SearchBrowseAboutContactDonate
Page Preview
Page 1053
Loading...
Download File
Download File
Page Text
________________ उवसंपया 1045 - अभिधानराजेन्द्रः - भाग 2 उवसंपया संभोगोऽपि त्रिभिः कारणैरिष्यते तद्यथा ज्ञानार्थ दर्शनार्थं चारित्रार्थ च / तत्रज्ञानार्थं दर्शनार्थंच यस्योपसंपदंप्रतिपन्नस्तस्मिन् सूत्रार्थदानादौ सीदति गणान्तरे संक्रमणे स एव विधेयः पूर्वसूत्रे भणितश्चारित्रार्थ तु यस्योपसंपन्नस्तत्र चरणकरणक्रियायां सीदति चतुर्भङ्गीभवति। गच्छः सीदतिनाचार्यः। आचार्यः सीदति नगच्छः। गच्छोऽप्याचार्योऽपि सीदति 13 / न गच्छोनाचार्य इति।। अत्र प्रथमो भङ्गो गच्छेसीदति मन्तव्यस्तत्र च गुरुणा स्वयं वा गच्छस्य नोदना कर्त्तव्या कथं पुनः स गच्छः सीदेदित्याह। पडिलेहादिपडिउवेक्खण, निक्खिआदाणविणयसज्झाए।' आलोगठवणभत्तट्ठभासपडमलसेज्जातराईसु॥ ते गच्छसाधवः प्रत्युपेक्षणां कालेन कुर्वन्ति न्यूनातिरिक्तादिदोषैर्विपर्यासेन वा प्रत्युपेक्षन्ते गुरुग्लानादीनां वा न प्रत्युपेक्षन्ते निष्करणादिना वा वर्तयन्ति दण्डकादिकं निक्षिपन्त आददतो वा न प्रत्युपेक्षन्ते न वा प्रमार्जयन्ति दुष्प्रत्त्युपेक्षितं दुष्प्रमार्जितं वा कुर्वन्ति यथार्ह विनयं न प्रयुञ्जते / स्वाध्यायं सूत्रपौरुषी वार्थपौरुषी वा न कुर्वन्ति / अकाले अस्वाध्याये वा कुर्वन्ति पाक्षिकादिषु आलोचनांन प्रयच्छन्ति। अथवा आलोचयन्ति “ठाणे दिसि पगासेण वा” इत्यादिकं सप्तविधमालोकं न / प्रयुञ्जते संखडी वा आलोकान्तः स्थापनाः कुलानि स्थापयन्ति भक्तार्थ मण्डल्यां समुद्देशनं न कुर्वन्ति गृहस्थभाषाभिर्भाषते सावधं वा भाषन्ते पटलके ऽप्यानीतं भुजते / शय्यातरपिण्ड भुञ्जते आदिग्रहणेनोद्रमाद्यशुद्धं गृह्णन्ति। इतरेषु गच्छस्य सीदतो विधिमाह। चोयावेई गुरुणा, विसीयमाणं गणं सयं वावि। आयवियं सीअंतं, सयं गणेणं व चोयावे।। प्रथमभङ्गे सामाचार्यां विषीदन्तं गच्छंगुरुणांनोदयति अथवा स्वयमेव नोदयति। द्वितीयभङ्गे आचार्य सीदन्तं स्वयं वा गणेन वा नोदयति। दुन्नि वि विसीयमाणे, सयं व वा जे तहिं न सीयंति। ठाणं ठाणासजउ, अणुलोमाइहिं चोएंति॥ तृतीयभड्ने गच्छाचार्यों द्वावपि सीदन्तौ स्वयमेव नोदयति ये वा तत्र न सीदन्ति तैनॊदयति / किं बहुना स्थानं स्थानमासाद्य प्राप्यानुलोमादिभिर्वचेभिर्नोदयति ! किमुक्तं भवति / आचार्योपाध्यायादिकं भिक्षुक्षुल्लकादिकं वा पुरुषवस्तु ज्ञात्वा यस्य यादृशी नोदना योग्या यो वा खरसाध्यो मृदुसाध्यः क्रूरोऽक्रूरो वा यथा नोदनां गृह्णातितं तथा नोदयेत्। भणमाणे भणाविंते, अयाणमाणम्मि पक्खो उकोसो। लज्जए पंच तिन्नि व, तुह किंति विपरिणए विवेगो॥ गच्छमाचार्यमुभयं वा सीदन्तं स्वयं भणेत् अन्यैश्च भाणयन्नास्ते यत्र न जानाति एते भण्यमाना अपि नोद्यमं करिष्यन्ति तत्रोत्कर्षतः पक्षमेकं तिष्ठति गुरुं पुनः सीदन्तः लज्जया गौरवेण वा जानन्नपि पञ्च त्रीन् वा दिवसान् अभणन्नपि शुद्धम् / अथाभाष्यमाणो गच्छे गुरुरुभयं भणेत् भवतः किं दुःखयति यदि वयं सीदामस्तर्हि वयमेव दुर्गतिं गमिष्यामः / एवं विधिना भावेनैव तेषां परिणते विवेकस्ततः परित्यागो विधेयस्ततश्चान्यं गणं संक्रामति तत्र चतुर्भङ्गी संविग्नः संविग्नगणं संक्रामति 1 संविग्नोऽसंविनम् 2 असंविग्नः संविग्नम् 3 असंविग्नोऽसंविनम् 4 तत्र प्रथमो भङ्गस्तावदुच्यते। संविग्गविहाराओ, संविग्गा दुन्नी एज अन्नयरो। आलोइयम्मि सुद्धो, तिविहो उ विहि मग्गणा नवरिं॥ संविनविहारात् संविग्नौ द्वौ अन्यतरौ गीतार्थाऽगीतार्थी संविगे गच्छे समागच्छेतां स च गीतार्थोऽगीतों वा यातो दिवसान संविग्नेभ्यः स्फिटितस्तदिनादारभ्य सर्वमप्यालोचयति आलोचिते च शुद्धः / नवरं त्रिविधोपधेर्यथाकृतादिरूपस्य मार्गणा कर्त्तव्या / इदमेव व्याचष्टे। गीयमगीतो गीते, अप्पडिवठू ण होइ उवघातो। अगीयत्थस्स वि एवं, जेण सुता ओहनिजुत्ती।। ससंविग्नो गीतार्थोऽगीतार्थो वा। यदि गीतार्थो वजिकादिषु अप्रतिबद्धः आयातः तत उपधेरुपधातो न भवति तदा प्रायश्चित्तम् / अगीतार्थस्य येन जघन्यतः ओघनियुक्तिः श्रुता त स्याप्येवमेवाप्रतिबद्धयमानस्य नोपधिरुपहन्यते। गीयाण व मिस्साण व, दुण्ह वयंताण वइयमाईसु। पडिवजंताणं पि हु, उवहि तह गेण्ह चारुवणो॥ द्वयोर्गीतार्थयोगीतार्थागीतार्थविमिश्रयो व्रजतोजिकादिषु प्रतिबद्ध्यमानयोरप्युपधिनोपहन्यतेन वा आरोपणा प्रायश्चित्तं भवति। एवमेकोऽनेके वा विधिना समागता यत्प्रभृति गणानिर्गतास्तत आरभ्यालोचनां वदन्ति / अथ त्रिविधोपधि-मागणामाह। आगंतु जहागडयं, वत्थव्व अहाकडस्स असईए। मेलिंति मज्झिमेहिं,मा गारव कारणमगीए। तस्य गीतार्थस्यागीतार्थस्य वा त्रिविध उपधिर्भवेत् / तद्यथा यथाकृतोऽल्पपरिकर्मा सपरिकर्मा वा वास्तव्यानामप्येवमेव त्रिविध उपधिर्भवति / तत्र यथाकृतो यथाकृतेन मील्यत अल्पपरिकर्मा अल्पपरिकर्मणा सपरिकर्मा सपरिकर्मणा। अथ वास्तव्यानां यथाकृतो नास्ति तत आगन्तुकस्य यथाक्रमं वास्तव्य -मध्यमैरल्पपरिकर्मभिः सह मीलयन्ति किं कारणमिति चेदत आह 1 माऽसौ मीलितः सन् अगीतार्थस्य मदीय उपधिरुत्तमसांभोगिकः अतोऽहमेव सुन्दर इत्येवं गौरवकारणं भवेदिति। गीयत्थे ण मिलिजइ, जो पुण गीओ वि गारवं कुणइ। तस्सुवही मेलिज्जइ, अहिगरणअपचओ इहरा। गीतार्थो यद्यगौरवी ततस्तदीयो यथाकृतः प्रतिग्रहो वास्तव्ययथाकृबाभावेऽल्पपरिकर्मभिः सह न मीलयन्ति किं तु उत्तमसांभोगिकाः क्रियन्ते। यस्तु गीतार्थोऽपि गौरवं करोति तस्य कृते वास्तव्याल्पपरिकर्मभिः सह मील्यते किं कारणमिति चेदत आह (इहरत्ति) यदि यथाकृतपरिभोगेन परिशुध्यते तदा केनाप्यजानता अल्पपरिकर्मणा समं मेलितं दृष्ट्वा सगीतार्थोऽधिकरणमसंखण्डं कुर्यात् किमर्थ मदीय उत्कृष्टोपधिरशुद्धेन सह मीलित इति / अप्रत्ययो वा शैक्षाणां भवेत् / अयमेतेषां सकाशादुधुक्ततरविहारी येनोपधिमुत्कष्टं परिभुते एते तुहीनतरा इति। एवं खलु संविग्गा-संविग्गे संकम करेमाणे। संविग्गासंविग्गे, संदिग्गे वा वि संविग्गे // 3 // एवं खलु संविग्नस्य संविग्नेषु संक्रमं कुर्वाणस्य विधिरुक्तः / अथ संविग्रस्यासं विनेषु संक्रामतोऽसंविग्नस्य वा संविग्नेषु संक्रामतो विधिरुच्यते। तत्र संविग्नस्यासंविग्नसंक्रमणे तावदिमे दोषाः। सीहगुहं वग्घगुहं, उदहिं व पलित्तं व जो पविसो।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy