________________ उवसग्ग 1046 - अभिधानराजेन्द्रः - भाग 2 उवसग्ग दास्याम इति लब्धे च तत्र तवेदमिति भणित्वा तदुण्डेरकादितैः स्वयमेव भक्षितं देवतया च हासेन तद्रूपमावृत्त्य क्रीडितमनागच्छत्सु क्षुल्लकेषु व्याकुले गच्छे निवेदितमाचार्याणां देवतया क्षुल्लकवृत्तम् / ततो वृषभैरुण्डेरिकादियाचित्वा तस्यै दत्तं तया तु ते दर्शिता इति। प्रद्वेषाद्यथा सङ्गमको महावीरस्योपसर्गानकरोत्। विमर्षाद्यथा क्वचिद्देवकुलिकायां वर्षासूषित्वा साधुषु तदीय एवान्यः पश्चादागतस्तत्रोषितस्तञ्च देवता कि स्वरूपीयमिति विमर्षादुपसर्गितवतीति / पृथग विभिन्ना विविधा मात्रा हासादिवस्तुरूपा येषु ते पृथग्विमात्रा। अथवा पृथग विविधा मात्रा विमात्रा तयेत्येतल्लुप्ततृतीयैकवचनं पदं दृश्यम्। तथा हि हासेन कृत्वा प्रद्वेषण करोतीत्येवं संयोगः यथा संगमकएवं विमर्षेण कृत्वा प्रद्वेषेण कृतवानिति। तथा मानुषा हास्यात्यथा गणिकादुहिता क्षुल्लकमुपसर्गितवतीं सा च तेन दण्डेन ताडिता विवादे च राज्ञः श्रीगृहदृष्टान्तो निवेदितस्तेनेति प्रद्वेषात् यथा गजसुकुमारः सोमिलब्राह्मणेन व्यपरोपितो विमर्षात् यथा चाणक्योक्तचन्द्रगुप्तेन धर्मपरीक्षार्थं लिङ्गिनोऽन्तःपुरे धर्ममाख्यापिता क्षोभिताश्च साधवस्तु क्षोभितुं न शक्ता इति / कुशीलमब्रह्म तस्य प्रतिषेवणं कुशीलप्रतिषेवणं तद्भावः कुशीलप्रतिषेवणता उपसर्गकुशीलस्य वा प्रतिषेवणं येषु ते कुशीलप्रतिषेवणकाः / अथवा कुशीलप्रतिषेवणयेति व्याख्येयं यथा संध्यायां वसत्यर्थ प्रोषितस्येालोहि प्रविष्ठः साधुश्चतसृभिरीष्ालुजाया-भिर्दत्तावासः प्रत्येकं चतुरोऽपि यामानुपसर्गितो न च क्षुभितः। तथा तैरश्चो भयात् श्वादयो दशेयः प्रद्वेषाश्चण्डकौशिको भगवन्तं दष्टवान् आहारहेतोः सिंहादयोऽपत्यलयनसंरक्षणाय काक्यादयः उपसर्गयेयुरिति / तथा आत्मसंवेदनीया घट्टनता घट्टनया वा यथाऽक्षणि रजः पतितंततस्तदक्षि हस्तेन मलितंदुःखितुमारब्धमथवा स्वयमेव अक्षणि गले वा मांसाडरादि जातं घट्टयतीति प्रपतनात् प्रपतनया वा यथा अप्रयत्नेन संचरतः प्रपतनात् दुःखमुत्पद्यते स्तम्भनतस्तम्भनया वा यथा तावदुपविष्टः स्थितो यावत्सुप्तः पादादिस्तब्धो जातः श्लेषणता श्लेषणया वा यथा पादमाकुच्य स्थितो वा तेन तथैव पादौ लगितौ इति / आत्मसञ्चने उदाहरणानि उपसर्गसहनात्कर्मक्षयो भवतीति। स्था०४ ठा०४ उ० सो दिव्वमणुयतेरिच्छियाय संवेयणा भेओ। स च देवेभ्यो भवो दिव्यो मनुष्येभ्यो भवो मानुषः तिर्यग्योनिभ्यो भवस्तैर्यग्योनः आत्मना संवेद्यत इत्यात्मवेदनीयः इत्येवं चतुर्भेद इति। केन पुनः कारणेन देवादिभ्य साधूनामुपसर्गा भवन्तीत्याह। हासप्पओसवीमंसउ, विमायाए वा भवे दिव्वो। एवं चिय माणुस्सो, कुसीलपडिसेवणचउत्थे॥ तिरिओभयप्पओसाहारावयाइ रक्खणत्थं वा। घट्टणथंभणपवडण,लेसणओ वायसंवेओ॥ हासात्क्रीडातः अवज्ञातः पूर्वभवसंबन्धादिकृतप्रद्वेषाद्वा (वीमंसउत्ति) किमयं स्वप्रतिज्ञातश्चलति न वेति मीमांसातो विमर्षादिव्य उपसर्गो भवेत्तथा (विमयाएत्ति) विविधा मात्रा विमात्रा तस्याः सकाशाकिमपि हास्यात्मिकमपि प्रद्वेषात्किंचिन्मीमांसातश्चेत्यर्थः / दिव्य उपसर्गो भवेदिति / एवं मानुष्योऽप्युपसर्गश्चतुर्विधो भवेत्केवलं (कुसीलपडिसेवणचउत्थेति) स्त्रीपण्डकलक्षणो यः कुशीलस्तत्प्रतिसेवनामाश्रित्य चतुर्थो भेदो द्रष्टव्यः। विमात्रापक्षस्यात्र हास्यादिष्वेवान्त विविवक्षणादिति तिर्यङ् भयात्प्रद्वेषादाहारार्थमपत्यनीडगुहादिस्थानरक्षणार्थमुपसर्गं कुर्यादिति / आत्मसंवेदनीयस्तूपसर्गोनेत्रपतितकणिक्कादिघट्टनादङ्गाना स्तम्भनात्स्तब्धताभावाद्र्तादौ वा प्रपतनाद्विगुणितबाहाद्यङ्गानां वासनात्परस्परं श्लेषणाद्वतीति सप्तचत्वारिंशगाथार्थः / विशे०॥ सांप्रतमेतेषामेव भेदमाहएकेको यचउविहो, अट्ठविहो वा वि सोलसविहो वा। घट्टणजयणाय तेसिं, एत्तो वोच्छंय अहियारो ||4|| एकैको दिव्यादिश्चतुर्विधश्चतुर्भेदः। तत्र दिव्यस्तावत हास्यात् प्रद्वेषात् विमर्शात् पृथग्विमात्रातश्चेति / मानुषा अपि हास्यात् प्रद्वेषाद्विमर्थात् कुशीलप्रतिसेवनातश्च / तैरश्चा अपि चतुर्विधाः तद्यथा भयात्प्रद्वेषादाहारादपत्यसंरक्षणाच्च / आत्मसंवेदना अपि चतुर्विधाः घट्टनातो लेशनातोऽङ्गुल्याद्यवयव संश्लेषरूपाया स्तभनातः प्रपाताचेति / यदि वा वातपित्तश्लेष्मसंनिपातजनितश्चतुर्धे ति / स एव देव्यादिश्चतुर्विधोऽनुकूलप्रतिकूलभेदात् अष्टधा भवति। स एव दिव्यादिः प्रत्येकं यश्चतुर्धाप्राग्दर्शितः स चतुर्णां चतुष्काणां मेलापकात्षोडशभेदो भवति। तेषां चोपसर्गाणां यथा घटना संबन्धप्राप्तिः प्राप्तानां चाधिसहनं प्रतियातना भवति तथाऽतऊर्द्धमध्ययनेन वक्ष्यते इत्ययमत्रार्थाधिकारः इति भावः। सूत्र०१ श्रु०३ अ०। एतेषाञ्च सहनाऽवधिभूतः श्रीमन्महावीरो बोद्धव्यः भावनोत्पादनार्थपुनरेकैकशः परमपुरुषाः सम्यक् सहनादाप्तकल्याणाः कथ्यन्ते। तथा चाह॥ देवेहिं कामदेवो, गिही विनयचाइउरगुणेहिं। मत्तगयंदभुअंगमरक्खसघोरट्टहासेहिं।। देवस्यैते देवा देवकृताद्वा देवोभगवच्छीमहावीरसत्कदशश्रावका-न्तर्गतः गृह्यपि गृहस्थोऽपि न च नैव व्यधितश्चलितस्तपोगुणेभ्यः कथं भूतैर्मत्तगजेन्द्रभुजङ्गमराक्षसघोराट्टहासैः। तथाहि शक्रवर्णनाश्रद्धश्रद्धानायातदेवनिर्मितैः कदर्थ्यमानेनापिन परित्यक्ता स्वप्रतिज्ञेति गाथार्थः / भावार्थः कथानकेभ्यः स्फुटीभविष्यति भगवओ महावीरस्स दस सावया अहेसितं / “आनन्द कामदेवे, चुलणिपिया तह य सुरदेवे। चुल्लसए कुंडोलिय, सयालपुत्ते य महसयए।नंदिणिपियलेयइपिय, दस सावगाउ वीरेणं / मिच्छत्ततमविमोइय, एए दढसावए सुवए"। दर्श०। (कथानकानि तत्तच्छब्दे वक्ष्यन्ते। आत्मसंवेदनीयोपसर्गोदाहरणन्तुस्वधियाऽप्यूह्यम्) कल्पका औ०। आव०नि०चुला जीत०स्था। दिवे य जे उवसग्गे, तहा तिरिच्छमाणुस्से। जे भिक्खू सहइ निचं,सेन अत्थइ मण्डले / / 5 / / यो भिक्षुर्दिव्यान् देवैः कृतान् तथा तैरश्वान् तिर्यग्भिः कृतान् तथा मानुष्यकान् मनुष्यैः कृतान् उपसर्गान् सम्यग् कषायाभावेन सहते स मण्डले संसारे न तिष्ठति। उत्त०३१ अ०। त्रिविधा उपसर्गाः। तिविहे य उवसग्गे, दिव्वे माणुस्स तिरिक्खे य। दिवे य पुष्वमणिए, माणुस्से आमिओगे य॥ त्रिविधः खलु परसमुत्थ उपसर्गस्तद्यथा देवो मानुष्यकस्तैरश्चश्च / तत्र देवो दैवकृतः पूर्वमनन्तरसूत्रस्याधस्तात्भणितः। मानुष्यस्तु मनुष्यकृ तः आभियोग्यो विद्याद्यभियोगजनितः।। बृ०६ उ० / आव० / /