________________ अणेगंतवाय 426 - अभिधानराजेन्द्रः - भाग 1 अणेगंतवाय क्रम भाविनश्व पर्यायास्त एवात्मा स्वरूपं यस्य तदनन्त-धर्मात्मकम्। एवकारः प्रकारान्तरव्यवच्छेदार्थः / अत एवाह - (अतोऽन्यथेत्यादि) अतोऽन्यथा उक्त प्रकारवैपरीत्येन, सत्त्वं वस्तुतत्त्वमसूपपादम् - सुखेनोपपाद्यते घटनाकोटिसंटङ्-कमारोप्यत इति सूपपादम्, न तथाऽसूपपादम्, दुर्घटमित्यर्थः / अनेन साधनं दर्शितम् / तथाहि तत्त्वमिति धर्मि, अनन्त-धर्मात्मकत्वं साध्यो धर्मः, सत्त्वाऽन्यथाऽनुपपत्तेरिति हेतु, अन्यथाऽनुपपत्त्येकलक्षणत्वाद्धेतोः / अन्तव्याप्त्यैव साध्यस्य सिद्धत्वाद् दृष्टान्तादिभिर्न प्रयोजनम् / यदनन्तधर्मात्मकंन भवति, तत्सदपि न भवति।यथा-वियदिन्दीवरम्। इति केवलव्यतिरेकी हेतुः, साधर्म्यदृष्टान्तानां पक्षकुक्षिनिक्षिप्तत्वेनान्वयाऽयोगात् / अनन्तधर्मात्मकत्वं चाऽऽत्मनि तावत् साकाराऽनाकारोपयोगिता, कर्तृत्वं, भोक्तृत्वं, प्रदेशाष्टक-निश्चलता, अमूर्तत्वमसङ्ख्यातप्रदेशात्मकता, जीवत्वमित्यादयः सहभाविनोधर्माः। हर्षविषादशोकसुखदुःखदेवनरनार-कतिर्यक्त्वादयस्तु क्रमभाविनः / धर्मास्तिकायादिष्वप्यसंख्येय-प्रदेशात्मकत्वं गत्यादि- उपग्रहकारित्वं मत्यादिज्ञानविषयत्वंतत्तदवच्छेदका वच्छेद्यत्वभवस्थितत्वमरूपित्वमेकद्रव्यत्वं निष्क्रियत्वमित्यादयः। घटे पुनरामत्वं, पाकजरूपादिमत्त्वं, पृथुबुध्नोदरत्वं, कम्बुग्रीवत्वं, जलादिधारणाऽऽहरणादिसामर्थ्य, मत्यादिज्ञानज्ञेयत्वं, नवत्वं, पुराणत्वमित्यादयः / एवं सर्वपदार्थेष्वपि नानानयमताभिज्ञेन शाब्दानार्थांश्च पर्यायान प्रतीत्य वाच्यम् / अत्र चाऽऽत्म- शब्देनाऽनन्तेष्वपि धर्मेष्वनुवर्तिरूपमन्वयि द्रव्यं ध्वनितम्। ततश्च ‘उत्पादव्ययध्रौव्ययुक्तं सत्' इति व्यवस्थितम् / एवं तावदर्थेषु शब्देष्वपि उन्मत्ताऽनुदात्तस्वरितविवृतसंवृतघोषवदघोषताऽल्पप्राणमहाप्राणतादयस्तत्तदर्थप्रत्यायनशक्त्यादयश्चावसेयाः / अस्य हेतोरसिद्धविरुद्धाऽनैकान्तिकत्वादि कण्टकोद्धारः स्वयमभ्यूहाः / इत्येवमुल्लेखशेखराणि ते तव, प्रमाणान्यपि न्यायोपपन्नसाधनवाक्यान्यपि / आस्तां तावत्साक्षात्कृतद्रव्यपर्यायनिकायो भवान. यावदेतान्यपि कुवादिक रङ्गसंत्रासनसिंहनादाः, कुवादिनः कुत्सितवादिन एकांशग्राहकनयाऽनुयायिनोऽन्यतीर्थिकाः,तएव संसारवनगहनवसन-व्यसनितया कुरङ्गा मृगाः, तेषां सम्यक् त्रासने सिंहनादा इव सिंह-नादाः / यथा सिंहस्य नादमात्रमप्याकर्ण्य कुरङ्गास्त्रासमासूत्रयन्ति, तथा भवत्प्रणीतैवंप्रकारप्रमाणवचनान्यपि श्रुत्वा कुवा-दिनस्त्रासमश्नुवते, प्रतिवचनप्रदानकातरतां बिभ्रतीति यावत् / एकैकं त्वदुपज्ञ प्रमाणमन्ययोगव्यवच्छे दकमित्यर्थः / अत्र प्रमाणानीति बहुवचनमेवंजातीयानां प्रमाणानां भगवच्छासने आनन्त्यज्ञापनार्थम्, एकैकस्य सूत्रस्य सर्वोदधिसलिलसर्वसरिद्वालुकाऽनन्त-गुणार्थत्वात्, तेषां च सर्वेषामपि सर्वविन्मूलतया प्रमाणत्वात् / अथवा इत्यादि बहुवचनान्ता गणस्य संसूचका भवन्तीति न्यायात् इतिशब्देन प्रमाणबाहुल्यसूचनात्-पूर्वार्द्ध एकस्मिन्नपि प्रमाणे उपन्यस्ते उचितमेव बहुवचनमिति काव्यार्थः / / 2 / / (सप्तभङ्गीनिरूपणं 'सत्तभंगी' शब्दे वक्ष्यते) (उत्पादव्ययोस्वैविध्यं स्वस्थाने) (3) न चोत्पादविनाशयोरैकान्तिकतद् रूपताऽभ्युपगमेऽनेकान्तवादव्याघातः, कथञ्चित्तयोस्तद्रूपताऽभ्युपगमात्। तदाहतिण्णि वि उप्पायाई, अभिन्नकाला य भिन्नकाला य।। अत्यंत अणत्यंतरं च दवियाहिं णायव्वा / / 13 / / त्रयोऽप्युत्पादविगमस्थितिस्वभावाः, परस्परतोऽन्यकालाः / यतो न | पटादेरुत्पादसमय एव विनाशः, तस्यानुत्पत्तिप्रसक्तेः / नापि तद्विनाशसमये तस्यैवोत्पत्तिः, अविनाशोत्पत्तेः। न च तत्प्रा-दुर्भावसमय एव तत्स्थितिः, सद् रूपेणैवाऽवस्थितस्याऽनव-स्थाप्रसक्तितः प्रादुर्भावायोगात्। न च रूपघटरूपमृत्स्थितिकाले तस्य विनाशः, तद् रूपेणावस्थितस्य विनाशस्य एव ध्वंसोऽनु-त्पत्तिप्रसङ्गत एव युक्तः। ततस्त्रयाणामपि भिन्नकालत्वात्, तद् द्रव्यमर्थान्तरम् / नाना स्वभावादनेकान्ताभावप्रसक्तिः। यतोऽभिन्नकालाश्चोत्पादादयः, न हि कुशूलविनाशघटो-त्पादयोभित्रकालता, अन्यथा विनाशात् कार्योत्पत्तिः स्यात्। घटाद्युत्तरपर्यायानुत्पत्तावपि प्राक्तनपर्यायध्वंसप्रसक्तिश्च स्यात् / पूर्वोत्तरपर्यायविनाशोत्पादक्रिया या निर्धारायोगात्। तदाधार-भूतद्रव्यस्थितिरपि तदाऽभ्युपगन्तव्या। न च क्रियाफलमेव क्रियाः,तस्य प्रागसत्त्वात्, सत्त्वे वा क्रियावैफल्यात्। ततस्त्रयाणामपि भिन्नकालत्वाद् तद्व्यतिरिक्तं द्रव्यमभिन्नं न चाभावघटोत्पादविनाशापेक्षया भिन्नकालतयाऽर्थान्तरत्वम्, कुशूलघटाविनाशोत्पादापेक्षयाऽभिन्नकालत्वेनार्थान्तर-त्वादेकान्तर इति वक्तव्यं द्रव्यम्। द्रव्यस्य पूर्वावस्थायां भिन्नाभिन्नतया प्रतीय-मानस्योत्तरावस्थायामपि भिन्नाभिन्नतयैव प्रतीतेरनेकान्तो-ऽव्याहतः / न चाबाधिताध्यक्षादिप्रतिपत्ति विषय-स्य तस्य विरोधाधुद्रायनं युक्तिसंगतम्, सर्वप्रमाणप्रमेयव्यवहारविलोप-प्रसङ्गात् / अत एयार्थान्तरमनन्तिरं चोत्पादादयो द्रव्यात् तदवापो वा तेभ्यस्तथेति ज्ञेयम् / द्रव्यात् तथाभूततद्ग्राहकत्व-परिणततादात्म्यलक्षणात्प्रमाणादित्यपि व्याख्येम् / न हितथाभूत-प्रमाणप्रवृत्तिः तथाभूतार्थमन्तरेणोपपन्नाः, धूमध्वजमन्तरेण स वेद्यते च / तथाभूतग्राह्मग्राहिकरूपतयाऽनेकान्तात्मकं स्वसंवेदनतः प्रमाणमिति, न तदपलापः कर्तुं शक्यः, अन्यथाऽतिप्रसङ्गात् / यता-देशादिविप्रकृष्टा उत्पत्तिविनाशस्थितिस्वभाया भिन्नाभिन्नकाला अर्थान्तरानान्तररूपा द्रव्यत्वाद, द्रव्याद्रव्यातिरिक्तत्वादित्यर्थः। अन्यथोत्पादादीनामभावप्रसक्तेः। तेभ्यो वा द्रव्यमन्तिर-मनन्तरम्, द्रव्यत्वात् / प्रतिज्ञार्थकदेशता च हेतोनशिङ्कनीया, द्रव्यविशेषे साध्ये द्रव्यसामान्यस्य हेतुत्वेनोपन्यासात् / / 132 / / अत्रैवार्थे प्रत्यक्षप्रतीतमुदाहरणमाहजो आउंचणकालो, चेव पसारिस्स विणिजुत्तो। तेसिं पुण पडिवत्ती-विगमे कालंतरं नत्थि।।१३३|| य आकुञ्चनकालोऽगुल्यादेव्यस्य, स एव तत्प्रसारणस्य न युक्तः, भिन्नकालतयाऽऽकुञ्चनप्रसारणयोः प्रतीतस्तयोर्भदः / अन्यथा तयोः स्वरूपाभावापत्तेरित्युक्तं तत्तत्पर्यायाभिन्न-स्याङ्गुल्यादिद्रव्यस्यापि तथाविधत्वात्, तदपि भिन्नमभ्युप-गन्तव्यम्। अन्यथा तदनुपलम्भात्। अभिन्नं च, तदवस्थयोस्तस्यैव प्रत्यभिज्ञायमानत्वात् / तयोः पुनरुत्पादविनाशयोः / प्रतिपत्तिश्च प्रादुर्भावो, विगमश्च विपत्तिः / प्रतिपत्तिविगमम्, तत्र कालान्तरं भिन्नकालत्यमगुलिद्रव्यस्य च नास्ति पूर्वपर्यायविनाशोत्तरपर्यायोत्पत्त्युङ् गुलिद्रव्योत्पत्तिस्थितीनामभिन्नकालताऽभिन्नरूपता च प्रतीयते / एकस्यैव तथाविवर्तात्मकस्याध्यक्षतः प्रतीतेः। अथवा कालान्तरं नास्तीत्यत्राऽऽकारप्रश्लेषात्ततश्चोपादानात्, प्रतिषेधद्वयेन प्रकृतार्थगते: कालान्तरं कालभेद उत्पादादेव्यस्य वाऽस्तीति कथशिद् भेद इत्यर्थः। कथञ्चिद् भेदेनापि प्रतिपत्तेस्तेनोत्पत्तिविनाश-स्थितीनां परस्पररूपपरित्यागप्रवृत्त प्रत्येक यात्मकै क रूपत्वेनापि वर्तमानपर्यायात्मकस्यैवातीतानागतकालयोः सत्त्वम्,