________________ उवसंपया 1014- अमिधानराजेन्द्रः -- भाग 2 उवसंपया एव अथास्ति स द्विविध इत्वरो वा स्यात् यावत् कथिको वा आगन्तुकोऽप्येवं द्विभेद एव / तत्र यदि द्वावपि यावत्कथिको ततो यो लब्धिमान् स कार्यते इतरस्तूपाध्यायादिभ्यो दीयते / अथ द्वावपि लब्धियुक्तौ ततो वास्तव्य एव कार्यते इतरस्तूपाध्यायादिभ्यो दीयते। अथ नेच्छतिततो वास्तव्य एव प्रीति पुरस्सरंतेभ्यो दीयते आगन्तुकस्तु कार्यते इति / अथ प्राक्तनोऽप्युपाध्यायादिभ्यो नेच्छति तत आगन्तुको विसर्यते एव / अथ वास्तव्यो यावत्कथिक इत्वरसित्वतर इत्यत्राप्येवमेव भेदाः कर्त्तव्या यावदागन्तुको विसृज्यते ततो वास्तव्य उपाध्यायादिभ्यो ऽनिच्छन्नपि प्रीत्या विश्राण्यते यदि सर्वथा नेच्छति ततो विसृज्यते आगन्तुकः / अथ वास्तव्यः खल्वित्वरः आगन्तुकस्तु यावत्कथिकस्ततो वास्तव्योऽवधिकालं यावदुपाध्यायादिभ्यो दीयते शेष पूर्ववत्। अथ द्वावपीत्वरौ तत्राप्येक उपाध्यायादिभ्यो दीयते अन्यस्तु कार्यते शेषं पूर्ववत्।अन्यतमोऽवधिकालं यावध्रियते इत्येवं यथाविधि विभाषा कार्या / उपाध्यायादिभ्य इत्यत्रादिशब्दात् स्थविरग्लानशैक्षकादिपरिग्रहः / उक्ता वैयावृत्त्योपसंपत् संप्रति क्षपणोपसंपत् प्रतिपाद्यते (अविगितॄत्यादि) कश्चित् क्षपणार्थमुपसंपद्यते सच क्षपको द्विधा इत्वरो यावत्कथिकश्च यावत्कथिक उत्वरकाले अनशनकर्ता इतरस्तु द्विधा विकृष्ट क्षपकः खल्वाचार्येण पृच्छयते हा आयुष्मन् ! पारणके त्वं कीदृशो भवसि यद्यसावाह ग्लानोपमस्ततोऽसावभिधातव्योऽलं तव क्षपणेन स्वाध्यायवैयावृत्त्यकरणेनयत्नं कुरु इतरोऽपि पृष्टः सन् एवमेव प्रज्ञाप्यते। अन्ये तुव्याचक्षते विकृष्टक्षपकः पारणककालेग्लान कल्पनामनुभवन्नपि इप्यते एव / यस्तु मासादिक्षपको यावत्कथिको वा स इष्यते एव तत्राप्याचार्येण गच्छः प्रष्टव्यो यश्चायं क्षपक, “उवसंपज्जत्ति", इति अनापृच्छय संगच्छते सामाचारीविराधनां यतस्ते संदिष्टा अपि उपाधिप्रत्युपेक्षणादि तस्य न कुर्वन्ति। अथ पृष्टाब्रुवते यथाऽस्माकमेकः क्षपकोऽस्त्येव तस्य क्षपणपरिसमाप्तावस्य करिष्यामस्ततोऽसौ ध्रियते अथ नेच्छन्ति ततस्त्याज्यते अथ गच्छस्तमप्यनुवर्ततेततोऽसाविप्यत एव तस्य च विधिना प्रतीच्छितस्य उद्वर्तनादि कार्यम् / यदा पुनः प्रमादतोऽनाभोगतो वा न कुर्वन्ति शिष्याः तदा आचार्येण वन्दनीया इत्यलं प्रसङ्गेन। संप्रति चारित्रोपसंपद्विधिविशेषप्रतिपादनर्थमाह! उवसंपन्नो जं कारणं, तु तं कारणं अपूरंतो। अहवा समाणियम्मि, सारणया वा विसग्गो वा।। यत्कारणं यन्निमित्तमुपसंपन्नस्तुशब्दादन्यत्वसामाचार्यन्तर्गतं किमपि गृहीतं तत्कारणं वैयावृत्त्यादि अपूरयन् अकुर्वन् यदा वर्तते इत्यध्याहारस्तदा किमित्याह (सारणया वा विसग्गो वा इति तदाऽस्य सारणा चोदनं क्रियते अविनीतस्य पुनर्विसो वा परित्यागः क्रियते। तथा नापूरयन्नैव यदा वर्तते तदा सारणा वा विसर्गोवा किं तु (अहवा समाणियम्मित्ति) अथवा समानीते परिसमाप्ति नीते अभ्युपगतप्रयोजने सारणा च क्रियते यथा परिसमाप्तम्। ततो यदि ऊर्द्धमपि इच्छति ततो भवति अथनेच्छति सोऽवस्थातुंततोविसर्गो वेति उक्ता चारित्रोपसंपत्। संप्रति गृहस्थोपसंपदुच्यते तत्रेयं साधूनां सामाचारी सर्वत्रैव साध्वादिषु वृक्षाद्यधोऽप्यनुज्ञाप्य स्थातव्यं यत आह! इत्तरियं पिन कप्पइ, अविदिन्नं खलु परोग्गहाईसु। चिट्ठितु निसीयइत्तुं व, तइयव्वयरक्खणट्ठाए। इत्वरमपि खल्यमपि कालमिति गम्यते न कल्पते अविदत्तं खलु पराक्ग्रहादिषु आदिशब्दः परावग्रहोऽनेकभेदप्रख्यापकः किंन कल्पते इत्याह स्थातुं कायोत्सर्ग कर्तुं निसत्तमुपवेष्टुं किमित्यत आह (तइव्वयरक्खणट्ठाए) अदत्तादानविरत्याख्य तृतीयव्रतरक्षणार्थ तस्मात् भिक्षाटनादावपि व्याघातसंभवे क्वचित् स्थातुं शक्यमनुज्ञाप्य स्वामिनं विधिना स्थातव्यम्। अटव्यादिष्वपि विश्रमितुकामेन पूर्वस्थितमनुज्ञाप्य स्थातव्यं तदभावे देवतां यस्याः सोऽवग्रह इति / आ० म० द्वि०ा आ० चू०॥ पंचा० (अत्रालोचना आलोयणा शब्दे)। (2) आचार्यादौ मृतेऽन्यत्रोपसंपत्। गामाणुगाम दुइज्जमाणे भिक्खू जं पुरओ कट्ट विहेरेज्जा से आहब विसंमेज्जा अत्थिया इत्थ केइ उवसंपज्जणारिहे कप्पड़ से उवसंपनियवेसिया णत्थि इत्थ केइ अण्णे उवसंपजणारिहे अप्पए असमत्ते कप्पई से एगरायाए पडिमाए जण्णं जण्णं दिसिं अण्णसाहम्मियां विहरंति तण्णं तण्णं दिसं उपलित्तए णो से कप्पइ तत्थ विहारपत्तियं वत्थए कप्पइसे कारणपत्तियं वच्छए तेसिंच णं करणंसि निवियंसिय रोवइज्जा वसाहि अजो एगरायं मा दुरायं वा एवं से कप्पइ एगरायं वा दुरायं वा वत्थए णो कप्पइ एगराओ वा दुराओ वा परवत्थए जं तत्थ एगराओ वा दुराओ वा परं वसति सेसंतरा छेए वा परिहारे वा।। ग्रामानुग्रामंग्रामेण(दुइज्जमाणे) गच्छन् एतावता ऋतुबद्धः कालो दर्शितो यं पुरतः कृत्वा प्रभुं कृत्वा इत्यर्थः / स नियमादाचार्य उपाध्यायो वा द्रष्टव्यो विहरतिस आहच कदाचित् भुजेज्जा शरीराद्विष्वग्भवेत्कालगतो भवेत् (अत्थियाइत्थ इत्यादि) अस्ति वाऽत्र समुदायेऽन्यः कश्चित् आचार्यादुपाध्यायाद्वा व्यतिरिक्तो गणी प्रवृर्तकस्थविरो वृषभो वा उपसंपदनास्तित उपसंपत्तव्यः। अथान्यो नास्ति कश्चिदशेषसंपदनाहस्तर्हि स आत्मनः कल्पनासमाप्त इति (से) तस्यकल्पते। एकरात्रिक्या प्रतिमया यत्र वसति तत्रैकरात्राभिग्रहेण (जण्णजण्णमित्यादि) यस्या यस्यां दिशि अन्ये साधर्मिका विहरन्ति तां तां दिशमुपगन्तुं न पुनः (से) तस्य कल्पते तत्रापान्तराले विहारप्रत्ययं वस्तु कल्पते (से) तस्य कारणप्रत्ययं संघातादिकारणनिमित्तं वस्तुम। तस्मिंश्च कारणे निष्ठिते यदि परो वदेत वस आर्य ! एकरात्रं द्विरात्रं वा एवं (से) तस्य कल्पते एकरात्रं वा द्विरात्रं वा वाशब्दात्रिरात्रं वा वस्तु न (से) तस्य कल्पते एकरात्राद् द्विरात्राद्वा परं वस्तुम् यस्तत्र एकरात्रात् द्विरात्राद्वा परं वसति तत्र (से) तस्य स्वकृतादन्तराच्छेदः परिहारो वेति / अधुना नियुक्तिविस्तरः। अत्रोपसंपदनाह इत्युक्तं सा चोपसंपद द्विधा लौकिकी लोकोत्तरिकी च ते आह। लोगे य उत्तरम्मिय, उवसंपयलोगिगी उरायाई। राया वि होइ दुविहो, सावेक्खो चेव निरवेक्खो। उपसंपद् द्विधा लोके लोकोत्तरे च / तत्र लौकि की राजादौ आदिशब्दात् युवराजादिपरिग्रहः / तथा च यदा राजा मृतो भवति तदा युवराजमुपसंपद्यन्ते तं राजानं स्थापयन्तीत्यर्थः / युवराजोऽन्यः स्थाप्यते स च राजा भवति / द्विविधः सापेक्षो निरपेक्षश्च / सहापेक्षया सापेक्षस्तद्विपरीतो निरक्षेपः / तथा च