________________ अभिहड 731 - अभिधानराजेन्द्रः - भाग 1 अभिहड नोनिशीथाऽभ्याहृतं द्विविधम्। तद्यथा- स्वग्रामे स्वग्रामविषयं, परनामे परग्रामविषयम् / तत्र यस्मिन् ग्रामे साधुर्निवसति स किल स्वग्रामः / शेषस्तु परग्रामः। तत्र परग्रामे परग्रामविषयमभ्याहृतं द्विविधम्। तद्यथास्वदेशं परदेशं च / स्वदेशं स्वग्रामाऽभ्याहृतं, परदेशं परग्रामाऽभ्याहृतं चेति / तत्र स्वदेशो यत्र देशमण्डले साधुर्वर्तते, शेषस्तु परदेशः / एतद् द्विविधमपि प्रत्येक द्विधा / तद्यथा- (जलथल त्ति) सूचनात् सूत्रमिति कृत्वा जलपथेनाऽभ्याहृतं, स्थलपथेनाऽभ्याहृतं च / तत्र जलपथेनाऽभ्याहृतं द्विधा- नावा, उडुपेन च / उपलक्षणमेतत् / तेन स्तोकजल-संभावनायां जडाभ्यामति / तत्र नौस्तारिका, उडुपं तरणकाष्ठम् / तुम्बकादि वोडु पग्रहणेन गृहीतं द्रष्टव्यम् / स्थलपथेनाऽप्यभ्याहृतं द्विधा / तद्यथा- जङ्घया, पद्भ्याम् / उपलक्षणमेतत् / तेन गन्त्र्यादिना च। तत्राऽमूनेव जलस्थलाभ्याssहृतभेदान् सप्रपञ्चं विभावयन् दोषान् प्रदर्शयति - जंघाबाहतरीए, जले थले खंधअरखुरनिबद्धा। संजमआयविराहण, तहियं पुण संजमे काया। अत्थाह गाहपंका, मगरोहारा जले अवायाओ। कंटाहितेणसावय, थलम्मि एए भवे दोसा / / तत्र जलमार्गे स्तोक संभावनायां जवाभ्याम्, अस्तोकसंभावनायां बाहुभ्याम्, यदि वा तरिकया / उपलक्षणमेतत् / उडुपेन वाऽभ्याहृतं संभवति / स्थलमार्गे तु स्कन्धेन, यद्वा-(अरखुरनिबद्ध त्ति) अत्र तृतीयाऽर्थे प्रथमा। ततोऽयमर्थः - अरक-निबद्धा गन्त्री, तया / खुरनिबद्धा रासभबलीवादयः, तैः / अत्र च दोषः संयमविराधना, आत्मविराधना च / तत्र संयमाऽऽत्मविराधना मध्ये संयमविषया विराधना जलमार्गे स्थलमार्गे च, काया अप्कायादयो विराध्यमाना द्रष्टव्याः।जलमार्गे आत्मविराधनामाह-(अत्थाहेत्यादि) अत्र प्राकृतत्वात् क्वचित् विभक्तिलोपः, क्वचित् विभक्तिविपरणिामश्च / ततोऽयमर्थः- अस्ताधे पादादिभिर-लभ्यमानेऽधोभूभागे अधोनिमज्जनलक्षणोऽपायो भवति / तथा ग्राहेभ्यो जलचरविशेषेभ्यः, यद्वा पङ्कतः कर्दमरूपात्, अथवा मकरेभ्यः, यद्वा-(उहारे त्ति) कच्छपेभ्यः / उपलक्षणमेतत्-अन्येभ्यश्च पादबन्धकजन्त्वादिभ्योऽपाया विनाशादयो दोषाः संभवन्ति / स्थलमार्गे आत्मविराधनामाह(कंटेत्यादि) कण्टकेभ्यो, यदि वा अहिभ्यो, यता स्तेनेभ्यः, अथवा श्वापदेभ्यः। उपलक्षणमेतत्- ज्वराद्युत्पादकपरि-श्रमेभ्यश्च स्थले स्थलमार्ग, एतेऽपायरूपा दोषाः प्रतिपत्तव्याः / उक्तमनाचीर्ण परग्रामाऽभ्याहृतं नोनिशीथम्। संप्रति तदेव स्वग्रामाऽभ्याहृतं नोनिशीथं गाथाद्वयेनाऽऽह सग्गामे वि य दुविहं, घरंतरं नोघरंतरं चेव / तिघरंतरा परेणं, घरतरं तत्तु नायव्वं // नोघरतरऽणेगविहं, वाडगसाहीनिवेसणगिहेसु / कापोयखंधमिम्मय-कंसेण व तं तु आणेज्जा / / स्वग्रामविषयमप्यभ्याहृतं द्विविधम् / तद्यथा- गृहान्तरं, नोगृहान्तरं च / तत्र त्रिगृहान्तरात् परेण, त्रीणि गृहाण्यन्तरं कृत्वा परतो यदानीतं तद् गृहाऽन्तरम्। एवं च सति किमुक्तं भवति ? यद् गृहत्रयमध्यादानीयते, उपयोगश्च तत्र संभवति, तद् आचीर्णमवसेयम्। नोगृहान्तरमेनकविधम्, तच वाटकादिविषयम्। तत्र वाटकः प्रतिच्छन्नः प्रतिनियतः सन्निवेशः। साही-वर्तनी, सैवैका अपान्तराले विद्यते, न तु गृहान्तरमित्यर्थः / निवेशनम्- एकनिष्क्रिमप्रवेशानि व्यादिगृहाणि / गृहकेवलं मन्दिरम् / एतच सकलमपि वाटकादिविषयमनाचीर्णमनुपयोगसंभवे वेदितव्यम्। तदपि च गृहाऽन्तराऽऽख्यंच नोनिशीथं स्वग्रामाऽभ्याहृतं प्रतिलाभयितुमीप्सितस्य साधोरुपाश्रयमानयेत् / कापोत्या यदि वा स्कन्धेन / उपलक्षणमेतत्-तेन करादिना च, यदि वा मृन्मयेन भाजनेन, यद्वा कांस्येन / संप्रति अस्यैव स्वग्रामविषयिणो नोनिशीथाऽभ्याहृतस्य संभवमाह - सुन्नं च असइकालो, पगयं च पहेणगं च पासुत्ता। इय एइ काय घेत्तुं, दीवेइ य कारणं तं तु // इह साधुभिक्षामटन् क्वापि गृहे प्रविष्टः, परं तत्तदानीं शून्य बहिर्निर्गतमानुषमासीत् / यद्वा- अद्याऽपि तत्र राध्यते, इत्यसन् अविद्यमानो भिक्षाकालः / यदि वा तत्र प्रकृतं गौरर्वाऽहस्वजनभोजनादिकं वर्तते, ततो न तदानीं साधवे भिक्षा दातुं प्रपारिता, यदि वा विहृत्य साधोर्गतस्य पश्चात् प्रहेणकं लहेणकमागतं, तच्चोत्कृष्टत्वात् किल साधवे दातव्यम्। अथवा तदा श्राद्धिका प्रसुप्ता शयिता आसीत्, ततः साधवे भिक्षानदत्ता / इति एतैः कारणैः, काचित् श्राद्धिका तद्गृहाद् गृहीत्वा साधोरुपा-श्रयमानयेत्, तच्चाऽऽनयनस्य कारणं 'तदा शून्यं गृहमासीत्' इत्यादिरूपं दीपयति प्रकाशयति / तत् एवं नोनिशीथस्व ग्रामाऽभ्याहृतसंभवः। तदेवमुक्तं स्वग्रामपरग्रामभेदभिन्नं नोनिशीथाsभ्याहृतम् / अथ स्वग्रामपरग्रामभेदभिन्नमेव निशीथाऽभ्याहृतमति देशेनाऽऽह - एसेव कमो नियमा, निसीहममिहडे वि होइ णायव्वो। अविइयदायगमावं, निसीहअमिहडं तुनायव्वं / / य एव क्रमः स्वग्रामपरग्रामादिको नोनिशीथाऽभ्याहृते उक्तः, स एव निशीथाऽभ्याहृते नियमाद् ज्ञातव्यः / संप्रति निशीथाऽभ्याहृतस्वरूपं कथयति- "अविइय" इत्यादितः। यतिना न विज्ञातो दायकस्याऽभ्याहृतदानपरिणामो यत्र, तेन अविदित-दायकभावं निशीथाऽभ्याहृतमवगन्तव्यम् / किमुक्तं भवति ? सर्वथा साधुना अभ्याहृतत्वेन यद् अपरिज्ञातं तन्निशीथाऽभ्याहृतमिति परग्रामाऽभ्याहृत उक्तः। स एव निशीथस्याऽभिहडो गाथाचतुष्टयेनोच्यते - अइदूर जलंतरिया, कम्मासंकाए न पेच्छंति। आणे ति संखडीओ, सड्डा सड्डी व पच्छन्नं। निग्गम देउल दाणं, दियाए सन्नाइनिग्गए दाणं। सिट्टम्मि सेसगमणं, दितऽन्ने वारयंतऽन्ने। मुंजण अजीरपुव्व-गाइ अच्छंति भुत्तसेसं वा / / आगम निसीहिगाई,न मुंजई सावगासंका। उक्खित्तं निक्खित्तं, आसगयं मल्लगम्मि पासगए। खामित्तु गया सड्ढा, ते विय सुद्धा असढभावा / / क्वचित् ग्रामे धनावहप्रमुखा बहवः श्रावकाः,धनवतीप्रभृतयश्च श्राविकाः, एते चाऽप्येक कुटुम्बवर्तिनः। अन्यदा तेषामावसथे विवाहः समजनि, वृत्ते च तस्मिन् प्रचुरमोदकाद्युद्वरितम्, ततस्तै रचिन्ति- यथैतत् साधुभ्यो दीयतां, येन महत् पुण्य