SearchBrowseAboutContactDonate
Page Preview
Page 900
Loading...
Download File
Download File
Page Text
________________ अभिणिसज्जा 716- अभियानराजेन्द्रः-भाग 1 अभिणिसजा एक्को व दुवे होज्जा, बहुया उ कहं समावन्ना / / पूर्वस्मिन् कल्पे नाम्नि अध्ययने भिक्षुरप्रमत्तो भदन्तैः परमकल्याणयोगिभिरुपवर्णितः, ततः कथं परिहारतपःप्रायश्चित्ताऽऽपत्तिर्यतः पारिहारिका भवेयुः ? अपि च- एको द्वौ वा पारिहारतप आपद्येयाताम्, एकस्य एकाकिदोषाणां द्वयोरसमाप्तकल्पदोषाणां संभवात्। ये च बहवस्तेच समाप्तकल्पकल्पत्वात्परस्परं रक्षणपरायणाः कथं पारिहारिकत्वं समापन्ना इति? अत्राऽऽचार्य आह - चोयग ! बहुउप्पत्ती, जोहा व जहा तहा समणजोहा। दव्वच्छलणे जोहा, भावच्छलणे समणजोहा॥ हे चोदक ! परीषहाणामसहनेन श्रोत्रेन्द्रियादिविषयेष्विष्टाऽनिष्टषु रागद्वेषाभिगमनेन परिहारतपःप्रायाश्चित्तस्थानाऽऽपत्त्या बहूनां पारिहारिकाणामुत्पत्तिर्न विरुद्धा / अथवा- यथा योधाः सन्नद्धबद्धकवचा अपि रणे प्रविष्टाः प्रतिपन्थिपुरुषैस्तथाविधं कमप्यवसरमवाप्य देशतः, सर्वतो वा छल्यन्ते, तथा श्रमणयोधा अपि मूलगुणोत्तरगुणेष्वत्यन्तमप्रमत्ततया यतमाना अपिछलना-माप्नुवन्ति। सा च छलना द्विधाद्रव्यतो, भावतश्च / द्रव्यत-श्छलना खड्गादिभिः | भावतः परीषहोपसर्गाद्यैः / तत्र द्रव्यच्छलने द्रव्यतश्छलनविषयाः, योधा रणे प्रविष्टा भटाः, भावच्छलने भावच्छलनविषयाः श्रमणयोधाः / सम्प्रति यदुक्तं- यथा योधास्तथा श्रमणयोधा इति, तद्व्याख्यानयति - आवरिया वि रणमुहे, जहा छलिजंति अप्पमत्ता वि। छलणा वि होइ दुविहा, जीवंतकरी य इयरी य॥ व्यथा योधा आवृता अपि सन्नद्धसन्नाहा अपि अप्रमत्ता अपि च रणमुखे प्रविष्टाः प्रतिभटैश्छल्यन्ते। सा च छलना द्विधा-जीविताऽन्तकरी, इतरा च / तत्र यया जीवताद् व्यपरोप्यते, सा जीवताऽन्तकरी, यया तु परितापनाऽऽद्यापद्यते नाऽपद्रावणं, सा इतरा। मूलगुणउत्तरगुणे, जयमाणा विहु तहा छलिअंति। भावच्छलणा य पुणो, सा वि य देसे य सव्वे य॥ तथा यतयो रागादिप्रतिपक्षभावनासन्नाहसन्नद्धा यथाऽऽगमं मूलगुणेषूत्तरगुणेषु चाऽत्यप्रमत्ततया यतमाना अपि 'हु' निश्चितं, भावच्छलनया परीषहोपसर्गादिभिः सन्मार्गच्यावनरूपया छल्यन्ते। साऽपि च भावच्छलना द्विधा- देशतः, सर्वतश्च / तत्र यया तपोऽहं प्रायश्चित्तमापद्यते, सा देशतो भावच्छलना। यया मूलमाप्नोति, सासर्वतः। एवं परिहारीया-ऽपरिहारीया व होज्ज बहुया तो। ते एगंत निसीहिय-मभिसिजं वा विचेएज्जा।। यतो रणे प्रविष्टा योधा इव श्रमणयोधा अपिपरीषहादिभि-श्छल्यन्ते, तत एवमुक्तेन प्रकारेण, बहवः पारिहारिका अपारि-हारिकाश्च भवेयुः। तदेवं पारिहारिकापारिहारिकबहुत्व-मुपपाद्याऽधुना सूत्राऽवयवान् ध्याचिख्यासुराह- (ते एगंत० इत्यादि) ते बहवः पारिहारिका अपारिहारिका वा एकान्तत एकान्ते विविक्ते प्रदेशे प्रत्यासन्ने दूरतरे वा नषेधिकीमभिशय्यां वाऽपि अभिनिषद्यामपि चेतयेयुर्गच्छे युः, गन्तुमिच्छेयुरित्यर्थः / तत्र का नैषेधिकी? का वा अभिशय्या ? इति व्याख्यानयात ठाणं निसीहिय त्ति य, एग8 जत्थ ठाणमेवेगं। चेतें ति निसि दिया वा, सुत्तत्थ निसीहिया साउ॥ सज्झायं काऊणं, निसीहिया तो निसिं चिय उवेंति। अभिवसिउं जत्थ निसिं, उति पातो तई सेज्जा। तिष्ठन्ति स्वाध्यायव्यापृताः अस्मिन्निति स्थानम् / निषेधेन स्वाध्यायव्यतिरिक्तशेषव्यापारप्रतिषेधेन निर्वृत्ता नैषेधिकी। ततः स्थानमिति वा, नैषेधिकीति वा (एगट्ठमिति) एकार्थम्, द्वावप्येतौ तुल्यार्थाविति भावः। व्युत्पत्त्यर्थस्यद्वयोरप्यविशिष्टत्वात्। यत्र स्थानमेव स्वाध्यायनिमित्तमेकं, न तु ऊर्ध्वस्थानं अवाग्वर्तन-स्थानं वा चेतयन्ति / निशि रात्रौ दिवा वा सा सूत्राऽर्थहेतुभूता नैषेधिकी। एतेनाऽस्मिन् या नैषेधिक्युक्ता, सा सूत्राऽर्थप्रायोग्या नैषेधिकी प्रतिपत्तव्या, न तु कालकरणप्रायोग्या नैषेधिकी प्रतिपत्तव्या। किमुक्त भवति? यस्यां नैषेधिक्यां दिवा स्वाध्यायं कृत्वा दिवैव, यदि वा निशि च स्वाध्यायं कृत्वा निश्येव निशायामवश्यं नैषेधिकी वसतिमुपयन्ति, सा अभिनषेधिकी / यस्यां पुनर्नैषधिक्यां दिवा निशायां वा स्वाध्यायं कृत्वा रात्रिमुषित्वा प्रातर्वसतिमुपयन्ति / (तई इति) तका अभिशय्या अभिनिषद्येति भावः। अथ स्थविरा आपृष्टा अपि यदा न ब्रुवन्ति, तदा किं कल्पते ? न वा ? इत्याशङ्कायामाह- (थेरा एहमित्यादि) स्थविरा आचार्यादयः, चशब्दो वाक्यभेदे, एहमिति वाक्यालङ्कारे, स तेषां पारिहारिकाणामपारिहारिकाणां वा वितरेयुरनुजानीयुरभिनैषेधिकीमभिशय्यां वागन्तुं, एवममुना प्रकारेण, एहमिति पूर्ववत्, कल्पते अभिशय्यायामभिनषेधिक्यां वा (चतेतए इति) गन्तुम् / (थेरा एहमित्यादि) स्थविराः, हमिति प्राग्वत्। नो नैव, तेषां वितरेयुरेवममुना प्रकारेण नो कल्पते, एकान्ततोऽभिनिषद्या-मभिनषेधिकी वा गन्तुम। (जे णमित्यादि) यः पुनर्णमिति वाक्याऽलङ्कृती, स्थविरैरवितीर्णोऽननुज्ञातः सन्एकान्ततो अभिनिषद्यामभिनषेधिकी वा (चेतेइ) गच्छति, ततः (से)तस्य स्वाऽन्तरात्स्वकृतमन्तरं स्वाऽन्तरंतस्मात्, यावत्न मिलति यावद्वा स्वाध्यायभूमेर्नोत्तिष्ठति तावद् यद् विचालं तत् अन्तरं तस्मात् स्वकृतादन्तरात् छेदो वा पञ्चरात्रिन्दिवादिकः, परिहारो वा परिहारतपो वा मासलघुकादिः / एष सूत्राऽर्थः / अधुना नियुक्तिविस्तरःनिकारणम्मि गुरुगा, कज्जे लहुया अपुच्छणे लहुओ। पडिसेहम्मि य लहुया, गुरुगमणे होतऽणुग्घाया। यदि निष्कारणे कारणाऽभावे अभिशय्यामभिनषेधिकीं वा गच्छन्ति, ततस्तेषां प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः / अथ कार्ये समुत्पन्ने गच्छन्ति, तत्र प्रायश्चित्तं लघुकाश्चत्वारो लघुमासाः / कार्यमुपरिष्टाद् वर्णयिष्यते।यदिपुनः कार्ये समुत्पन्ने अनापृच्छ्यगच्छन्ति, तदा अपृच्छने लघुको मासलघुः। पृच्छायामपि कृतायां यदि स्थविरैः प्रतिषेधे गच्छन्ति ततो लघुकाश्चत्वारोलघुमासाः।(गुरुगमणे इत्यादि) गुरुराचार्यः सयदि गच्छत्यभिशय्याममिनैषेधिकी वा ततस्तस्य, भवन्ति अनुद्घातगुरुकाश्वत्वारो गुरुमासाः। ये पुनर्वसतिपालाः समर्था भिक्षवस्ते यदीच्छन्ति, ततस्तेषामिमे दोषाः तेणाऽऽदेसगिलाणे, कामणइत्थीनपुंसमुच्छा वा। जगत्तमदासाहवातिएउक्तहरिए।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy