद्धः-अबाधितः सदांगम:सत्सिद्धान्तो भवति। साऽपियुक्तिरपि, तदविरुद्धा-सिद्धान्ता- ऽविरुद्धा स्यात्तदन्या त्वयुक्तिरेव, इति: वाक्यार्थसमाप्तौ, इति- एवम् अन्योऽन्यानुगतं- परस्परानुयायि, उभयम्- युक्ति- सदागमरूपं द्वयं प्रतिपत्तिहेतु:- अर्थप्रतीतिकारणम, इतिशब्दः समाप्तौ, इति गाथार्थः / पञ्चा० 18 विव०। वचनाऽऽराधनया खलु, धर्मस्तदबाधया त्वधर्म इति। इदमत्र धर्मगुह्यं, सर्वस्वं चैतदेवाऽस्य ||1|| 'वचने त्यादिवचनाराधनया-आगमाराधनयैव खलुशब्द एवकारार्थः। धर्म:-श्रुतचारित्ररूप: संपद्यते / षो. 2 विव०। ('धम्मदेसणा' शब्दे चतुर्थभागेऽत्र 2722 पृष्ठे विशेष- व्याख्यानम्) (23) जिनाऽऽगामस्यैव सत्यत्वम्एकाऽप्यनाद्याखिलतत्त्वरूपा, जिनेशगीर्विस्तरमाप तर्कः। तत्राऽप्यसत्यं त्यज सत्यमनी, कुरु स्वयं स्वीयहिताऽभिलाषिन् !||1|| 'एकेति' एकापि जिनेशगी:- अर्हद्वाणी अर्हन्मुखान्निर्गच्छमाना अद्वितीया यथाभाषितं तथाश्रूयमाणा तथा अनाद्या-आदिरहिता एकेन तीर्थकृता यदुपदिष्टं तदनेकेषां पूर्वपूर्वतरतीर्थकृतामपि तथैव निरुप्यमाणत्वात् आदरहिता। पुनः कीदृशी- अखिलतत्त्वरूपासमस्ततत्त्वमपि वितर्क- विचारैर्विस्तरं- बहुभेदतां प्राप्य बहुप्रकारैर्बहुधा विस्तृता, यतो दिग्वाससां मतमपि जिनमतं धृत्वा एतादृशनयानाम् अनेकाकारतां प्रवर्त्तयति, अतस्तन्मतेऽपि यद्विमृश्यमानं सत्यं जायते तदेवाऽङ्गीकुरु, यचाऽसत्यं तत्सर्वमपि त्यज, स्वयम्- आत्मना हेस्वीयहिताभिलाषिन् !-निजहितकाक्षिन्! शब्दान्तरत्वेन तन्मतमपि न द्वेषविषयीकर्तव्यं सर्वमपि अर्थकत्वविवक्षया असमंजसमेवेति। द्रव्या. 1 अध्या। सेवं भंते सेवं भंते ! "तमेव सचं णिस्संकं, जंजिणेहि पवेइयं"। हंता जंबू !- "तमेव सच्चं निस्संकं, जं जिणेहिं पवेइयं"। कहं आगासमंडलाओ निवडिआ इव भासह / अम्मापिऊणं संजोए संताणे भवति। किं अन्नहावि भवति पवेइयं हंता जंबू!"तमेव सचं निरसंकं जंजिणेहिं पवेइयं"। अंग। से णूणं भंते !-"तमेव सचंनीसंकं,जं जिणेहिं पवेइयं / " हंता गोयमा !- तमेव सचं नीसंकं, एवं जाव पुरिसक्कारपरक्कमेइ वा। (सूत्र-३७)। भ. 1 श. 3 उ०ी (जिनागमस्य सिद्धत्वम्)"जिणवयण सिद्ध" 49 इत्यादिगाथया 'धम्म' शब्दे चतुर्थ- भागे 2684 पृष्ठे प्रतिपादयिष्यते। (परप्रवादानां मत्सरित्वम् जिनागमस्यामत्सरित्वम्) अधुना परदर्शनानां परस्परविरुद्धार्थसमर्थकतया मत्सरित्वं प्रकाशयन् सर्वज्ञोपज्ञसिद्धान्तस्यान्यान्यानुगतसर्वनयमयतया मात्सर्याभावमाविर्भावयतिअन्योऽन्यपक्षप्रतिपक्षभावात्, यथा परे मत्सरिण: प्रवादा:। नयाऽनशेषानविशेषमिच्छन्, न पक्षपाती समयस्तथा ते ||30|| स्या. 30 श्लोक०। (श्लोकार्थः ‘णय' शब्दे चतुर्थभागे 1896 पृष्ठे दर्शयिष्यते) (24) (जिनागमप्रशंसा) जिनागमो हि कुशास्त्रजनितसंस्कार विषसमुच्छेदनमन्त्रायमाणो धर्माऽधर्मकृत्याऽकृत्यभक्ष्याऽभक्ष्यपेयाऽपयगम्याऽगम्यसाराऽसारादिविवेचनाहेतु: सन्तमसे दीप इव, समुद्र द्वीपमिव, मेरौ कल्पतरुरिव, संसारे दुरापः, जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते यदूचुः स्तुतिषु श्रीहेमसूरय:
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy