SearchBrowseAboutContactDonate
Page Preview
Page 1113
Loading...
Download File
Download File
Page Text
________________ उवहि 1105 - अमिधानराजेन्द्रः- भाग 2 . उवहि उपसंतो सेणावइ, उवगरणं देइ वा दवावेइ। गीयत्थे हि य गहणं,तं वीसु व सीकरणं // उपशान्तः सन् सेनापतिः स्वयमेवोपकरणं ददातिस्वमानुषैर्वा दापयति ते सर्वे गीतार्थास्तत उपकरणं मिश्रयन्ति वा न वा / अथा-गीतार्थमिश्रास्ततो गीतार्थस्तस्योपकरणस्य ग्रहणं कर्तव्यम्। यच्च संयतासंयतानामुपकरणं तद्विष्वक् विधेयम्। अथ सेनापतिर्ब्रयात्। सत्थे बहू विवित्तो, गिण्हह जं जत्थ पेच्छह अड़ता। इहई पडिपल्लीसु य,रुसेह विइओ जओ हं सो।। सार्थोऽस्मन्मानुषैर्बहु प्रभूतो विविक्तः अतो न ज्ञायते कस्य कुत्र वस्त्रादिकमस्तीति ततो गृहीत यूयं स्वकीयमुपकरणं यद्यत्र पर्यटन्तः पश्यथ ततः साधुभिर्वक्तव्यं यद्येवंततः स्वमानुषमस्माभिः सह वर्जयत ततस्तदीयमानुषेण सह गच्छन्ति / स च ब्रूते इहास्यामेव पल्ल्यां प्रतिपल्लीषु वा यद्यद्भवतामुपकरणं तत्तद् (रुसेहत्ति) देशीयवचनत्वात् गवेषत अहं भवतां द्वितीयोऽस्मीति ततो यद्यत्र पश्यन्ति तत्तन्मानुषादिभिः प्रज्ञाप्य गृह्णन्ति। अह ताव न जातो जह, एएसि पि पावइन हत्थं / तह कुणिमो मोसमेणं, छुभंति पावा अह इमेसु / / अस्माकंतावदयं मोषो मुषितवस्त्रादिलक्षणोन जातः अतो यथैतेषामपि हस्तं न प्राप्नोति तथा वयमेनं मोष कुर्महे इति विचिन्त्य केचित्पापाः स्तेनकास्तथेति चिन्ताऽनन्तरमेतेषु प्रक्षिपन्ति। तद्यथा। पुढवीआउक्काए, अवडवणस्सइतसेसुसाहरइ। सुत्तत्थजाणएणं, अप्पाबहुयं तु नायव्वं // पृथिवीकार्य वा अप्काये वा अगडे वा गायामित्यर्थः / वनस्पतिषु वा त्रसेषु वा संहरन्ति निक्षिपन्तीति यावत् / गाथायामेक वचननिर्देशः प्राकृतत्वात् एतेषु निक्षिप्तममीषां ग्रहीतुं न कल्पते इति बुद्ध्या / अत्र च सूत्रार्थः येन गीतार्थेन पृथिव्यादिनिक्षिप्ते तत्रोपकरणे स्वल्पतरमेवाधिकरणमगृह्यमाणेषु बहुतरमसंयतपरिभोगाप्कायप्रक्षालनादिक्रमेणाल्पबहुत्वं ज्ञातव्यं ज्ञात्वा च ग्रहीतव्यं तद्वस्त्रम्। अथ न गृह्णाति ततश्चतुर्लघुका अनवस्था चैवं भवति / भूयोऽपि हृत्वा ते वा अन्ये वा एवमेव पृथिव्यादिषु निक्षिपन्तीति भावः। अथ 'साविय परिभुता वा" इत्यादिसूत्रावयवं विवृणोति! हरियाहरिया सुविहिय, पंचवन्ना वि कप्पई घेत्तुं। परिभुत्तमपरिभुत्ता, अप्पाबहुगं वियाणित्ता॥ हे सुविहित! हताहृतिका यद्यपि स्तेनकैः पञ्चवर्णा कृता तथापि ग्रहीतुं कल्पते तथा परिभुक्ता अपरिभुक्ता वा उपलक्षणत्वाद्धौता घृष्टा मृष्टा संप्रमिता वा भवतु परं तथाऽप्यल्पबहुत्वं विज्ञाय स्वीकर्तव्यैव न परिहर्तव्या। आधत्ते विक्कीए, परिमुत्ते तस्स चेव गहणं तु। अन्नस्स गिण्हणंत-स्स चेव जयणाए हिंडंति॥ स्तेनकैस्तद्वस्त्रमाधत्तं ग्रहणके मुक्तं भवेत् विक्रीतं वापरिभुक्तं वा ततस्ते ब्रूयुः वयमन्यद्वस्वं प्रयच्छाम इति ततो वक्तव्यं तदेवास्माकं प्रयच्छत नान्येन प्रयोजनमिति भणित्वा तदेव ग्रहीतव्यं यदि न लभते ततोऽनवस्याप्रसङ्गनिवारणार्थमन्यस्यापि ग्रहणं कुर्वन्ति तत्र यदि संस्तरति ततः परिष्ठापयितव्यम् असंस्तरेतुपरिभोक्तव्यम्। तथा तस्यैव सेनापतेर्मानुषैः सह वस्त्रान्वेषणाय यतनया हिण्डन्ते पर्यटन्ति। इदमेव भावयति॥ अन्नं च देइ उवहि, सा वि य नातो तहेव अन्नातो। सुद्धस्स होइ गहणं, असुद्धि घेत्तुं परिहवणा। अथासौ सेनापतिरन्यमन्यसाधुसंबन्धिनमुपधिं ददाति ततः स उपधिांतो वा स्यात् संविग्नासंविग्नसंबन्धितया उपलक्षितः अज्ञातो वा तद्विपरीतः तत्र यः शुद्धो विधिपरिकर्मितो यथोक्तप्रमाणोपेतश्च स संविग्नसंबन्धी तंगृहीत्वा तेषामेव संविग्नानामर्पयन्तिा अथ ते देशान्तरं गतास्ततो यदि संस्तरन्ति ततः परिठापयन्ति। अथ न संस्तरन्ति ततः परिभुञ्जते ।यः पुनरशुद्ध एतद्विपरीतः सोऽसंविग्नानां संबन्धी तमप्यनवस्थाऽधिकरणपरिहरणार्थं गृहीत्वा पश्चात्परिष्ठापयन्ति। इदमेव व्याचष्टे। तं सिव्वणीहि नाउं, पमाणहीणाहियं विरंगं वा। इतरोवहिं पि गिण्हइ, मा अहिगरणं पसंगो वा / / तदुपकरणमविधिसीवनिकाभिः सीवितं प्रमाणतश्च हीनाधिकं विरङ्ग विचित्रवर्ण करक्तमेवंविधं दृष्ट्वा ज्ञातव्यं यथैष इतरेषामसंविग्नानामुपधिस्तमपि ज्ञात्वा गृह्णात्येव कुत इत्याह मा तस्मिन्नगृह्यमाणे अधिकरणे असंयतपरिभोगादिना प्रसङ्गो वा भूयोऽष्युपकरणहरणलक्षणो भवत्विति कृत्वा। अंतस्स व पल्लीए,जयणा गमणं तु गहण तह चेव / गामाणुगामियम्मि य, गहिए गरणे य तं भणियं / अथान्यस्य सेनापतेः पल्ल्या तस्योपकरणस्यार्द्ध नीतं भवेत् ततस्तत्रापि यतनया गमनं ग्रहणं तथैवानुशिष्टिधर्मकथादिना विधेयम्। एवमध्वनि विविक्तानां विधिरुक्तः। ग्रामानुग्रामिकेऽपि विहारे मासकल्पं विधिं कुर्वन्तो यदा विविक्ता भवन्ति तदागृहीते स्वहस्तचटिते (गहणेत्ति) गृह्यमाणे चोपकरणे उपधिपृथक्करणादिधर्मकथादिकं च यत्पूर्व भणितं तदेवात्रापि द्रष्टव्यम्। इदमेवध्याचिख्यासुराह। तत्थेव आणावेइ, तं तु पेसेइ वा जहिं भट्ठो। सत्थेण कप्पियारं, त देइजो णं तहिं नेइ। यधुपकरणमन्यस्यां पल्ल्यां नीतं तदा यदि मूलपल्लीपतिर्भद्रकस्तत उपकरणं तत्रैवात्मनो मूले तत्पल्लीवास्तव्यमानुषैरानाययति / अथवा तमात्मीयं मनुष्यं तत्र प्रेषयति यत्रासावन्यस्य सेनापतेः पल्ल्यामुपधिर्वर्तते / अथासौ न समर्थः स्वसमीपे आनाययितुं ततः सार्थेन सह तस्यां पल्ल्यां गन्तव्यम् / अथ सार्थो न प्राप्यते ततो मूलपतेर्मानुषो मार्गयितव्यः स च कल्पितारं मार्गदर्शयितारं स्वमनुष्य ददाति यस्तत्र पल्ल्यां साधूनां नयति॥ अणुसिट्ठाई तत्थ वि,काउ सपल्लि इतरीसुं वा। घेत्तुं सत्येण व यं, उवयंति अह भद्दए जयणा / / तत्रापि पल्ल्यामनुशिष्टिकर्मकथादिप्रायोग्यं कृत्वा गृहीत्वा च स्वकीयमुपकरणं जातं यदि ततः सार्थो न लभ्यते ततस्तेनैव मनुष्येण सह स्वपल्ल्यामागच्छन्ति मूलपल्ल्यामित्यर्थः / तत्र चागत्य सार्थेन सह जनमदमुपयान्ति / अथ तस्याः पल्ल्याः सकाशादितरासां जनपदप्रत्यन्तपल्लीनां सार्थो यदि लभ्यते ततो मुचोपकरणं नीतं भवेत् ततस्तदर्थं तत्र गत्वा तच गृहीत्वा ततः
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy