SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ अब्भुगय 693 - अभिधानराजेन्द्रः - भाग 1 अब्भुट्ठाण अन्नग्गय-त्रि० (अभ्युद्गत) अभिमुखमुद्गतोऽभ्युद्गतः / उत्पाटिते, औ०। आभिमुख्येन सर्वतो विनिर्गत, चं० प्र०१८ पाहु०। अड्कुरवदुत्पन्ने वर्द्धितुं प्रवृत्ते, उन्नते च / ज्ञा० 1 अ० ज०। विपा० / अग्रिमभागे / मनागुन्नते, रा०ा जं०।अभ्युत्कटे, रा०ाजी०। भूद्वयमध्यतो विनिर्गत, जं०२ वक्ष०ा अतिरमणीयतया द्रष्ट्रणां प्रत्यभिमुखमुत्प्राबल्येन स्थिते, रा०॥"अब्भुग्गयमउल-मल्लियाविमलधवलदंतं" अभ्युद्गतमुकुला आयतकुड्मला ये मल्लिकाविचकिलास्तद्वद् विमलौ दन्तौ यस्या अथवा प्राकृत-त्वात् मल्लिकामुकुलवदभ्युद्गतावुन्नतौ विमलधवलदन्तौ यस्य तदभ्युद्गतमुकुलमल्लिकाविमलधवलदन्तम् (हस्तिनम्) / उपा०२ अ०।"अब्भुग्गयमउलमल्लियाधवलसरिससंठाणं' अभ्युद्गतान्युनतानि मुकुलमल्लिकेय कोरकावस्थविचकिल-कुसुमवद्धवलानि तथा सदृशं समं संस्थानं येषां तानि / जं०७ वक्ष० ।"अब्भुग्गयसुकयवइश्वेइयतोरणवररइयलीलट्ठिय-सालिभंजियागं" अभ्युद्गते उच्छ्रिते सुकृतवज़वेदिकायाः सम्बन्धिनि तोरणवरे रचिता लीलास्थिताः शालभञ्जिका यस्यां सा तथा, ताम् / (शिबिकाम्) भ०६ श०३३ उ० / आ० म०। ज्ञा० / रा० / अड्कुरवदुत्पन्ने च, ज्ञा०१ अ०॥ *अभ्रोद्रत-त्रि०। उन्चे, भ० 12 श०५ उ०। अब्भुग्गयभिंगार-(अभ्युद्तभृङ्गार) अभ्युद्गतोऽभिमुखमुद्रत उत्पाटितो भृङ्गारो यस्य स तथा। तथाभूते महाभागे, औ० / भ० / दशा०। अब्भुग्गयमुसिय-(त्रि०) अभ्यु(भ्रो)द्रतोच्छ्रित अभ्युद्गतश्वासावुच्छ्रितश्चेत्यभ्युद्तोच्छ्रितः / अत्यर्थमुचे, भ० / "अब्भुग्गयमुसियपहसिया'' अभ्युद्गतमभ्रोद्गतं वा यथा भवत्येवमुच्छ्रितश्चेत्यभ्युद्गतोच्छ्रितः / अत्यर्थमुच इत्यर्थः / प्रथमैकवचनलोपश्चात्र दृश्यः। तथा प्रहसित इव प्रभापटलपरिगततया प्रहसितः। प्रभया वा सितः शुक्लः, संबद्धो वा प्रभासित इति। भ०२ श०८ उ०। स०।०। जी०। अब्भुजय-त्रि० (अभ्युद्यत) वर्द्धितुं प्रवृत्ते, "अन्भुग्गएसु अब्भुज्जएसु अब्भुट्टिएसु" (मेघेषु) ज्ञा० 1 अ० / सोद्यमे, ज्ञा० 5 अ० / उद्यतविहारिणि, व्य०४ उ०1"अब्भुजयं दुविधं अब्भुज्जयमरणेण, अब्भुजयविहारेण वा" / नि० चू०१६ उ०। अभ्युद्यतविहारमरणयोः स्वरूपमाहजिण-सुद्ध-जहालंदे, तिविहो अब्भुज्जओ अह विहारो। अब्भुज्जयमरणं पुण, पाउवगमणिंगिणिपरिना।। जिनकल्पः, शुद्धपरिहारकल्पो, यथालन्दकल्पश्चेति त्रिविधोऽभ्युद्यतः; अथैष विहारो मन्तव्यः / अभ्युद्यतमरणं पुनस्त्रिविधम्पादपोपगमनमिङ्गिनीमरणं, परिक्षेति भक्तप्रत्याख्यानम्, बुद्धिश्चा-प्येतेषु अभ्युद्यतरूपतया श्रेयसी। अतः कतरदनयोः प्रतिपत्तव्यम् ? उच्यते - सयमेव आउकालं, नाउं पेछित्तु वा बहु सेसं। सुबहुगुणलाभकंखी, विहारमन्भुजयं भवइ / / स्वयमेवायुःकालं सातिशयश्रुतोपयोगाद् बहु दीर्घ शेष-मवशिष्यमाणं ज्ञात्वा दृष्ट्वा वाऽन्यं श्रुताद्यतिशययुक्तमाचार्यं बहु शेषमवबुद्ध्य, ततः / सुबहुगुणलाभकाजी सन् विहारमभ्युद्यतं भवति, प्रतिपद्यत इत्यर्थः / बृ०१ उ०। ('जिणकप्पिय' शब्देऽस्य विधिः) अब्मुज्जयमरण-न०(अभ्युद्यतमरण) अभ्युद्यतस्य मरणे, तन्निषिद्धमिति अनन्तरमुक्तम् / बृ०१ उ०। नि०चू० / पं० भ०। संथा० / (पादपोपगमनादिषुवक्तव्यताऽस्य) अन्भुजयविहार-पुं०(अभ्युद्यतविहार) अभ्युद्यतानां जिनकल्पिकादीनां विहारे,पं०व०४ द्वा०ा बृ०॥ (सच त्रिविधइति अब्भुजय' शब्दे उक्तम्) अन्भुट्ठाण-न०(अभ्युत्थान) आभिमुख्येनोत्थानमुद्गमनमभ्युत्थानम् / ग०२ अधि०। उत्त० तदुचितस्यागतस्य अभिमुखमुत्थाने, पञ्चा०१७ विव० दश०। द्वा०। विनयाहस्य दर्शनादेवाऽऽसनत्यजने, स्था०७ ठा०ा ससंभ्रममासनमोचने, उत्त०३ अाव्या प्रवन एष दर्शनविनयभेद इत्थं समाचरणीयः - अन्मुट्ठाणे लहुगा, पासत्थादन्नतित्थीणं। संजइणीण पुणो तह, संजइवग्गे य गुरुगा उ॥ साधुभिः साधूनामेवाभ्युत्थानं विधेयं, न गृहस्थादीनां, तत्रापि संविनानामेव, न पावस्थादीनाम् / अथ पार्श्वस्थादीनामन्यतीथिकानां गृहिणां वाऽभ्युत्थानं करोति, तदा चत्वारो लघवः / तथा संयत्यादीनामन्यतीर्थिनीनां संयतवर्गस्य अभ्युत्थाने चतुर्गुरवः / अथाऽत्रैव दोषानुपदर्शयतिउद्वेइ इत्थिं जह एस चिंति, धम्मे ठिओ नाम न एस साहू। दक्खिन्नपन्ना वसमेइ चेवं, मिच्छत्तदोसा य कुलिंगिणीसु // संयतं कस्या अपि स्त्रिया अभ्युत्तिष्ठन्तं दृष्ट्वा श्रावका-दिश्चिन्तयेत्यथैष साधुः स्त्रियमायान्तं दृष्ट्वा अभ्युत्तिष्ठति / तथा नामेति संभावनायाम्। संभावयम्यहं नैष सम्यग्धर्मे श्रुतचारित्रात्मके स्थितः, अन्यथा किमेष एनामभ्युत्तिष्ठेत् ? अपि च-एवं स्त्रिया अभ्युत्तिष्ठन् दाक्षिण्यवान् भवति।दाक्षिण्यपण्यत्वेतस्या वशमायत्ततामुपैति। ततश्च ब्रह्मचर्यविराधनादयो दोषाः / यास्तु कुलिङ्गि न्यस्ताः परिवाजिकाप्रभृतयः, तासु अभ्युत्थीयमानासु यथाभद्रकादीनां मिथ्यात्वगमनादयो दोषा भवन्ति। अन्यतीर्थिकषु पुनरिमे दोषाःओभावणा पवयणे, कुतित्थउम्भावणा अबोहीय। खिसिजंतिय तप्प-क्खिएहि गिहिसुव्वया बलियं // . भो भागवत! सौगतादीनामन्यतीर्थिकानामभ्युत्थाने प्रथमचरममहती अपभ्राजना भवति-अहो ! निस्सारं प्रवचनममीषां यदेवमन्यदर्शनिनामभ्युत्थानं विदधाति, तदीयस्य च कुतीर्थस्योद्भावना प्रभावना भवति-एतदेव दर्शनं शोभनतरं, यदेव जैना अप्येतत्प्रतिपन्नानभ्युत्तिष्ठन्तीति। (अबोही यत्ति) प्रवचनलाधवप्रत्यय मिथ्यात्वमोहनीयं कर्मोपचित्य भवोदधौ परिभ्रमन् बोधिलाभ नासादयन्ति / ये च गृहिणः सुव्रताः शोभनाणुव्रतधारकाः, सुश्रावका इत्यर्थः, ते तत्पाक्षिकैः शाक्यादिपक्षपातिभिरुपासकैः, बलिकमत्यर्थ खिंस्यन्तेअस्माकमेव दर्शनं सर्वोत्तम, भवदीयगुरूणामपि गौरवार्हत्वात्।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy