SearchBrowseAboutContactDonate
Page Preview
Page 926
Loading...
Download File
Download File
Page Text
________________ अमावसा 742 - अभिधानराजेन्द्रः - भाग 1 अमावसा (चेत्तीति ण्णिा तंजहा- उत्तरभद्दवया, रेखई, अस्सिणीयत्ति) अत्राऽप्येवं सूत्रालापकः-"ता चित्तीणं अमावासंकइनक्खत्ता जोएंति? ता तिण्णि नक्खत्ता जोएंति / तं जहा- उत्तरभद्दवया, रेवई, अस्सिणी यत्ति"। एतदपि व्यवहारनयमतेन,निश्चयनयमतेन पुनरमूनि त्रीणि नक्षत्राणि चैत्रीममावास्यां समापयन्ति। तद्यथा-पूर्वभाद्रपदा, उत्तरभाद्रपदा, रेवती च। तत्र प्रथमां चैत्रीममा-वास्यामुत्तरभाद्रपदानक्षत्रं सप्तत्रिंशन्मुहूर्तेषु, एकस्य च मुहूर्तस्य षट्त्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य दशसु सप्तषष्टिभागेषु, 37136 / 10 / द्वितीयां चैत्रीमभावास्यामुत्तरभाद्रपदानक्षत्रमेकादशसुमुहूर्तेषु, एकस्यचमुहूर्तस्य नवसुद्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रयोविंशतौ सप्तषष्टि-भागेषु 11 / 6 / 23 / तृतीयां चैत्रीभमावास्यां रेवती नक्षत्रं पञ्चसु मुहूर्तेषु, एकस्य च मुहूर्तस्य एकोनपञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य सप्तत्रिंशति सप्तषष्टिभागेषु 5 / 46 / 37, चतुर्थी चैत्रीममावास्यामुत्तरभाद्रपदनक्षत्रं चतुर्विंशतौ मूहूर्तेषु, एकस्य च मुहूर्तस्य द्वाविंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पञ्चाशति सप्तषष्टिभागेषु 24 / 22 / 50 / पञ्चमी चैत्रीममावास्यां पूर्व-भाद्रपदानक्षत्रं सप्तविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य सप्तपञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रिषष्टौ सप्तषष्टिभागेषु 27 / 57 / 63 अतिक्रान्तेषु परिसमापयन्ति। (विसाहिं भरणी कत्तिया इति) अत्राऽप्येवं सूत्रपाठः- "ता विसाहिंणं अमावासं कइ नक्खत्ता जोएंति ? तो दोण्णि नक्खत्ता जोएंति / तं जहा-भरणी, कत्तियाय" इति। एतच व्यवहारतः, निश्चयतः पुनस्त्रीणि नक्षत्राणि वैशाखीममावास्यां परिसमापयन्ति।तानि चाऽमूनि। तद्यथारेवती, अश्विनी, भरणी च / तत्र प्रथमां वैशखीममावास्यामश्विनी नक्षत्रमष्टाविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य चत्वारिंशतिद्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य एकादशसु सप्तषष्टिभागेषु 28140 / 11 / द्वितीयां वैशाखीममावा-स्यामश्विनी नक्षत्रं द्वयोमुहूर्तयोरेकस्य च मुहूर्तस्य एकोनचत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रयोविंशतौ सप्तषष्टिभागेषु 2 / 36 / 23 / तृतीयां वैशाखी ममावास्यां भरणीनक्षत्रमेकादशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य चतुष्पञ्चाशत् द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य अष्टत्रिंशति सप्तषष्टिभागेषु 115438 गतेषु / चतुर्थी वैशाखी-ममावास्यामश्विनीनक्षत्रं पञ्चदशमुहूर्तेषु, एकस्य च मुहूर्तस्य सप्तविंशतौ द्वाषष्टिभागेषु, एकस्यच द्वाषष्टिभागस्य एक पञ्चाशति सप्तषष्टिभागेषु 15 / 27151 / पञ्चमी वैशाखी-ममावास्यां रेवती नक्षत्रमेकोनविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य संबन्धिनो द्वाषष्टिभागस्य सत्केषु चतुष्षष्टौ सप्तषष्टिभागेषु 160 / 64 परिणमयति। (जेट्टामूली रोहिणी मिगसिरं चेति) अत्राऽप्येवं सूत्रालापकः - ता जेट्टामूलिं णं अमावासं कइ नक्खत्ता जोएंति ? ता दोणि नक्खत्ता जोएंतितं जहा- रोहिणी, मिगसिरंच। एतदपि व्यवहारतः, निश्चयतः पुनरिमे द्वेनक्षत्रे ज्येष्ठामूलीममावास्यां परिसमापयतः। तद्यथा- रोहिणी, कृत्तिका च / तत्र प्रथमां ज्येष्ठा-मूलीममावास्यां रोहिणी नक्षत्रमेकोनविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य षट्चत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य द्वादशसु सप्तषष्टिभागेषु / 1646 / 12 गतेषु / द्वितीयां ज्येष्ठामूलीममावास्यां कृत्तिका नक्षत्रं त्रयोविंशतौ मुहूर्तेषु, एकस्यचमुहूर्तस्यैकोनविंशतौ द्वाषष्टिभागेषु, एकस्य चद्वाषष्टिभागस्य पञ्चविंशतौ सप्तषष्टिभागेषु 23 / 16 / 25 अतिक्रान्तेषु। तृतीयां ज्येष्ठामूलीममावास्यां रोहिणी नक्षत्रं द्वात्रिंशति मुहूर्तेषु, एकस्य च मुहूर्तस्यैकोनषष्टौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकोनचत्वारिंशति सप्तषष्टिभागेषु 325636 // चतुर्थी ज्येष्ठामूलीममावास्यां रोहिणी नक्षत्रं षट्सु मुहूर्तेषु, एकस्य च मुहूर्तस्य द्वात्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य द्विपञ्चाशति सप्तषष्टिभागेषु 6 / 322521 पञ्चमी ज्येष्ठा-मूलीममावास्यां कृत्तिका नक्षत्रं दशसु मुहूर्तेषु, एकस्यच मुहूर्तस्य पञ्चसुद्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पञ्चषष्टौ सप्तषष्टिभागेषु 10 / 5 / 65 गतेषु परिसमापयति / (ता आसाढी णमित्यादि) ता इति पूर्ववत् / आषाढी, णमिति वाक्यालङ्कारे। कति नक्षत्राणि युञ्जन्ति ? भगवानाह- (ता इत्यादि) ता इति पूर्ववत् / त्रीणि युञ्जन्ति / तद्यथा- आर्द्रा, पुनर्वसु, पुष्यश्च / एतदपि व्यवहारत उक्तम्।परमार्थतः पुनरमूनि त्रीणि नक्षत्राणि आषाढीममावास्यां परिणमयन्ति / तद्यथा- मृगशिरः, आर्द्रा, पुनर्वसुश्च / तत्र प्रथमामाषाढीममावास्यामार्द्रा नक्षत्रं दशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य एकपञ्चाशतिद्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रयोदशसु सप्तषष्टिभागेषु 10 / 51 / 13 / द्वितीयामाषाढीममावास्यां मृगशिरो नक्षत्रं सप्तविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य चतुर्विशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य षड्विंशतौ सप्तषष्टिभागेषु 27 / 24 / 26 / तृतीया-माषाढीममावास्यां पुनर्वसु नक्षत्रं नवसु मुहूर्तेषु, एकस्य च मुहूर्तस्य द्वयोषिष्टिभागयोरकस्य च द्वाषष्टिभागस्य चत्वारिंशति सप्तषष्टिभागेषु रा४०॥ चतुर्थीमाषाढीममावास्यां मृगशिरो नक्षत्रं सप्तविंशतौ मुहूर्तेषु, एकस्य चमुहूर्तस्य सप्त-त्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशति सप्तषष्टिभागेषु 27 / 37 / 53 गतेषु / पञ्चमीमाषाढीममावास्यां पुनर्वसु नक्षत्रं द्वाविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्यय षोडशसुद्वाषष्टिभागेषु 22 / 1610 गतेषु परिसमापयन्ति इति / तदेवं द्वादशानामप्यमावास्यानां चन्द्रयोगोपेतनक्षत्रविधिरुक्तः। चं०प्र० 10 पाहु०। ज्यो०। संप्रत्येतासामेव कुलादियोजनामाह - ता साविट्ठीणं अमावासं किं कुलं जोएंति, उवकुलं जोएति, कुलोवकुलं वा जोएति. पुच्छा? ता कुलं वा जोएति, उवकुलं वाजोएति, णो लभइ कुलोवकुलं। कुलंजोएमाणे महाणक्खत्ते जोएति, उवकुलं जोएमाणे असिलेसा णक्खत्ते जोएति / ता साविट्ठी णं अमावासं कुलं जोएति, उवकुलं वा जोएति / कु लेण वा जुत्ता उवकुलेण वा जुत्ता साविट्ठी अमावासं जुत्त त्ति वत्तट्वं सिया, एवं णेयव्वं / मग्गसिरीए 1 माहीए 2 फग्गुणीए 3 आसाढीए 4 कुलोवकुलं भाणियव्वं / सेसाणं कुलोवकुला त्थि। जाव कुलोदकुलेण वा जुत्ता आसाढी अमावासं जुत्त त्ति वत्तव्वं सिया। (ता साविट्ठी णमित्यादि) ता इति पूर्ववत् / श्राविष्ठी श्रावण मासभाविनीममावास्यां किं कुलं युनक्ति ? उपकुलं युनक्ति ? कुलोपकुलं वा युनक्ति ? भगवानाह- (ता कुलं वा० इत्यादि)
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy