SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ अप्पाबहुय(ग) 645 - अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) बाहुल्यादसंख्येययोजनविस्तृतत्वाच्च 2, तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, कृष्णपाक्षिकाणां प्राचुर्येण तत्र गमनात् 3, एवमीशानसनत्कुमारमाहेन्द्रकल्पसूत्राण्यपि भावनीयानि।। ब्रह्मलोककल्पे सर्वस्तोकाः पूर्वोत्तरपश्चिमदिग्भाविनो देवाः, यतो बहवः कृष्णपाक्षिकास्तिर्यग्योनयो दक्षिणस्यां दिशि समुत्पद्यन्ते / शुक्लपाक्षिकाः पुनः पूर्वोत्तरपश्चिमासु, शुक्लपाक्षिकाश्च स्तोका इति पूर्वोत्तरपश्चिमदिग्भाविनः सर्वस्तोकाः 1, तेभ्यो दक्षिणस्यां दिशि असंख्येगुणाः, कृष्णपाक्षिकाणां बहूनां तत्रोत्पादात् 2 / एवं लान्तकशुक्रसहस्रारसूत्राण्यपि भावनीयानि। आनतादिषु पुनर्मनुष्या एवोत्पद्यन्ते, तेन प्रतिकल्पं प्रतिवेयक प्रत्यनुत्तरविमानं चतसृषु दिक्षु प्रायो बहुसमा वेदितव्याः। तथा चाऽऽह"तेण परं बहुसमाववन्नगा समणाउसो!" इति। इदानी सिद्धानामल्पबहुत्वमाहदिसाणुवाएणं सव्वत्थोवा सिद्धा दाहिणउत्तरेणं, पुरच्छिमेणं संखेज्जगुणा, पञ्चच्छिमेणं विसेसाहिया। सर्वस्तोकाः सिद्धाः दक्षिणस्यामुत्तरस्यां च दिशि / कथमिति चेत् ? उच्यते- इह मनुष्या एव सिद्ध्यन्ति, नाऽन्ये, मनुष्या अपि सिद्धयन्तो येष्वाकाशप्रदेशे विह चरमसमये अवगाढास्ते - ष्वेवाकाशप्रदेशेषूर्ध्वमपि गच्छन्ति, तेष्वेव चोपर्यवतिष्ठन्ते, न मनागपि वक्रं गच्छन्ति, सिद्ध्यन्ति च, तत्र दक्षिणस्यां दिशि पञ्चसु भरतेष्वुत्तरस्यां दिशिपञ्चस्वैरावतेषु मनुष्या अल्पाः, क्षेत्र-स्याऽल्पत्वात्। सुषमसुषमादी च सिद्धेरभावादिति। तत्क्षेत्रसिद्धाः सर्वस्तोकाः१, तेभ्यः पूर्वस्यां दिशि संख्येयगुणाः, पूर्व विदेहानां भरतैरावतक्षेत्रेभ्यः संख्येयगुणतया तद्गतमनुष्याणामपि संख्येयगुणत्वात्, तेषां च सर्वकालं सिद्धिभावात् 2, तेभ्यः पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु मनुष्यबाहुल्यात् 3 / प्रज्ञा०३ पद। भव्यदेवादीनाम् - एएसिणं भंते ! भवियदव्वदेवाणं णरदेवाणं० जाव भावदेवाण य कयरे कयरेहिंतो० जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा णरदेवा, देवाहिदेवा संखेज्जगुणा, धम्मदेवा संखेज्जगुणा, भवियदव्वदेवा असंखेनगुणा, भावदेवा असंखेज्जगुणा। भरतैरवतेषु प्रत्येकं द्वादशानामेव तेषामुत्पत्तेर्विजयेषु च वासुदेवसम्भवात्; सर्वेष्वेकदाऽनुत्पत्तेरिति / (देवाहिदेवा संखेजगुण ति) भरतादिषु प्रत्येकं तेषां चक्रवर्तिभ्यो द्विगुणतयोत्पत्तेर्विजयेषु च वासुदेवोपेतेष्वप्युत्पत्तेरिति / (धम्मदेवा संखेजगुण त्ति) साधूनामेकदाऽपि कोटिसहस्रपृथक्त्वसद्भावादिति। (भविय-दव्वदेवा असंखेज्जगुण त्ति) देशविरतादीनां देवगतिगामिनाम-संख्यातत्वात् / (भावदेवा असंखे जगुण त्ति) स्वरूपेणैव तेषामति-बहुत्वादिति / अथ भावदेवविशेषाणां भवनपत्यादीनामल्प-बहुत्वप्ररूपणायाहएएसि णं भंते ! भावदेवाणं भवणवासीणं वाणमंतराणं जोइसियाणं वेमाणियाणं सोहम्मगाणं, जाव अच्चुयगाणं गेवेज्जगाणं अणुत्तरोववाइयाण य कयरे कयरे हितो० जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा अणुत्तरोववाइया भावदेवा, उवरिमगेवेजा, भावदेवा संखेज्जगुणा, मज्झिमगेवेज्जा संखेजगुणा, हेट्ठिमगेवेञ्जा संखेजगुणा, अचुयकप्पे देवा संखेज-गुणा, जाव आणतकप्पे भावदेवा। एवं जहा जीवाभिगमे तिविहे देवपुरिसे अप्पाबहुयं० जाव जोइसिया भावदेवा असंखेज्जगुणा। (जहा जीवाभिगमे तिविहे इत्यादि) इह च "तिविहे ति" त्रिविधजीवाधिकार इत्यर्थः / देवपुरुषाणामल्पबहुत्वमुक्तं तथेहापि वाच्यम्। भा० 12 श०६ उ०। (तच 28 अधिकारे वेद-द्वारे वक्ष्यते) (निगोदविषयकं 'णिगोद' शब्दे दर्शयिष्यते) (कायादिपरिचारकाणामल्पबहुत्वं परिचारणा' शब्दे निरूप-यिष्यते) (18) परीतद्वारम् / परीतापरीतनोपरीतानामल्पबहुत्वम्एएसि णं भंते ! जीवाणं परित्ताणं अपरित्ताणं नोपरित्ताणं नोअपरित्ताण य कयरे कयरेहिंतो अप्पा, वा०४? गोयमा ! सव्वत्थोवा जीवा परित्ता, नोपरित्ता नोअपरित्ता अणंतगुणा, अपरित्ता अणंतगुणा। इह परीता द्विविधाः- भवपरीताः, कायपरीताश्च / तत्र भवपरीता येषां किञ्चिदूनाऽपार्द्ध पुद्गलपरावर्तमानसंसारः / कायपरीताः प्रत्येकशरीरिणः, तत्र उभयेऽपि परीताः सर्वस्तोकाः, शुक्ल-पाक्षिकाणां प्रत्येकशरीरिणां च शेषजीवापेक्षयाऽतिस्तोकत्वात् / ततो नोपरीता नोअपरीता अनन्तगुणाः, उभयप्रतिषेधवृत्ताश्च सिद्धाः,तेचानन्ता इति / तेभ्योऽपरीता अनन्तगुणाः, कृष्णपाक्षिकाणां साधारणवनस्पतीनां वा सिद्धेभ्योऽप्यनन्तगुणत्वात्। गतं परीतद्वारम्। (16) पर्याप्तद्वारम् / पर्याप्ताऽपर्याप्तनोपर्याप्ताना मल्पबहुत्वम् - एएसिणं मंते जीवाणं पज्जत्ताणं अपञ्जत्ताणं नोपज्जत्ताणं नोअपज्जत्ताण य कयरे कयरेहिंतो अप्प वा०४? गोयमा ! सव्वत्थोवा जीवा नोपज्जत्तगा नोअपज्जत्तगा, अपेजचगा अणंतगुणा, पज्जत्तगा संखेज्जगुणा। सर्वस्तोका नोपर्याप्तका नोअपर्याप्तकाः, उभयप्रतिषेधवर्तिनो हि सिद्धाः, ते चाऽपर्याप्तकादिभ्यः सर्वस्तोका इति / तेभ्यो-ऽपर्याप्तका अनन्तगुणाः, साधारणवनस्पतिकायिकानां सिद्धे-भ्योऽनन्तगुणानां सर्वकालमपर्याप्तत्वेन लभ्यमानत्वात्। तेभ्यः पर्याप्ताः संख्येयगुणाः, इह सर्वबहवो जीवाः सूक्ष्माः, सूक्ष्माश्च सर्वकालमपर्याप्तेभ्यः पर्याप्ताः संख्येयगुणाः, इति संख्येयगुणा उक्ताः / गतं पर्याप्तद्वारम् / प्रज्ञा० ३पद। (20) पुद्गलद्वारम्। पुद्गलानां क्षेत्रानुपातादिभिरल्पबहुत्वमाह खेत्ताणुवाएणं सव्वत्थोवा पोग्गला तेलुक्के, उड्डलोयतिरियलोए अणंतगुणा, अहोलोयतिरियलोए विसेसाहिया, तिरियलोए असंखेज्जगुणा, उड्डलोए असंखिजगुणा, अहोलोए विसेसाहिया। इदमल्पबहुत्वं पुद्गलानां द्रव्यार्थत्वमङ्गीकृत्य घ्याख्येयम्, तथासम्प्रदायात्। तत्र क्षेत्रानुपातेन क्षेत्रानुसारेण चिन्त्यमानाः पुद्गलाः त्रैलोक्ये त्रैलोक्यसंस्पर्शिनः सर्वस्तोकाः, सर्वस्तोकानि त्रैलो क्यव्यापीनीति पुद्गलद्रव्याणीति भावः / स्मान्महास्कस्धा एव त्रैलोक्यव्यापिनस्ते चाऽल्पा इति / तैभ्य ऊर्ध्वलोकतिर्यग्लो के
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy