________________ उवसंपया 1030 - अमिधानराजेन्द्रः - भाग 2 उवसंपया तेषां गच्छनिर्गतानां जिनकल्पिकादीनां यो व्रतग्रणार्थमुपतिष्ठतितं तेन प्रवाजयन्ति तथाकल्पत्वात्किं तु ये तत्रासन्नतराः संयताः स्थितास्तत्रोपदेशं ददति यथा अमुकानां समीपे गत्वा प्रव्रजेति। अथवा जानन्ति श्रुतवलतो ये दूरे स्थितास्तत्र स एष निस्तरिष्यति। तदेतत् ज्ञात्वा यत्र स निरस्तरति तत्रोपदेशं प्रयच्छन्ति / परमार्थतः पुनस्ते आत्मपरमागच्छपरगच्छविभाग नेच्छन्ति स्थविरकल्पादुत्तीर्णत्वात्। अगीयसमणसंजइ-गीयत्थपरिग्गहाण खेत्तं तु। अपरिग्गहाण गुरुगा, न लभति सीसे त्थ आयरिओ॥ . अगीतानामगीतार्थनां श्रमणानां संयतीनां च गीतार्थपरिग्रहाणां गीतार्थपरिगृहीतानां क्षेत्रमवग्रहो भवति / इयमत्र भावना / ये गीतार्था अपि साधवो गीतार्थपरिगृहीता विहरन्ति वा अपि संयत्यो गीतार्थपरिगृहीता वर्तन्तेतेषामवग्रहो भवति तेच यदि साधवो यदि संयत्यो गीतार्थनिश्रामनुपपन्ना अगीतार्था विहरन्ति तदा तेषामपरिग्रहाणां गीतार्थपरिग्रहरहितानां विहरतां प्रायश्चित्तं चत्वारो गुरुका इत्येषां च संयतीनां च गीतार्थापरिगृहीतानां यः परिव्राजक आचार्यः सोऽत्र शिष्यान् स्वदीक्षितान न लभते परिगृहीततयैव तेषां वीक्षणात्। गीयत्थगते गुरुगा, असती एगणिए विगीयत्थो। समोसरणे नत्थि उग्गहो, वसहीए उमग्गण अखेत्ते।। / / ये ते स्वयं गीतार्था गीतार्थपरिग्रहरहिता वर्तन्ते यद्यन्यस्मिन् गीतार्थे आगते तस्योपसंपदंन प्रतिपद्यन्ते तदा तेषां प्रायश्चित्तं चत्वारो गुरुकाः। अथान्यो गीतार्थ उपसंपदना) नायातः कारणवशतश्च कथमप्येकाकी जातस्तस्य गीतार्थस्याशठस्य परिधाररहितत्वेनैकाकिनोऽपि क्षेत्रमाभवति। गतं कस्येति द्वारम्। इदानी कस्मिन्वेतिद्वारमधिकृत्याह। यत्र यावन्ति दिनानि संघस्य समवसरणं तत्र तावन्ति दिनान्यवग्रहो न भवति एवं जिनस्नानादिषु मिलितानां यावन्महिमा तावदवग्रहाभावः। एतत्सर्वं समवसरणे नास्त्यवग्रहः इत्यनेन सूचितमेवमक्षेत्रेऽवग्रहाभावः। अक्षेत्रेऽपि वसतौ मार्गणाऽवग्रहस्य भवंति सा चैवमक्षेत्रे वसतिषु समकं स्थितानां साधारणं पश्चादागतानां क्षेत्रंतुन भवति / सेसं सकोसजोयणं, पुय्वजहियं तु जेण तस्सेव / समगोग्गहसाहार, पच्छा गतो होइ उ अखेत्ति।। शेष क्षेत्रमवग्रहो भवति / तच्च प्रमाणतः सक्रोशयोजनं क्रोशसहित गव्यूतद्विकमित्यर्थः तत्रापि येन पूर्वमवगृहीतं तस्यैव तत्क्षेत्रमाभवति न शेषस्य। अथ समकमेव तस्यावग्रहः कृतस्तत आह साधारणं तदा तेषां क्षेत्रम्। यस्तु पश्चादागतः सभवत्यक्षेत्री न तस्याभवति क्षेत्रमिति भावः। अण्णो गतो कहंतो, उवसंपण्णे तहिं च ते सव्वे / संकंतो उव कहेंते, साहारणे तस्स जो भागो।। अन्यः कोऽप्याचार्यः कथयन् बहुश्रुतः पश्चादागतः ते च पूर्वस्थिताः सर्वेऽपि तस्मिन्नन्यागते कथयत्युपसंपन्नास्तदा तस्मिन् कथयति सोऽवग्रहः संक्रान्तस्तस्याभाव्यं तत्क्षेत्रं जातमिति भावः / अथ समकप्राप्ततया साधारणे क्षेत्र स्थितानां मध्ये एकः कश्चनापि तं पश्चादागतमन्यमाचार्य बहुश्रुतमुपसंपन्नास्तदा यस्यस्य भागस्तं तत्र कथयति संक्रान्तः। निक्खित्तगणाणं वा, तेसिं विय हारेइ तं तु खेत्तं तु खेत्तभया वा कोई, माइहाणेण सुण एवं // यदि क्षेत्रवतां शिष्य आगन्तुकमाचार्यमुपसंपन्नो यदिवाचार्यागणं शिष्य गीतार्थे निक्षिप्य तमुसंपन्नास्तदा तेषामेव निक्षिप्तगणानां वाशब्दादुपसंपन्नतदेकशिष्याणां तत्क्षेत्रम्। किमुक्तंभवति यद्यत्तत्क्षेत्रात्सचित्तादिकमुत्पद्यते तत्तेषामेवाभवति यत्रागन्तुको नलभते कोऽपि पुनर्ममागन्तुकस्य पार्श्वे शृण्वतः क्षेत्र यायादिति क्षेत्रभयादेवं वक्ष्यमाणप्रकारेण मातृस्थानेन शृणोति। तमेव प्रकारमाहकुडेण चिलिमिलीए व, अंतरितो सुणइ कोइ माणेण / अहवा चंकमणीयं करेंतो पुच्छागमो तत्थ / / कुड्यन यदिवा चिलिमिलिन्या जवनिकान्तरितः सन् कोऽपि मानेन ममेदं सचित्तदिकमुत्पद्यते क्षेत्रमाभवति तन्मा इह तावदुत्तरत्विति क्षेत्रगर्वेण शृणोति / अथवा मानेनैव यथोक्तरूपेण चंक्रमणिकां कुर्वन् कोऽपि शृणोति तत्र यद्यपि स शृणोति तथापि तत्र पृच्छागमो भवति पृच्छा कर्त्तव्या भवति ततः पृच्छातोऽपि तस्य भवति क्षेत्रम्। अथ कतिभिः पृच्छाभिः कियन्तं कालं तस्याभवति क्षेत्रमित्याह।। पुच्छाहिं तिहिं दिवसं, सत्तहिं पुच्छाहिं मासियं हरइ। अहवा दिवससमत्तो, इमो उ ते हि अहिजते॥ तिसृभिःपृच्छाभिरेकं दिवसं यावत्तत्क्षेत्रं हरति पृच्छादिवसे यत्तस्मिन् क्षेत्रे सचित्तादिकमुत्पद्यते तत्कथयन्स लभते नेतरे इति भावः / सप्तभिः पृच्छाभिः पुनर्मासिकं पृच्छादिवसादारभ्य मासं यावत्सचित्तादिकमपहरतः तदेवं, "खेत्तभया वा कोई", इत्यादि गाथा पश्चार्द्ध व्याख्यातमिदानीं,"निक्खित्तगणाणं चेत्यादि", पूर्वार्द्ध व्याख्यानयति / अथवा यो वक्ष्यमाणोऽन्यविशेषस्तस्मिन्नधीयानेऽध्यापयितरि / तमेवाह। जति निक्खिऊण गणं, उवसंपाएह वा वि सीसं तु / ता तेसिं चिय खेत्तं, वाएंतो लाभ खेत्त बहिं / / यदि गीतार्थे गणं निक्षिप्य तमागन्तुकमुपसंपद्यते अथवा शिष्यं प्रेषयति तदा तेषामेव पूर्वस्थितानां तत्क्षेत्रमाभवति न तु वाचयतां वाचयति लाभस्तस्मात् क्षेत्राहिः। अह वेती वायंतो, लाभेण नत्थि हंति वच्चामो। इहरेहि य सो रुद्धो, मा वच्चसु अम्ह साहार।। अथ ब्रूते वाचयत यथा नोऽस्माकमिह नास्ति लाभ इति व्रजाम एवमुक्ते इतरैः पूर्वस्थितैः सरुद्धो यथाभाव्रजत यूयं युष्माकमस्माकं च साधारणं क्षेत्रमिति। अथ साधारणेऽपि क्षेत्र स्थिता न संस्तरन्ति तत्र विधिमाह - निग्गमणे चउभंगो, निट्ठियसुहदुक्खयं जति करेंति / निट्ठियपहावितो वारुद्धो पच्छा य वाघातो॥ अथसाधारण क्षेत्रे स्थितास्तेन संस्तरन्ति तर्हि निर्गन्तव्य तत्र निर्गमने चतुर्भङ्गी वक्तव्या / गाथायां पुंस्त्वनिर्देशः प्राकृतत्वात् तथा यस्य श्रुतस्कन्धस्य निमित्तमुपसंपन्नास्तन्निष्ठितं तस्मिन्निष्ठिते समाप्ते भूयः क्षेत्रं साधारणं जातं तत्र यदि भूयः सुखदुःखतां कुर्वन्ति सुखदुःखनिमित्तमुपसंपदं प्रतिपद्यन्ते तथा निष्ठिते श्रुतस्कन्धे यः प्रधावितः पुनरपि प्रतच्छिकैः पञ्चात् रुद्धां व्याधातो वाऽशिवादिभिः कारणैरुपजातस्तत्र यदाभाव्यं तद्वक्तव्यमिति द्वारगाथासमासार्थः द्वारगाथासमासार्थः / सांप्रतमेनामेव गाथां विवरीषु प्रथमतो निर्गमनचतुर्भङ्गी माह -