SearchBrowseAboutContactDonate
Page Preview
Page 1087
Loading...
Download File
Download File
Page Text
________________ उवहाण 1079 - अभिधानराजेन्द्रः - भाग 2 उवहाण ता यत्र च साऽभिहिताऽस्तीत्यत्र उपधानवहनं श्रुताराधननिमित्तं मालारोपणं तु तपस उद्यापनार्थं महानिशीथादिशास्त्रे उक्तमस्ति / श्रीहीरविजयं प्रति जिनदासगणिकृतप्रश्नो यथा / तथाऽऽश्विनचैत्रमासास्वाध्यायिके सप्तम्यष्टमीनवमीदिनत्रयमुपधानमध्ये आयातिन वा तथाऽश्विन चैत्रमासास्वाध्यायिकदिनत्रयमुपधानतपोविशेषेषु लेख्यका नायातीति वोध्यम् / गुणविजयगणिकृतप्रश्नो यथा / उपधानवाहिनः श्राद्धादेरकालसंज्ञायां जलशौचादिविधिः किं निशायामपि स्यान्न वेति / अत्रोत्तरम् स्वकीयादिना नीतेनोष्णोदकेन शौचादिविधानं युक्तिमदिति / जेसलमेरुसंघकृतप्रश्नो यथा / तथा के नचिदुपासके न चत्वार्युपधानान्युदूढानि भवन्ति तन्मध्ये प्रथमोपधानस्य द्वादशवर्षातिक्रमे प्रथममेवोपधानं पुनरुद्वाह्य स माला परिदधाति उत चत्वार्यपीति। उत्तरम्। प्रथमोपधानस्य द्वादशवर्षातिक्रमे पुनस्तस्मिन्नुढे माला परिहिताशुद्ध्यति। अथ यदिमनः स्थाने तिष्ठति तदा चत्वार्यपि पुनरुद्वाह्य माला परिदधाति!॥१॥ तथा उपधाने बाहामाने तपोदिने यदि कल्याणकतिथिरायाति तदा तेनैवोपवासेन सरति उतान्याऽधिकः ततो विलोक्यते इति प्रश्ने उत्तरम् उपधानतपोदिनान्तः कल्याणकतिथ्यागमने नियन्त्रिततपस्तया तेनैवोपवासेन सरति।१२। द्वीपवन्दिरकृतप्रश्नो यथा / तथोपधानपूर्णी भवनानन्तरं तपोवासरे उत्तरितुं कल्पते नवेति? अत्रोत्तरम्। उपधानपूर्णीभवनानन्तरंतपोवासरे नोत्तीर्यते तथाविधकारणेगीतार्थाज्ञापूर्वकमुत्तरणे एकान्तेन निषेधो ज्ञातो नास्तीति। तथोपधानवाचनानमस्कारं विना दीयते उत तत्पूर्विकेति? उपधानवाचनां श्रीविजयदानसूरयो नमस्कार विनैव दत्तवन्यो वयमपि तथैव दभ इति / 27 / तथोपधानवाचना पारणादिने दीयते न वा ? तथोपधानवाचना प्रातः संध्यायांच दीयतेन वाइति? उपधानवाचना तपोवासरे पारणादिने वा दत्ता शुद्ध्यति तथोपधानवाचना आचामाम्लैकाशनकरणानन्तरं संध्यायामपि दत्ता शुद्ध्यति पर प्रतिदिनक्रियमाण संध्यासमयत्क्रियां पश्चात् क्रियते / 28 तथा चतुर्मासकमध्ये मालारोपणनदी कुतः प्रभृति विधीयते इति ? चातुर्मासकमध्ये तुरीयव्रतमालारोपणनन्दी विजयदशम्यनन्तरं भवतो द्वादशव्रतनन्दी त्वगिपि भवन्ती दृश्यते इति / 26 / तथोपधानमध्ये आर्द्रशाकभक्षणं कल्पते न वा ? तथा विलेपनमस्तकतैलप्रक्षेपादिकं कल्पते न वेति? उपधानमध्ये सांप्रतमाशाकभक्षणे रीति स्ति तथा विलेपनमस्तकतैलक्षेपादिकं यतिचत्स्वर्यन वाञ्छति अन्यः कश्चिद्यदि भक्तिं करोति तदा निषेधो नास्ति / 30 / तथा श्रावक श्राविकाणां नन्दीसूत्रश्रवण "नाणं पंचविहं पन्नत्तं” इत्यदिरूपं नमस्कारत्रयरुपं वा क्रियते न वा? श्रावकश्राविकाणां नन्दीसूत्रं नमस्कारत्रयरुपं श्राव्यते इति / 31 / तथोपधानवाचनां श्राद्धाः श्राद्धयश्च अर्वस्थानेन शुण्वन्त्युपविश्यवेति ? उपधानवाचनां श्राद्ध्य ऊर्ध्वस्थिता शृण्वन्ति श्राद्धास्तु चैत्यवन्दनमुद्रयेति।३श ही०३ प्र०ा भावे ल्युट्प्राप्तौ,सम्म। तथा पौषधकरणात् पूर्व स्वाध्यायः कृतो देवाश्च वन्दितास्तदा पश्चात्पौषधकरणे उपधानप्रवेशे वा पुनरपि स्वाध्यायदेववन्दनादि करणीयं नवेति प्रश्नः पौषधकरणात्पूर्व स्वाध्यायदेववन्दनादिकृतं स्यात्तदा पश्चादपि तेनैव सरतीति (सेन०२ उल्ला०२०प्र०) | सामायिकाध्ययनादीनां कान्युपधानानि धामस्थानां परस्यानुयोजने किं प्रतिवचः प्रदीयत इति प्रश्नः / अत्रोत्तरं महानिशीथादौ चैत्यवन्दनसूत्राणामेवोपधानान्युक्तानि सन्ति न तु सामायिकाध्य यनादीनां यचोपधानमन्तराऽपि सामायिकादीनां पठनंतत्रजीवद्ध्यहारः संप्रदायश्च प्रमाणं यदुक्तं श्रावकाः पञ्च नमस्कारादिकियत्सूत्राणि विमुच्य शेषं सामायिकादिषड्जीवनिकान्तं सूत्रमुपधानमन्तरेणं यत्पठन्ति यचाकृतोपधानतपसो ऽपि प्रथमं नमस्कारादिस्तत्र जीवद्व्यवहारस्संप्रदायश्च प्रमाणमिति संभाव्यत इति विचारामृतसंग्रहे श्राद्धप्रतिक्रमणविचाररूपे षष्ठद्वारे इति (प्रश्न० 28) तथा मौलविधिनोपधानवहने श्राद्ध्या अस्वाध्याय दिनत्रयसत्कं तपःप्रवेदन चलेख्यके समायाति न वेति प्रसाद्यं पूर्व तु तपोन यातीति श्रुतमस्तीति प्रश्नः। अत्रोत्तरम् अस्वाध्यायदिनत्रयसत्कं तपः प्रवेदनं च न यातीति वृद्धवादोऽत एव षोडशदिने वाचना प्रदीयमानाऽस्ति वाचनानन्तरं च प्रवेदनरहितं पौषधत्रयं कार्यत इति (प्रश्न० 34) तथोपधान चतुष्टयस्य मालारोपणस्य चान्तरकालः कियानिति प्रश्नः / अत्रोत्तरम्। मुख्यवृत्त्या प्रथमोपधानप्रवेशानन्तरं द्वादशवर्षातिक्रमे तच्चतुष्टयं गच्छति तेन ततोऽागेव मालारोपणं विधेयमिति। श्येन०१ उल्ला० 83 प्रश्न / तथा षष्ठोपधानप्रवेशे अद्यदिन एव मालापरिधापने प्रथमां वाचनांदत्वा मालापरिधाप्यत उत पूर्णे तत्तपसि मालापरिधानानन्तरमाद्यवाचना दीयत इतिप्रश्नः। अत्रोत्तरंषष्ठोपधानप्रवेशाद्यदिने प्रवेदनकं प्रवेद्य प्रथमां वाचनांदत्वा समुद्देशादिक्रियांकारयित्वा माला परिधाप्यत इति। श्येन० 2 उल्ला० 83 प्रश्नः / तथा श्रावकाणामुपधानवहनं विना नमस्कारादिपठनं शुद्ध्यति न वेतिप्रश्नः / अत्रोत्तरम् तथा यतीनां योगवहनं विना सिद्धान्तवाचन पाठनादि न शुद्धयति तथोपधानतपोऽन्तरा श्राद्धानामपि नमस्कारादिसूत्रभणनगणनादि न शुद्यति यदुक्तं महानिशीथे "सेभयवं सुदुक्करं पंचमंगलमहासुअखंधस्स विणओवहाणं पन्नत्तं एसा निअंतणा कहं वा लेहिकिजई गोयमा! जेणं केणइन इच्छेज्जा एयं नियंतणं अविणओवहाणेण पंच मंगलाइसु अन्नाणमहिज्जई अज्झावेइ वा अज्झावयमाणस्स वा अणुन्नपयाइ सेणं न भवेज्जापि अधम्मे न हवेज्जा दढधम्मे न हवेज्जा भत्तिज्जुए हीलिज्जा अत्थं हीलिज्जा सुत्तत्थोभएहीलेजा गुरुजेणं हीलिज्जा सुत्तं जाव हीलिज्जा सुत्तं हीलिज्जा सुत्तत्थोभए हीलिजा गुरु जेणं हीलिज्जा सेणं आसाएज्जा अतीताणागयवट्टमाणे तित्थयरे आसाएज्जा आयरिअंउवज्झायसाहुणो जेणं आसाएजा सुअनाणमरिहंतसिद्धसाहु सेत्तस्स णं अणंतसंसारसागरमार्हिडमाणस्स तासुतासुसंवुडविअडासु (प्र०) चुलसीलक्खपरिसंकढासु सीओसणमिस्स जोणीसुसुइरनिअंतणा इति परं येन प्राग् नमस्कारादिसूत्राण्यधीतानि तेनापि यथायोगं निर्विलम्बमेवपधानानि विधिनाऽवश्यं वहन्ति यानि संप्रति तु द्रव्यक्षेत्रकालाद्यपेक्षया लाभालाभं विभाव्याचरणयोपधानतपो विनाऽपि नमस्कारादिसूत्रपाठादिभणनं कार्यमाणं दृश्यते आचरणायाश्च लक्षणमिदं कल्पभाष्ये उपदेशपदेच यथा “असढे ण समाइन्नं, जं कत्थ य केणई असावजं / न निवारिअमन्नेहि, बहुमणुमयमेअमायरिअं"1१। आचरणा च जिनाज्ञा समानैव यद्भणितं भाष्यादौ "असढाइन्नाणवज्ज, गीअत्थ अचारिअंतिमन्भत्था / आयरणा बिहु आणत्ति, वयणओ सुबहुमन्नति 1 इति ध्येयम् ( प्रश्न०) तथा गुरुसमीपे उपाधनादिक्रियां कुर्वतः श्राद्धादेरन्तरालस्थस्थापनायागुरोश्र्चान्तराले पञ्चेन्द्रियगमने अग्रेभवति नवेति प्रश्नः / अत्रोत्तरम् अग्रेभवतीति (17 प्रश्न०) तथा तृतीयाद्युपधानेषु सप्तक्षमाश्रमणानि दाप्यन्ते तत् कुत्र विधिः पत्रेऽस्तीति प्रश्नः / अत्रोत्तरं तृतीयाद्युपधानेषु तद्विधिदर्शकपत्रादौ सप्तक्षमाश्रमणदानवि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy