SearchBrowseAboutContactDonate
Page Preview
Page 1067
Loading...
Download File
Download File
Page Text
________________ उवसमणा 1056 - अभिधानराजेन्द्रः - भाग 2 उवसमणा समधिका अपूर्वकरणानिवृत्तिकरणकालसमया एष प्रथमसमयगृहीतदलिकनिक्षेपविधिः एवं द्वितीयादिसमये गृहीतानामपि दिलकानां | निक्षेपविधिर्द्रष्टव्यः / अन्यच्च गुणश्रेणिरचनार्थं प्रथमसमये यत् दलिकं गृह्यते ततः स्तोकं ततोऽपि द्वितीयसमये असंख्येयगुणं ततोऽपि तृतीये समये असंख्येयगुणमेवं तावद्द्वक्तव्यं यावद्गुणश्रेणिकरणचरमसमयः / अपूर्वकरणानिवृत्तिकरणसमयेषु वा उभयतः क्रमशः क्षीयमाणेषु गुणश्रेणिदलिकनिक्षेपः शेषे भवति उपरिच न वर्द्धते। करणाई अप्पुट्ठो, जो बंधो सो न होई जो। अण्णो बधगउद्धा, सा उल्लिमा उडिगइठाए॥ अपूर्वकरणस्यादौ प्रथमसमये यो बन्धः प्रारब्धसंबन्धकाद्धा उच्यते कियन्तं कालं यावत् स प्रारब्धांशो बन्धो बन्धकाद्धा उच्यते अत आह यावदभव्यो बन्धो न भवतिन प्रारभ्यते स प्रारब्धो बन्धोयावन्न समाप्ति यातीत्यर्थः / सा च बन्धकाद्धा स्थितिकण्डकद्वया स्थितिः घातकाले तुल्या इदमुक्तं भवति स्थितिघात स्थितिबन्धौ युगपदारभ्येते युगपदेव च निष्ठां यात इति। जा करणाइए ठिइकरणं तेतीए होइ संखंसों। अनियट्ठीकरणमओ, मुत्तावलिसंठियं कुणइ॥ अपूर्वकरणस्यादौ प्रथमसमये या स्थितिः सा स्थितिघातसहसैः खण्डिता सती करणान्ते अपूर्वकरणस्य चरमसमये संख्येयांशो भवति संख्येयभागमात्रा भवति संख्येयगुणाहीना भवतीत्यर्थः / एतच्च प्रागपि प्रस्तावादुक्तं तदेवमुक्तमपूर्वकरणम् / संप्रत्यनिवृत्यकरणप्रतिपादनार्थमाह "अनियट्टीत्यादि" अन्तोऽपूर्वकरणं तदूर्द्धमनिवृत्तिं करोत्यारभते तच कथंभूतमित्याह मुक्तावलीसंस्थितमनिवृत्तिकरणे हि अध्यवसायस्थानानि मुक्तावलीसंस्थितानि भवन्ति एतच्च प्रागेवोक्तं तत एतदपि अनिवृत्तिकरणमभेदात् मुक्तावलीसंस्थितमित्युक्तम् / / एवमनियट्टिकरणे, ठिइघाईणि होति चउरो वि। संखेचंसे सेसे, पढमठिई अंतरभवे / / एवमपूर्वकरणक्रामणनिवृत्तिकरणेऽपि स्थितिघातादयश्चत्वारोऽपि पदाथा भवन्ति प्रवर्तन्ते इत्थं या निवृत्तिकरणा द्वयोः संख्येयेषु भागेषु गतेषु सत्सु एकस्मिश्च संख्येयगते भागे शेषे तिष्ठति अन्तर्मुहूर्तमात्रमधो मुक्त्वा मिथ्यात्वस्यान्तरकरणमन्तर्मुहूर्तप्रमाणं प्रथमस्थितेः किञ्चित्समधिकं भवति प्रथमस्थितिश्चा अंतमुहुत्तियमित्ताई, दो विनिम्मवइ बंधगट्ठाए। गुणसेढि संखभाग, अंतरकिरणेण उक्किरइ॥ प्रथमस्थितिमन्तरकरणं च एते द्वे अपि अन्तर्मुहूर्तप्रमाणो युगपत् निपियति / तथा तत् अन्तरकरणं अभिनवस्थितिबन्धोदयानभिनवस्थितिबन्धकालप्रमाणेन कालेन करोति तथा व्यन्तरकरणप्रथमसमय एवान्यस्थितिबन्धमिथ्यात्वमारभते स्थिति बन्धान्तरकरणे च युगपदेव परिसमापयति / तथा गुणश्रेणिसंबन्धिनः संख्येयभागाः प्रथमद्वितीयस्थित्याश्रितास्तिष्ठन्ति एका तु श्रेणिः संख्येयतमं भागमन्तरकरणादन्तरकरणेन सहोत्किरति विनाशयति। संप्रति अन्तरकरणस्य विधिमाह। अंतरकरणस्य विही, घेत्तुं घेत्तुं ठिई य मज्झाउ। दलियं पढमठिईए, विक्खिवइ तहा उवरिमाईए॥ अन्तरकरणस्यायं विधिः यदुत अनन्तकरणस्थितेमध्यावलिकं कर्म परमाद्यात्मकं गृहीत्वा गृहीत्वा प्रथमस्थितौ प्रक्षिपति तथा उपरितन्यां द्वितीयस्थितौ च एवं च प्रतिसमयंतावत्प्रक्षिपति यादवदन्तरकरणदलिक सकलमपि क्षीयते अन्तर्मुहूर्तेन च कालेन सकलदलिकक्षयः। ' इगदुगआवलिसेसा, नत्थि पढमाए उदीरणागालो। पढमठिइए उदीरण, वियाउए आगालो॥ इह प्रथमस्थितौ वर्तमान उदीरणाप्रयोगेण यत् प्रथमस्थितेरेव दलिकं समाकृश्योदयसमये प्रक्षिपति सा उदीरणा / यत् पुनः द्वितीयस्थितेः सकाशात् उदीरणाप्रयोगेण समाकृष्योदये प्रक्षिपति स आगाल इति। उदीरणायाः एव विशेषप्रतिपत्त्यर्थमिदं द्वितीयं नाम पूर्वसूरिभिरावेदितम्। उदीरणायां च प्रथमस्थितिमनुभवन् तावद्गतो यावदावलिकाद्विकं शेष तिष्ठति तस्मिश्च स्थितेः आगालो न भवति किं तु केवला उदीरणैव। असावप्युदीरणा तावत् प्रवर्तते यावदावलिका शेषा न भवति आवलिकायां शेषीभूतायामुदीरणा विनिवर्तते ततः केवलेन नवोदयेन आवलिकामनुभवति। अक्षरयोजना त्वेवम् / एकस्यामावलिकाशेषायां प्रथमस्थितौ यथासंख्यमुदीरणागालो न भवति / प्रथमस्थितेश्च सकाशात् यदि च आगच्छ ति सा उदीरणा द्वितीयायाश्च स्थितेः सकाशाद्यद्यागच्छति स आगाल इति॥ आवलिमेत्तं उदयेण चेइउं ठाइ उवसमट्ठाए। उवसमियं तत्थ भवे, सम्मत्तं मंखुवीयं जं॥ तत आवलिकामा प्रथमस्थितिसत्कं केवलेनैवोदयेन वेदयित्वा अनुभूय उपशमाद्धायां तिष्ठति उपशमाद्धायां प्रविशति तस्यां चोपशमाद्धायां स्थितस्य सतः प्रथमसमये एवौपशमिकसम्यक्तवं भवति तच मोक्षस्याभावात्। उपरिमठिइ अणुभागं, तं ति ता कुणइ चरमिमच्छुदए। देसघाएण सम्मं, इयरेणं मित्थमीसाइ।। प्रथमस्थितिचरमसमये मिथ्यात्वोदये वर्तमानो मिथ्यादृष्टिरु परितनं स्थितिद्वितीयस्थितेः संबन्धिनां कर्मपरमाणूनामनुभागं त्रिधा करोति / अनुभागभेदेन त्रिधा द्वितीयस्थितिगतं मिथ्यात्वं दलिकं करोति इत्यर्थः / तथा शुद्धमविशुद्धं च तत्र शुद्ध सम्यक्तवं तच देश घातिरसेन समन्वितं करोति।अर्द्धविशुद्धं सम्यग्मिथ्यात्वमविशुद्धं मिथ्यात्वम्। एते च इतरेण सर्वघातिनां रसेन समन्वितेच करोति। इहौपशमिकसम्यक्तवलाभप्रथसमयादेवारभ्य मिथ्यात्वस्य सम्यक्तवं च गुणसंक्रमात्प्रवर्तते स चैवम्। सम्मे थोवो मीसे, असंखओ तस्स संखओ सम्मे। पइसमयं इइखेवो, अंतमुहुत्ता उ विप्पाउ॥ औपशमिकसम्यक्तवलाभप्रथमसमये स्तोकोदलिकनिक्षेपसम्यक्तवे ततो मिश्रे तस्मिन्नेव प्रथमसमये असंख्येयगुणस्ततोऽपि द्वितीये समये सम्यक्त्वे असंख्येयगुणः ततोऽपि तस्मिन्नैव द्वितीये सम्यग्मिथ्यात्वे असंखेयगुणः इत्येवमुक्तेन प्रकारेण प्रतिसमयं क्षेपे सगुणसंक्रमरूपस्तावदृष्टव्यो यावदन्तर्मुहूर्त तदूर्द्ध पुनः प्रागभिहितत्वरूपो विध्यातसंक्रमः प्रवर्तते।। गुणसंकमेण एसो, संकामो होइ सम्ममीसेसु। अंतरकरणम्मि ठिओ, कुणई जओ सप्पसत्थगुणो / / एष प्रागभिहितस्वरूपसंक्रमो मिथ्यात्वस्य सम्यग् मिश्रयो भवति गुणसंक्रमेणानन्तरोक्तस्वरूपः संक्रमो वेदितव्यत्यर्थः /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy