________________ अधिगरण 573 - अभिवानराजेन्द्रः - भाग 1 अधिगरण तपःकालविशेषिता भवन्ति। तद्यथा-भिक्षोश्चतुर्गुरुकं तपसा, कालेन च लघुकम् / वृषभस्य तदेव कालगुरुकम् / उपाध्यायस्य तपोगुरुकम्। आचार्यस्य तपसा कालेन च गुरुकम्। अथवा चतुर्गुरुकादारभ्य छेदे निष्ठापना कर्तव्या। तद्यथा-भिक्षुरधिकरणं करोति चेत्चतुर्गुरुकम्। वृषभस्य षड्लघुकम्। उपाध्यायस्य षड्गुरुकम्। आचार्यस्याधिकरणं कुर्वाणस्य छेद इति / यथा वाऽधिकरणकरणे आदेशत्र येण प्रायश्चित्तमुक्तम्, तथा साहाय्यकरणेऽपि द्रष्टव्यम्: समानदोषत्वात्। अथोपेक्षाव्याख्यानमाह.परपत्तिया न किरिया, मोत्तु परटुं च जयसु आयटे। अवि य उवेहा वुत्ता, गुणो वि दोसो हवइ एवं // इहाधिकरणं कुर्वतो दृष्ट्वा मध्यस्थभावेन तिष्ठति, नान्ये-षामप्युपदेशं प्रयच्छति। यतः परप्रत्यया या क्रिया कर्मसंबन्धः सा अस्माकंन भवति, परकृतस्य कर्मण आत्मनि संक्रमाभावात् / तथा यद्येतावधिकरणादुपशाम्येते, ततः परार्थकृतो भवति / तं च परार्थ मुक्त्वा यदि मोक्षार्थिनस्तत आत्मार्थ एव स्वाध्यायादिके यतध्वं यत्नं कुरुत। अपि चेत्यभ्युचये। ओघनियुक्तिशास्त्रेऽप्युपेक्षा संयमाङ्गतया प्रोक्ता-"उवेहा संजमो वुत्तो' इति वचनात्। यद्वा- मैत्री प्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु मध्ये स्थापयन्या उपेक्षा प्रोक्ता ततः सैव साधूनां कर्तुमुचितेति भावः / अत्र सूरिराह - (गुणो वि दोसो हवइ) यदिदमविनेयेषु माध्यस्थ्यमुपदिष्टं तत् संयतापेक्षया, न पुनः संयतानङ्गीकृत्य; यस्मादसंयतेष्वियमुपेक्षा क्रियमाणा गुणः, संयतेषु क्रियमाणा महान् दोषो भवति / उक्तं चौघनिर्युक्तावपि - "संजयगिहचोयणाचोयणे यवावार उवेहा। अथ 'परपत्तिया न किरिय त्ति' पदं भावयतिजइ परो पडिसेविका, पावियं पडिसेवणं / मज्झ मोणं चरंतस्स, के अटे परिहायई ? || यदि पर आत्मव्यतिरिक्तः पापिकामकुशलकर्मोपाधिकरणादिकां प्रतिसेवनां प्रतिसेवते, ततो मम मौनमाचरतः को नाम ज्ञानादीनां मध्यादर्थः परिहीयते? न कोऽपीत्यर्थः॥ अथ 'मोत्तु परहुंच जयसु आयडे' इति पदं व्याचष्टेआयटे उवउत्ता, मा पमह वावडा होइ। हंदि परहाउत्ता, आयट्ठविणासगाहों ति॥ आत्मार्थो नाम ज्ञानदर्शनचारित्ररूपंपारमार्थिक स्वकार्यम्, तत्रोपयुक्ता भवत / मा परकायें अधिकरणोपशमनादौ व्यापृता भवत / हंदीति हेतूपप्रदर्शने, यस्मात्परार्थायुक्ता आत्मा-र्थविनाशकाः स्वाध्यायध्यानाद्यात्मकार्यपरिमन्थकारिणो भवन्ति। अथोपहसनोत्तेजनाद्वारे युगपद्व्याचष्टेएसो विताव दमयतु, हसइव तस्सोमयाएँ ओहसणा। उत्तरदाणं तह मोसराहि अह होइ उत्तअणा।। द्वयोरधिकरणं कुर्वतोरेकस्मिन् सीदति सति आचार्योऽन्यो वा ब्रवीतिएषोऽपितावददान्तपूर्वः, दम्यतामिदानीमनेन, यदि वा तस्यावमतायाः, | पश्चात्करणे इत्यर्थः, स्वयमट्टहा सैरुपहसति. एतदुपहसनमुच्यते। तथा तयोर्मध्याधः सीदति तस्योत्तरदानम्-अमुकममुकं च ब्रूहि इत्येवं शिक्षापणम्, यद्वा- मा अमुष्मादपसर त्वं, दृढीभूय तथा लग, यथा न तेन पराजीयसे / अथैषा उत्तेजनाऽभिधीयते॥ अथ साहाय्यकरणं व्याख्यानयतिवायाए हत्थेहिं,पाएहिँ व दंतलउडमादीहिं। जो कुणइ सहायत्तं, समाणदोसं तयं विति // द्वयोः कलहायमानयोर्मध्यादेकस्य पक्षे भूत्वा यः कोऽपि वाचा हस्ताभ्यां वा पद्भ्यां वा दन्तै लगुडादिभिर्वा साहाय्यं करोति, तं तेनाधिकरणकारिणा सह समानदोषं तीर्थकरादयो ब्रुवते। अथाचार्याणामुपेक्षां कुर्वाणानां सामान्येन वा अधिकरणे अनुपशम्यमाने दोषदर्शनार्थमिदमुदाहरणमुच्यतेअरत्तमज्झे एग सव्वतो वणसंडमहियं महंतं सरं अस्थि / तत्थ य बहूणि जलचरथलचरखहचरसत्ताणि अच्छंति / तत्थ एगं महल्लं हस्थिजूहं परिवसइ, अन्नया य गिम्ह-काले तं हथिजूहं पाणियं पाउंण्हाउत्तिन्नं मज्झण्हदेस-काले सीयलरुक्खछायाए सुहं सुहेणं चिट्ठइ। तत्थय अदूरदेसे दो सरडा भंडिउमारद्धा। वणदेवयाए अंते दुहुँ सव्वेसिं सभासाए आघोसियं"नागा! वा जलवासीया!, सुणेह तसथावरा!। सरडा जत्थ भंडंति, अभावो परियत्तइ" ||1|| ता मा एते सरडे उवेक्खह, वारेह तुब्भे / एवं भणिया वि ते जलचराइणो चिंतेंति-किं अम्हं एते सरडा भंडता काहिंति ? तत्थ य एगो सरडो तो पिल्लितो सो धाडिवतो सुहपसुत्तस्स एगस्स जूहाहिवस्स बिलं ति काउंनासापुडं पविट्ठो। बिइओ वि तस्स पिट्टओ चेव पविट्ठो; ते सिरकपाले जुद्ध संपलग्गा। तस्स हित्थस्स महती अरई जाया / तओ वेयणढे मेहइए असमाहीए वट्टमाणो उद्देत्ता तं वणसंडं चूरेइ / बहवे तत्थ विस्संता घाइया, जलं च आडोहितेण जलचरा घाइया, तलागपाली य भेइया, तडागं विणटुं, ताहे जलचरा सव्वे वि णट्ठा। भो नागा हस्तिनः ! जलवासिनो मत्स्यकच्छपादयः! अपरे च ये त्रसा मृगपशुपक्षिप्रभृतयः ! स्थावराश्च सहकारादयो वृक्षाः ! एते सर्वेऽपि यूयं शृणुत मदीयं वचनम्-यत्र सरसि सरटौ भण्डतः- कलहं कुरुतः; तस्याभावः परिवर्तते, विनाशः संभाव्यत इति भावः / अमुमेवार्थमाहवणसंडमसरे जलथल-खहचरवीसमण देवयाकहणं। वारेह सरहुवेक्खण, धाडण गयनास चूरणया॥ वनखण्डमिते सरसिजलथलखचराणां विश्रमणं, तत्र सरटभण्डनं दृष्ट्वा वनदेवतया, 'नागा वा जलवासीया' इत्यादि श्लोककथन कृत्वा वारयत सरटौ कलहायमानावित्युपदिष्टम्। ततश्च तैनागादिभिः सरटयोरुपेक्षणं कृतम्, एकस्य च सरटस्य द्वितीयेन धाटनं कृतं, ततोऽसौ धाट्यमानो गजनासापुटं प्रविष्ट वान् / तत्पृष्ठ तो