SearchBrowseAboutContactDonate
Page Preview
Page 1027
Loading...
Download File
Download File
Page Text
________________ उवसंपया १०१६-अभिधानराजेन्द्रः - भाग 2 उवसंपया मागताः प्रतीच्छागतास्तानपिब्रूते एष मम स्थाने विज्ञायेत ममेवैत-स्य संप्रति वैनयिकादिकं कर्तव्यमित्यर्थः / अत्रैवाऽर्थे दृष्टान्तमाह। जह राया व कुमार,रजे ठावेउमिच्छए जंतु। भडजोहे वेतितिगं,सेवह तुम्मे कुमारं ति॥ अह यं अतीमहल्लो,तेसिं वित्ती उतेण दावे। सो पुण परिच्छिऊणं,इमेण विहिणा उ ठावे।। यथा राजा यं कुमारं राज्ये स्थापयितुमिच्छति तं प्रति भटान् योधांश्च ब्रूते सांप्रतमयं महान् ततो यूयं सेवध्वममुकं कुमारमिति एवं तानुक्त्वा तेषां वृत्तीस्तेन कुमारेण दापयति येन ते तदनुरक्ता जायन्ते स पुनः कुमारोऽनेन वक्ष्यमाणेन विधिना परीक्ष्य राज्ये स्थाप्यते / तमेव विधिमाह। परमन्न मुंजसुणगा,छडुणदंडेण वारणं वितिए। भुंजइ देइ व तइओ,तस्स उ दाणं न इयरेसिं // राजा बहूनां कुमाराणां मध्ये कतरं कुमारं युवराजं स्थापयामीति विचिन्तयन् परीक्षानिमित्तं तान् सर्वान् कुमारान् शब्दापयित्वा तेषां पृथक पृथक्स्थाले परमान्नं पायसं परिवेषयति परिवेष्यशृङ्खलाबद्धान् शुनकान् व्याघ्रकल्पान् कुमारान् प्रति मोचयति ते च शुनका वेगेन कुमारसमीपमागतास्तत्रैको राजपुत्रः शुनकभयेन पायसं परित्यज्य पलापितः द्वितीयो राजपुत्रो दण्डेन तेषां शुनकानां वारणं करोति भुङ्क्ते चन च किमपि तेभ्यो ददाति तृतीयः पुनः स्वयं भुङ्क्ते शुनकेभ्योऽपिच स्वस्थालात् परस्थालाच ददातितस्यतृतीयस्य राजपुत्रस्य राज्यदानं नेतरयोर्द्वयोः / किं कारणमिति चेदत आह। परबलपेल्लिओ नासति,वितिओ दाणं न देइ उ भडाणं। न वि जुञ्जते ते उ,एए दोवी अणरिहाओ || प्रथमो यदा परबलमागच्छति तदा तेन परवलेन प्रेरितः सन् राज्यमपहाय नश्यति। द्वितीयो न भटानां सुभटानां किमपि ददाति न च ते भटा दानमृते परबले समागते युध्यन्ते ततः समर्थस्यापि परबलेन प्रेरणमत एतौ द्वावपि राज्यस्यानहीं / तइओ रक्खड़ कोसं,देइय भिचाण ते य जुज्झंति। पालेयध्वे अरिहा,रजंतो तस्स तं दिण्णं / / तृतीयः पुनः कुमारः कोशं भाण्डागारं रक्षति भृत्यानां सुभटानां ददाति ततस्ते भृत्याः परबले समागते युध्यन्ते ततः पराभग्नं परबलमपगच्छति तदपगतौ च स्वराज्यसौख्यमतः सपालयितव्ये राज्ये अर्ह इति तद्राज्यं राज्ञा तस्य दत्तं यथा भो लोका एष युवराजो युष्माभिरेव आसेवनीयः।। अभिसित्तो सट्टाणं,अणुजाणे भडादिअहियदाणं च। वीसुम्मि अ आयरिय,गच्छे वितयाणुरूवं तु / / एवं तस्मिन् युवराजे स्थापिते यदा राजा कालगतो भवति तदा ते भटप्रभृतयस्तं युवराज,राजानमभिषिञ्चन्ति अभिषिक्ते सति तस्मिन्सेवका उपस्थाप्य स्वं स्वमायोगस्थानं निवेदयन्ति ततः सोऽभिषिक्तो नवकोराजा यत् यस्य पूर्वमायोगस्थानं तत्तस्मै अनुजानाति अधिकं च तेषां भटादीनां दानं द्विपदादिदानं ददाति / एष दृष्टान्तोऽयमापनयः / विष्वग्भूते शरीरे पृथग्भूते मृत इत्यर्थः। आचार्ये गच्छेऽपि तदनुरूपंतृतीयराज्यार्हकुमारानुरूपमाचार्य स्थापयन्ति / इयमत्र भावना / आचार्येण द्रव्यापदादिषु शिष्याः परीक्षणीयाः / तत्र योऽशक्तिको भीरुः स राजप्रद्वेषादिषु समुत्पन्नेषु गणमपहाय नश्यतीति प्रथमकुमार इव गुरूपदस्यानहः / यः पुनरदाता सोऽदायकत्वेन संग्रहोपग्रही न करिष्यतीत्ययोग्यः / यस्त्वभीरुतया शुनकस्थानीयान्वनीपकान्वारयति दायकत्वेन च संग्रहोपग्रहौ करोति स योग्य इति गणधरपदे स्थापयितव्यः / तस्मिश्च स्थापिते कालेन विष्वग्भूते आचार्ये साधवः कृतप्राञ्जलयस्तमुपतिष्ठन्ते उपस्थाप्य च यो यस्य पूर्वं नियोग आसीत् स तं तस्मै नवकाचार्याय कथयति / एतदेवाह। दुविहेणं संगहेणं,दव्वं संगिण्हए महाभागो। तो विण्णवेति ते वितं चेव य ठाणयं अम्हं।। सोऽभिनवस्थापितो महाभागो गच्छं द्विविधेन संग्रहेण द्रव्यसंग्र-हेण भावसंग्रहेण च तत्र द्रव्यसंग्रहेण वस्त्रपात्रादिना भावसंग्रहेण ज्ञानादिना संगृह्णाति एवं संगृह्णति तस्मिन् ततस्तेऽपि साधवः कृतप्राञ्जलयस्तं विज्ञपयन्ति यथा तदेव स्वं स्वंस्थानमस्माकं प्रयच्छन्त्विति। अथ किं किं तेषां स्थानमिति ततस्थाननिरूप-णार्थमाह। उवगरणवालवुड्डा,खमगगिलाणे य धम्मकहिवादि। गुरूचिंतवायणा पे-सणेसु कितिकम्मकरणा य / / एको ब्रूते अहम् (उपकरणत्ति) उपकरणोत्पादक आसम् अन्योऽहं बालवृद्धानां वैयावृत्यकरोऽपरः क्षपकवैयावृत्यकरोऽन्यो ग्लाने इति ग्लानवैयावृत्यकरः / अपरोधमकथा धर्मकथा-व्यापारनियुक्तः अन्यो वादी परवादिमथने नियुक्तः (गुरुचिंतत्ति) अपरो ब्रूते अहं गुरोर्यत्कर्त्तव्यं तत्र नियुक्तः( वायणत्ति) अपरोऽहं वाचनाचार्यत्वे नियुक्तः / अन्योऽहं प्रेषणेनियुक्तः अपूरो ब्रूते अहं कृतिकर्मकरणे विश्रामणे। एएसुंठाणेसुं,जो आसि समुज्जओ अठविओ वि। ठविओ वियन विसीयइ,स ठाविउमलं खलु परेसिं / / एतेषु खलु उपकरणादिषु कृतकर्मपर्यवसानेषु स्थानेषु यः पूर्वमस्थापितोऽपि गणधरपदे समुद्यत आसीत् स गणधरपदे स्थापितोऽप्येतेषु स्थानेषुन विषीदति कृतकरणत्वात्स इत्थंभूत एतेषु स्थानेषुपरान् गाथायां षष्ठी द्वितीयार्थे प्राकृतत्वात् यथा'माषाणामनीयादित्यत्र' स्थापयितुमलम्। एवं ठितो ठवेइ,अप्पाण परस्स गो वि सो गावो। अठितो न ठवेइ परं,न य तं ठवियं चिरं होइ।। एवं पूर्वं गणधरपदे अस्थापित एतेषूपकरणादिस्थानेषु स्थितःसन् आत्मनः परस्य चैतेषु स्थापयति गोवृष इवगाः स्वस्थाने यः पुनः पूर्वमेतेषु स्थानेषु स्थितः स परमुपलक्षणमेतदात्मानं च न स्थापयति स्वयं तत्राव्याप्तत्वात् न च तत्स्थापितं चिरं भवति। कस्मादिति चेदुच्यते। स यदाऽन्यान् उपकरणादिष्वनुद्यच्छतः शिक्षयति यथा सति वले किं यूयं स्वशक्त्या नोद्यच्छथानुद्यच्छन्तो हि वैयावृत्यफलात् भ्रंशथ / तदा ते चिन्तयेयुः यदि वैयावृत्त्यफलमभविष्यत् ततस्त्वमप्येतेषु स्थानेषूदयंस्यथा इति अथवा वैयावृत्त्यफलं श्रद्दधानोऽपि षग्जूडत्वेनैवं मन्येरन् एवं जानन्तो यूयं किं पूर्व नावर्तिध्वमिति। संप्रति गोवृष इव गा इति दृष्टान्तं भावयति। नेह वि सो गोणीउ,जाणइ य उवट्ठकालं / /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy