________________ उवहि 1064 - अभिधानराजेन्द्रः - भाग 2 उवहि रयहरणेणोल्लाणं, पमञ्जफरुससालपुढवीए। गामंतरितगलणे, पुढवी उदगं च दुविहं तु॥ (फरुससालत्ति) कुम्भकारशाला तस्यां वर्षासु स्थितानां द्वितीयरजोहरणाभावे यद्वर्षेणाीभूतं रजोहरणं तेनैव प्रमार्जने पृथिवीकायस्य विराधनाग्रामान्तरं भिक्षाचर्यादिकार्येण (इंतत्ति) गच्छत आगच्छतो अन्तरा आषाढतरं वर्षितुमारब्धे मलिनरजोहरणे परिगलति पृथिवीं द्विविधं च भूमान्तरिक्षभेदाद् द्विप्रकारमुदकं विराधयति / अहवा अंदीभूए, उदगं पुण उपतावणे अगणिं। उल्लंडगबंधतसा, ठाणाइसु केण व पमन्जे / / अथवा द्वितीयरजोहरणाभावे यदा रजोहरणं शोषयति ततोऽवग्रहात् स्फिटयति। अथन शोष्यतेततोऽम्लीभवति एवसम्लीभूतेतस्मिन् उदकं विराध्यते / पनकश्च संमूर्च्छति अथैतद्दोषपरिहारार्थमग्निं तापयति ततोऽग्निविराधना अथार्द्रण प्रमार्जयति ततो दशिकान्तेऽप्युल्लण्डका मुइंगोलकाः प्रतिबध्यन्ते तेषु प्रतिबद्धेषु यद्विप्रमार्जनं करोति तत आत्मविराधना / अथ न प्रमार्जयति ततः संयमविराधना / स्थाननिषदनादिषु वा केन प्रमार्जयतु।। एमेव सेसगम्मि, संजमदोसा उभिक्खणिजाए। चोलनिसजाउल-अजीरगेलनमायाए| एमेव वर्षाकल्पादावपि शेषोपकरणे भिक्षानिर्योगे च पटलकपात्रबन्धरूपे द्विगुणं अगृहीते संयमदोषाः षट्कायविराधना लक्षणे रजोहरणवद्द्वक्तव्याः / चोलपट्टे रजोहरणनिषद्यायां यावद्विगुणाया-- मगृह्यमाणायां बहिर्गतानां वर्षेणाीभावे संजाते नित्यपरिभोगेन भक्तं न जीर्यते / अजीर्यमाणे भक्ते ग्लानत्वं भवति / ततश्चात्मविराधना परितापमहादुःखादि। किंच। अद्धाण णिग्गतादी, परिता वा अहव णट्ठगहणम्मि। जंच समवसरणम्मि, अगहणे जंच परिभोगे / छिन्नादच्छिन्नाद्रा अध्वनो निर्गता आदिशब्दादशिवादिकारणानिर्गता वा ये परीताः परिमितोपकरणा अथवा (नत्ति) नष्टोपकरणा हारितोपधय इत्यर्थः (गहणम्मित्ति) प्रत्यनीकेन वा उपधेर्ग्रहणे कृते विविक्ता आगच्छेयुः एतेषामागतानामतिरिक्तोपकरणभावाद्युपग्रहणं न करोति तत उपधिनिष्पन्नं प्रायश्चित्तम् अथ तदर्थ नूतनमुपधिं गृह्णन्ति ततोऽप्युपधिनिप्पन्नम् अथ प्रथमे समवसरणे उपकरणग्रहणे दोषजालं तत्प्राप्नुवन्ति / अथ न गृह्णन्ति तत उपकरणं विना यत्तृणादिपरिभोगे दूषणकदम्बकं तदासादयन्तिा अमुमेवार्थव्याख्यानन्थेन स्पष्टयति। . अद्धाण णिग्गयादीण-मदाते होति उपधिणिप्पण्णं। जं ते अणेसणग्गिं, सेवेदं वत्थणो जं च / / अध्वनिर्गतादीनामतिरिक्ताभावे उपकरणं यदि न, प्रयच्छन्ति तत उपधिनिष्पन्न भवति प्रायश्चित्तमिति शेषः। तच्च जघन्ये पञ्चकं मध्यमे मासलधुकमुत्कृष्ट चतुर्लघवः। तेचअध्वादिनिर्गता अनेषणीयोपकरणमग्नि वा यदासेवन्ते तन्निप्पन्नमप्रयच्छतां प्रायश्चित्तम्। अथात्मीयमुपकरणं तेषां प्रयच्छन्ति तत आत्मपरिहाणिः / यचात्मना तृणादिसेवनं कुर्वन्ति तन्निष्पन्नम्। के पुनः प्रथमसमवसरणे वस्त्रग्रहणे दोषा इत्याह॥ अत्तट्टपरट्ठा वा, ओसरणं गेण्हमाण पण्णरस। दानं परिभोग छप्पति-चडउरं उल्लोयगेलन्ने / अथात्मनोवा परेषां वा अध्वनिर्गतादीनामर्थाय प्रथमसमवसरणे उपधिं गृह्णन्ति तत आधाकर्मादयः पञ्चदशोद्मदोषा भवन्ति आत्मोपधिमध्वनिर्गतादीनां दत्वा तमेवैकं प्रत्यवतारं नित्यं परिभुजानस्यषट्पदिका संमूर्च्छतितासुचान्नपात्रमध्ये पतितासुभक्षितासु (चडउरंति) जलोदरो भवति एकप्रत्यवतारेण वा द्रोणराशिप्रावृतेन शुद्धस्य जीर्यति अजीर्यति चग्लानत्वमुपजायत तम्हा उगेण्हियव्वं, वितियपदम्मि जहण गेण्हेज्ज / अद्धाणे गेलण्णे, अहवा वि भवेज असतीए। यत एवं तस्मात् कारणादात्मनो द्विगुणप्रत्यवतारादतिरिक्तं ग्रहीतव्यं द्वितीयपदं यथा नगृह्णीयुस्तथाऽभिधीयते अध्वनि वहमानानां ग्लानत्वे वा द्विविधायामसत्तायां वा वर्तमानाना मग्रहणं भवेदिदमेव व्याख्याति॥ कालेण चिंदिएणं,या वारिसा मंतरेण वाघाते। गेलण्णे वा न परे, दुविधा पुण होति असतीओ।। ग्रीष्मस्य चरमे मासि के चिदध्वनि प्रतिपन्नाश्चिन्तितवन्तश्च यावदाषाढपूर्णिमा नोपैति तावदेव तावत्कालेन वर्षाक्षत्रं प्राप्स्यामः / अन्तरा च नद्यादिव्याधातो भवेत् अत आषाढपूर्णिमाकाले अतिक्रान्त प्राप्ते ततो द्विगुणेऽतिरिक्तो वा उपधिर्न गृहीतः। अथवा आत्मनो ग्लानत्वेन परस्य वा ग्लानस्य व्यापृततया नातिरिक्तो गृहीतः। असत्ता पुनर्द्विविधा भवति सदसत्ता असदसत्ता च सदसत्तायामनेषणीयं लभ्यते / अथवा बहवः साधवो वस्वग्रहणस्याकल्पिका एव कल्पिकः। अतः सर्वेषां योग्यो अतिरिक्तः पथि गृहीतुं न पार्यते। असदसत्ता तु मार्गित-मपि न लभ्यते एतैः कारणैः पूर्वमतिरिक्तोपधौ अगृहीतेऽपि शुद्धाः। गहिए अगहिए वा, अप्पत्ताणं तु होति अतिगमणं। उवही संथारगपाद-पुंछणादीण गहणट्ठा / / एवं गृहीतेऽगृहीते वा वर्षावासप्रायोग्ये उपधौ कालमप्राप्तानामाषाढपूर्णिमाया अर्वाक् पञ्चभिर्दिवसैर्व क्षेत्रे अतिगमनं प्रवेशो भवति। किमर्थमित्याह उपधिर्वर्षाकल्पादिकः / संस्तारकः काष्ठमयः कम्बिकामयो वा पादप्रोञ्छनं रजोहरणम् आदिशब्दात् तृणडगलादिपरिग्रहः एतेषां ग्रहणार्थमप्राप्ते काले प्रवेष्टव्यम्। इदमेव व्यक्तीकरोति। कालेण अपत्ताण्णं, पत्ताणं खेतओ गहणं। वासाजोग्गोवधिणो,खेत्तम्मि उडगलमादीणि।। कालतो नियमादप्राप्तानां क्षेत्रतः प्राप्तानां वा वर्षावासयोग्यपटलकपात्रबन्धादेरुपधेर्ग्रहणं भवति एतेन चरमभङ्गो सूचितौ कालतः प्राप्तैरप्राप्तैर्वा क्षेत्रतो नियमात्प्राप्तैर्डगलादीनि ग्रहीतव्यानि अनेन तु . द्वितीयतृतीभङ्गो गृहीताविति / तान्येव डगलादीनि दर्शयति। डगलसरक्खकुडमुह, मत्तगतिगलेवपादलेहणिया। संथारपीठफलगा, णिजोगो चेव दुगुणो उ॥ इष्टका चीरादिमयानि डगलानि पुनः प्रोञ्छनार्थं गृह्यन्ते सरजस्कः क्षारससंज्ञा खेलादिविसर्जनार्थं कुटमुखं घट कण्ठस्तत्र ग्लानयोग्यमौषधं कायिकी मात्रकं वा स्थाप्यते / मात्रक त्रिक खेलमात्रकं कायिकीमात्रकं संज्ञामात्रकं चेति / लेपः प्रतीतः प्रविष्टभाजनसंस्थापनार्थम् / पादलेखनिका वर्षासु कर्दमनिर्लेपना