SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ अप्पाबहुय(ग) ६६३-अभिधानराजेन्द्रः - भाग 1 अप्याबहुय(ग) यावन्ति खण्डानि एकस्मिन् प्रतरे भवन्ति तावत्प्रमाणो ज्योतिष्कदेवदेवी समुदायः, तद्गतकिञ्चिदूनद्वात्रिंशत्तमभागकल्पा ज्योतिष्कदेवाः, ततः कृष्णलेश्येभ्यो वाणमन्तरेभ्यः संख्येयगुणा एव घटन्ते ज्योतिष्कदेवाः, न त्वसंख्येयगुणाः, सूचीरूपखण्डप्रमाणहेतोः संख्येययोजनकोटीकोट्यपेक्षया षट्पञ्चाशदधिकागुलशतद्वयसंख्येयभागमात्रवर्तित्वात्। सम्प्रति भवनवास्यादिदेवदेवीविषयं, तदनन्तरं भवनवास्या-दिदेवदेवी समुदायविषयं सूत्रमाहएतेसि णं मंते ! भवणवासीणं० जाव वेमाणियाणं देवाण य देवीण य कण्हलेस्साणं० जाव सुकलेस्साण य कयरे कयरेहिंतो अप्पा वा०४? गोयमा! सव्वत्थोवा वेमाणिया देवा सुक्कले स्सा, पम्हलेस्सा असंखेनगुणा, तेउलेस्सा असंखेनगुणा, तेउले स्साओ देवीओ वेमाणिणीओ संखेज्जगुणाओ, तेउलेस्सा भवणवासीदेवा असं०, तेउलेस्साओ भवणवासिणीओ संखेज०, काउलेस्सा भवणवासी असं० नीलले स्सा विसे साहिया, कण्हले स्सा विसे साहिया, काउलेस्साओ भवणवासिणीओ संखेज०, नीललेस्साओ विसे-साहियाओ, कण्हलेस्साओ विसेसाहियाओ, तेउलेस्सा वाणमंतरा असं०, तेउलेस्साओ वाणमंतरीओ संखे०, काउलेस्सा वाणमंतरा असं०, नीललेस्सा विसेसाहिया, कण्हलेस्सा विसेसाहिया, काउलेस्साओवाणमंतरीओ संखे०, नीललेस्साओ विसेसाहियाओ, कण्हलेस्सा विसेसाहिया, तेउलेस्सा जोइसिया संखे०, तेउलेस्साओ जोइसिणीओ संखेजगुणाओ। एतच्च सूत्रद्वयमपि प्रागुक्तभावनाऽनुसारेण भावनीयम् / प्रज्ञा० 17 पद / (लेश्यास्थानानामल्पबहुत्वं तु 'लेस्सा' शब्दे वक्ष्यते) (वर्गणाया अल्पबहुत्वं बन्धप्ररूपणावसरे वक्ष्यते) (28) इदानीं वेदद्वारमाहएएसिणं भंते ! जीवाणं सवेदगाणं इत्थीवेदगाणं पुरिसवेदगाणं नपुंसगवेदगाणं अवेदगाण य कयरे कयरेहिंतो अप्पा वा०५? गोयमा ! सव्वत्थोवाजीवा पुरिसवेदगा, इत्थीवेदगा संखेजगुणा, अवेदगा अणंतगुणा, नपुंसगवेदगा अणंतगुणा, सवेदगा विसेसाहिया। सर्वस्तोकाः पुरुषवेदाः, संज्ञिनामेव तिर्यङ्मनुष्याणां देवानां च पुरुषवेदभावात्। तेभ्यः स्त्रीवेदाः संख्येयगुणाः,यत उक्तं जीवाभिगमे"तिरिक्खजोणियपुरिसेहिंतो तिरिक्खजोणियइत्थीओ तिगुणाओ तिरूवाहियाओ य तहा मणुस्सपुरिसे हिंतो मणुस्सइत्थीओ सत्तावीसगुणाओ सत्तावीसरुवुत्तराओ यतहा देवपुरिसेहिंतो देवित्थीओ बत्तीसगुणाओ बत्तीसरूयुत्तराओ य" इति। वृद्धाचार्यरप्युक्तम्तिगुणा तिरूवअहिया, तिरियाण इत्थिया मुणेयव्वा। सत्तावीसगुणा पुण, मणुयाणं तदहिया चेव ||1|| बत्तीसगुणा बत्ती-सरूवअहिया य तह य देवाणं। देवीओ पन्नत्ता, जिणेहि जियरागदोसेहिं / / 2 / / अवेदका अनन्तगुणाः, सिद्धानामनन्तत्वात् / तेभ्यो नपुंसकवेदा अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात् / सामान्यतः सवेदका विशेषाधिकाः, स्त्रीवेदकपुरुषवेदकानामपि तत्र प्रक्षेपात्। प्रज्ञा०३ पद / जी० सवेदानामल्पबहुत्वचिन्तायाम्अप्पाबहुगंसव्वत्थोवा अवेदगा, सवेदगा अणंतगुणा / एवं सकसाती चेव अकसाती चेव जहा सवेया यतहेव भाणियव्वा। जी०१ प्रति० भ० अथ वेदविशेषवतां स्त्रीपुंनपुंसकानां प्रत्येकमल्पबहुत्वम्-तत्र स्त्रीणां पशाऽल्पबहुत्वानि / तद्यथा-प्रथमं सामान्येनाल्पबहुत्वम्, विशेषचिन्तायां द्वितीयं त्रिविधतिर्यस्त्रीणाम, तृतीयं त्रिविध-मनुष्यस्त्रीणाम्, चतुर्थ चतुर्विधदेवस्त्रीणाम्, पञ्चमं मिश्रस्त्रीणाम्। तत्र प्रथममल्पबहुत्वमभिधित्सुराहएतासि णं भंते ! तिरिक्खजोणित्थियाणं मणु-स्सित्थियाणं देवित्थियाणं कयरा कयराहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा ! सव्वत्थोवाओ मणुस्सित्थियाओ, तिरिक्खजोणित्थियाओ, असंखेजगुणाओ, देवित्थियाओ संखेजगुणाओ। (एतासि णं भंते ! इत्यादि) सर्वस्तोका मनुष्यस्त्रियः, संख्यातकोटाकोटिप्रमाणत्वात्। तेभ्यस्तिर्यग्योनिकाः स्त्रियोऽसंख्येय-गुणाः, प्रतिद्वीपं प्रतिसमुद्रं तिर्यस्त्रीणामतिबहुतया संभवात्, द्वीपसमुद्राणां वाऽसंख्ये यत्वात् / तत्ताभ्योऽपि देवस्त्रियोऽसंख्ये यगुणाः, भवनवासिव्यन्तरज्योतिष्कसौधर्मेशानदेवीनां प्रत्येकमसंख्येयश्रेण्याकाशप्रदेशराशिप्रमाणत्वात् / / 1 // द्वितीयमल्पबहुत्वमाहएतासिणं मंते ! तिरिक्खजोणित्थियाणं जलयरीणं थलयरीणं खहयरीण य कयरा कयराहिंतो अप्पाओ वा बहुयाओ वा तुल्लाओ वा विसेसाहियाओ वा ? गोयमा! सव्वत्थोवाओ खहयरतिरिक्खजोणियाओ, थलयरतिरिक्खजोणियाओ संखेञ्जगुणाओ, जलयरतिरिक्खजोणियाओ संखेजगुणाओ। सर्व स्तोकाः खचरतिर्यग्यो निकस्त्रियः, ताभ्यः स्थलचरतिर्यग्योनिकस्त्रियः संख्येयगुणाः,खचराभ्यः स्थलचराणां स्वभावत एव प्राचुर्येण भावात् / ताभ्यो जलचरस्त्रियः संख्येयगुणाः, लवणे कालोदे स्वयंभूरमणे च समुद्रे मत्स्यानामतिप्राचुर्येण भावात् / स्वयंभूरमणसमुद्रस्य च शेषसमस्तद्वीपसमुद्रापेक्षयाऽतिप्रभूतत्वात् / / 2 / / अधुना तृतीयमाहएतासिणंभंते!मणुस्सित्थियाणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाण य कयरा कयराहिंतो अप्पा वा०४? गोयमा ! सव्वत्थोवाओ अतंरदीवग अकम्मभूमग-मणुस्सित्थियाओ, देवकुरुउत्तरकुरुअकम्मभूमगमणु-स्सित्थियाओदो वितुल्लाओ
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy