SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ अप्पाबहुय(ग) 667 - अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) भागवर्तिनभःप्रदेशराशिप्रमाणा द्रष्टव्याः / "आणयपाणयमाई पल्लस्साऽसंखभागा उ'' इति वचनात्। केवलमसंख्येयो भागो विचित्र इतिपरस्परं यथोक्तं संख्येयगुणत्वं न विरुध्यते।आनतकल्पदेवपुरुषेभ्यः सहस्रारकल्पवासिदेवपुरुषा असंख्येय-गुणाः, धनीकृतस्य लोकस्य एकप्रादेशिक्याः श्रेणेरसंख्येयतमे भागे यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषाम्, तेभ्योऽपि महाशुक्र कल्पवासिदेवपुरुषा असंख्येयगुणाः, बृहत्तरश्रेण्य-संख्येयभागाकाशप्रदेशराशिप्रमाणत्वात्। कथमेतत् प्रत्येय-मिति चेत् ? उच्यते-विमानबाहुल्यात् / तथाहिषट्सहस्राणि विमानानां सहस्रारकल्पे, चत्वारिंशत्सहस्राणि महाशुक्रे, अन्यचाधो विमान-वासिनो देवा बहुबहुतराः, स्तोकस्तोकतरा उपरितनविमानवासिनः, तत उपपद्यते सहस्रारकल्पदेवपुरुषेभ्यो महाशुक्रकल्पवासिदेवपुरुषा असंख्येयगुणाः, तेभ्योऽपिलान्तककल्पदेवपुरुषा असंख्येयगुणाः, बृहत्तमश्रेण्य संख्येयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात्। तेभ्योऽपि ब्रह्मलोककल्पवासिनो देवपुरुषा असंख्येयगुणाः, भूयोबृहत्तमश्रेण्यसंख्येयभागवांकाशप्रदेशराशिप्रमाणत्वात् / तेभ्योऽपि माहेन्द्रकल्पदेवपुरुषा असंख्येयगुणाः, भूयस्तरबृहत्तमश्रेण्यसंख्येयभागगताकाशप्रदेशमानत्वात्। तेभ्यः सनत्कुमारकल्पदेवा असंख्येयगुणाः, विमानबाहुल्यात् / तथाहिद्वादशशतसहस्राणि सनत्कुमारकल्पे विमानानाम्, अष्टौ शतसहस्राणि माहेन्द्रकल्पे, अन्यच दक्षिणदिग्भागवर्ती सनत्कुमारकल्पो, माहेन्द्रकल्पश्चोत्तरदिग्वर्ती , दक्षिणस्यां च दिशि बहवः समुत्पद्यन्ते कृष्णपाक्षिकाः, तत उपपद्यन्ते माहेन्द्रकल्पात्सनत्कुमारकल्पदेवा असंख्येयगुणाः / एते च सर्वेऽपि सहस्रारकल्पवासिदेवादयः सनत्कुमारकल्पवासि-देवपर्यन्ताः प्रत्येक स्वस्थाने चिन्त्यमानाधनीक तलोकैक-श्रेण्यसंख्येयभागगताकाशप्रदेशराशिप्रमाणा द्रष्टव्याः। केवलं श्रेण्यसंख्येयभागोऽसंख्येयभेदस्तत इत्थमसंख्येयगुणतया अल्पबहुत्वमभिधीयमानं न विरोधभाक् / सनत्कुमारकल्पदेवपुरुषेभ्य ईशानकल्पदेवपुरुषा असंख्येयगुणाः, अङ्गुल-मात्रक्षेत्रप्रदेशराशेः संबन्धिनि द्वितीयवर्गमूले तृतीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्संख्याकासु घनीकृतस्य लोकस्य एकप्रादेशिकीसु श्रेणीषु यावन्तो नभःप्रदेशास्तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात्। तेभ्यः सौधर्मकल्पवासिदेवपुरुषाः संख्येयगुणाः, विमान-बाहुल्यात्। तथाहि- अष्टाविंशतिः शतसहस्राणि विमानानामीशानकल्पे, द्वात्रिंशच्च शतसहस्राणि सौधर्मकल्पे, अपि च दक्षिणदिग्वर्ती सौधर्मकल्पः, ईशानकल्पश्चोत्तरदिग्वर्ती, दक्षिणस्यां च दिशि बहवः कृष्णपाक्षिका उत्पद्यन्ते।तत ईशानकल्पवासिदेवपुरुषेभ्यः सौधर्मकल्पवासिदेवपुरुषाः सङ्घचेयगुणाः। नन्वियं युक्तिः सनत्कुमारमाहेन्द्रकल्पयोरप्युक्ता, परंतत्र माहेन्द्रकल्पापेक्षया सनत्कुमारकल्पदेवा असंख्येयगुणा उक्ताः, इह तु सौधर्मकल्पे संख्ये यगुणाः, तदेतत्कथम् ? उच्यतेतथावस्तुस्वाभाव्यात् / एतचावसीयते प्रज्ञापनादौ, सर्वत्र तथा भणनात्। तेभ्योऽपि भवनवासिदेवपुरुषा असंख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि प्रथमवर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिरुपजायते, तावत्संख्याकासु घनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषुयावन्तो नभः- प्रदेशास्तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात् / तेभ्यो व्यन्तरदेवपुरुषाः संख्येयगुणाः, संख्येययोजनकोटीकोटि प्रमाणैक-प्रादेशिकश्रेणिमात्राणि खण्डानि यावन्त्ये कस्मिन् प्रतरे भवन्ति, तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात् / तेभ्यः संख्येय-गुणा ज्योतिष्का देवपुरुषाः, षट्पञ्चाशदधिकशतद्वयाङ्गुल-प्रमाणैक प्रादेशिक श्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति, तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात् / जी०२ प्रति०। इति चत्वार्यल्पबहुत्वान्युक्तानि। (अत्र टीकाकारस्यान्यादृशः पाठः सम्मत इदानींतनप्रतिषु तु अन्यादृश इति शब्दतो भेद आभाति, अर्थतस्तु न भेदः) सम्प्रतिपञ्चममल्पबहुत्वमाहएतेसिणं भंते! तिरिक्खजोणियपुरिसाणं जलयराणंथलयराणं खहयराणं मणुस्सपुरिसाणं कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं देवपुरिसाणं, भवण-वासीणं, वाणमंतराणं, जोतिसियाणं, वेमाणियाणं, सोधम्माणं० जाव सव्वट्ठसिद्धगाण य कयरे कयरेहिंतो० जाव विसेसाहिया ? गोयमा! सव्वत्थोवा अंतरदीव-गमणुस्सपुरिसा, देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सपुरिसा दो वि सं खिजगुणा, हरिवासरम्मवासअकम्मभूमगमणुस्सपुरिसा दो वि संखे अगुणा, हेमवतहेरण्णवतवास- अकम्मभूमगमणुस्सपुरिसा दो वि संखेज्जगुणा, भरहेरवयवासकम्मभूमगमणुस्सपुरिसा दो वि संखेज्जगुणा, पुव्वविदेहअवरविदेहकम्ममूमगमणुस्सपुरिसा दो विसंखेजगुणा। अणुत्तरोववातिदेवपु रिसा असंखे जगुणा, उवरिमगेवेज्जगदेवपुरिसा संखेजगुणा, मज्झिमगेवेजदेवपुरिसा संखेज्जगुणा, हिद्विमगेवेजदेवपुरिसा संखेज्जगुणा, अचुते कप्पे देवपुरिसा संखेजगुणा, आरणकप्पे देवपुरिसा संखेज्जगुणा, पाणयकप्पे देवपुरिसा संखेज्जगुणा, आणतकप्पे देवपुरिसा संखेजगुणा, सहस्सारकप्पे देवपुरिसा असंखेज्जगुणा, महासुक्ककप्पे देवपुरिसा असंखे-जगुणा० जाव माहिंदे कप्पे देवपुरिसा असंखे जगुणा, सणं कु मारकप्पे देवपुरिसा असंखेजगुणा, ईसाणकप्पे देवपुरिसा असंखेजगुणा, सोधम्मे कप्पे देवपुरिसा संखेनगुणा, भवणवासिदेव-पुरिसा असंखेज्जगुणा, खहयरतिरिक्खजोणियपुरिसा असंखेज्जगुणा, थलयरतिरिक्खजोणियपुरिसा संखेनगुणा, जलयरतिरिक्खजोणियपुरिसा संखेजगुणा, वाणमंतरदेवपुरिसा संखेजगुणा, जोतिसियदेवपुरिसा संखेज्जगुणा। सर्वस्तोका अन्तरद्वीपजमनुष्यपुरुषाः, क्षेत्रस्य स्तोकत्वात् / तेभ्यो देवकुरूत्तरकुरुमनुष्यपुरुषाः संख्येयगुणाः, क्षेत्रस्य बाहुल्यात्। स्वस्थाने तुद्वयेऽपिपरस्परंतुल्याः , तेभ्योऽपिहरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यपुरुषाः संख्येयगुणाः, क्षेत्रस्याति-बहुत्वात्। स्वस्थाने तुद्वयेऽपि परस्पर तुल्याः, क्षेत्रस्य समानत्वात्। तेभ्योऽपि हैमवतहरण्यवताकर्मभूमकमनुष्यपुरुषाः संख्येयगुणाः, क्षेत्रस्याल्पत्वेऽप्यल्पस्थितिकतया प्राचुर्येण लभ्यमानत्वात् / स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy