SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ अणुभाग 396- अभिवानराजेन्द्रः - भाग 1 अणुभाग पुद्गलान् गृह्णन् अनाभोगिके न वीर्येण तस्मिन्नेव बन्धसमये ज्ञानावरणीयादितथा व्यवस्थापनं तन्निर्वर्तनमित्युच्यते / तथा जीवेन परिणामितस्य विशेषप्रत्ययैः प्रद्वेषनिहवादिभिस्ततस्तमुत्तरोत्तरं परिणामं प्रापितस्य स्वयं वा विपाकप्राप्ततया परनिरपेक्षमुदीर्णस्य उदयप्राप्तस्य, परेण वा उदीरितस्य उदयमुपनीतस्य, तदुभयेन स्वपररूपेणोभयेन उदीर्यमाणस्य उदयमुपनीयमानस्य गतिं प्राप्य किंचिद् विकर्म, काञ्चिद् गतिं प्राप्य तीव्रानुभावं भवति / यथा नरकगतिं प्राप्याऽसातवेदनीयम् / असातोदयो हि यथा नारकाणां तीव्रो भवति, न तथा तिर्यगादीनामिति। तथा स्थितिं प्राप्य सर्वोत्कृष्टानुभावमिति शेषः / सर्वोत्कृष्टां हि स्थितिमुपगतमशुभं कर्म तीव्रानुभावं भवति / यथा मिथ्यात्वं भवं प्राप्य इह किमपि किञ्चिद्भवमाश्रित्य स्वविपाकप्रदर्शनसमर्थम्। यथा निद्रा मनुष्यभवतिर्यग्भवं प्राप्येत्युक्तम्। एतावता किल स्वत उदयस्य कारणानि दर्शितानि। कर्म हि तां तां गतिं स्थिति भवं वा प्राप्य स्वयमुदयमागच्छतीति। सम्प्रति परत उदयमाहपुद्गलं काष्ठलेष्टु खड्गादिलक्षणं प्राप्य / तथा हि- परेण क्षिप्त काष्ठलेष्टुखड्डादिकमासाद्य भवत्यसातवेदनीयम् / क्रोधादीनामुदयस्तथा पुद्गलपरिणाम प्राप्य इह किञ्चित्कर्म कमपिपुद्गलमाश्रित्य विपाकमायाति / यथाऽभ्यवहृतस्याऽऽहारस्याजीर्णत्वपरिणामत्वमाश्रित्य असातवेदनीयम्, ज्ञानावरणीयं तु सुरापानमिति / ततः पुद्गलपरिणामं प्राप्येत्युक्तम्। कतिविधोऽनुभावः प्रज्ञप्तः ? इत्येष प्रश्नः / अत्र निर्वचनम् - दशविधोऽनुभावः प्रज्ञप्तः। तदेवदशविधमनुभावं दर्शयति-(सोयावरणे इत्यादि) इह श्रोत्रशब्देन श्रोत्रेन्द्रियविषयः क्षयो-पशमः परिगृह्यते (सोयविन्नाणावरणे इति) श्रोत्रविज्ञानशब्देन श्रोत्रेन्द्रियोपयोगः, यत्तु निर्वृत्त्युपलक्षणं द्रव्येन्द्रियं यदङ्गोपाङ्गं नाम नामकर्म निर्वयं, न ज्ञानावरणविषय इति, न श्रोत्रशब्देन गृह्यते / एवं नेत्रावरणे इत्याद्यपि भावनीयम्। तत्रैकेन्द्रियाणां रसनघ्राणचक्षुःश्रोत्रविषयाणां लब्ध्युपयोगानां प्राय आवरणम्। प्रायोग्रहणं च बकुलादिव्यवच्छेदार्थम्। बकुलादीनां हि यथायोगं पञ्चानामपीन्द्रियाणां लब्ध्युपयोगाः फलतः स्पष्टा उपलक्ष्यन्ते / आगमे पि च प्रोच्यन्ते-"पंचिंदियो व्व बउलो, नरो व्य पंचिं-दिओवओगाओ। तह वि न भन्नइ पंचिंदिओ त्ति दव्विदियाऽ-- भावा'' ||1|| तथा-"जह सुहमं भावेंदियनाणं दबिदियावराहे वि। दव्वस्सु य भावम्मि वि, भावसुयं पत्तिवाईणं" ||1 / / इति। ततः प्राय इत्युक्तम्। द्वीन्द्रियाणांघ्राणचक्षुःश्रोत्रेन्द्रियविषयाणां लब्ध्युपयोगानां त्रीन्द्रियाणां चक्षुःश्रोत्रविषयाणां चतुरिन्द्रियाणां श्रोत्रेन्द्रिय-लब्ध्युपयोगावरणं स्पर्शनेन्द्रियलब्ध्युपयोगावरणं कुष्ठादिव्याधि-भिरुपहतदेहस्य द्रष्टव्यम् / पञ्चेन्द्रियाणामपि जात्यन्धादीनां पश्चाद्वा अन्धबधिरीभूतानां चक्षुरादीन्द्रिय-लब्ध्युपयोगावरणं भावनीयम् / कथमेवमिन्द्रियाणां च लब्ध्युपयोगावरणमिति चेत् ? उच्यते-स्वयमुदीर्णस्य परेण वा उदीरितस्य ज्ञानावरणीयस्य कर्मण उदयेन / तथा चाऽऽह(जं वेएइ इति) यद्वेदयते परेण क्षिप्त काष्ठलेष्टु खड् गादिलक्षणं पुद्गलं लेनाऽभिघातजननसमर्थेन(पुग्गले वा इति) यावद् बहून् पुद्गलान् काष्ठादिलक्षणान् परेण क्षिप्तान् वेदयते, तैरभिघातजननसमर्थः पुद्गलपरिणाममभ्यवहृताऽऽहार-परिणामरूपं पानीयरसादिकमतिदुःखजनकं वेदयते, तेन वा ज्ञानपरिणत्युपहननात्। तथा (वीससा वा पोग्गलाण परिणाममिति) विनसया यत्पुद्गलानां परिणामं शीतोष्णातपादिरूपत्वं वेदयते यदा, तदा तत्रेन्द्रियोपघातजननद्वारेण ज्ञानपरिणतावुपहतायां ज्ञातव्यम् / एकेन्द्रियः किमपि सद्वस्तु न जानाति, ज्ञानपरिणतेरुपहतत्वात् / अयं सापेक्ष उदय उक्तः / निरपेक्षस्य तु विषये सूत्रमिदम्-(तेसिं वा उदएणं ति) ज्ञानावरणीयकर्मपुद्गलानां विपाकप्राप्तानामुदयेन ज्ञातव्यं, न जानाति / (जाणिउकामे न जाणाइ त्ति) ज्ञानपरिणामेन परिणमि-तुमिच्छन्नपि ज्ञानपरिणत्युपघातान्न जानाति / (जाणित्ता वि न जाणइ त्ति) प्राग् ज्ञात्वाऽपि पश्चात् नजानीते, तेषामेव ज्ञानावरणीयकर्मपुद्गलानामुदयात् (उच्छन्ननाणीया विभवइ इत्यादि) ज्ञानावरणीयस्य कर्मण उदयेन जीव उच्छन्नज्ञान्यपि भवति / उच्छन्नं च तज्झानं च उच्छन्नज्ञानं, तदस्यास्तीति उच्छन्नज्ञानी, सर्वधनादि पाठाभ्युपगमादिनिः / यावत् शक्तिप्रच्छादितज्ञान्यपि भवतीत्यर्थः / “एस णं गोयमा ! नाणावरणिज्जे कम्मे०" इत्याधुपसंहारवाक्यं कष्ठ्यम्। प्रज्ञा०। भ०। दर्शनावरणीयस्यदरिसणावरणिजस्सणं भंते ! कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प कतिविहे अणुभावे पण्णत्ते ? गोयमा ! नवविहे अणुभावे पण्णत्ते / तं जहा-निद्दा निद्दानिद्दा पयला पयलापयला थीणद्धी, चक्खुदंसणावरणे अचक्खुदंसणावरणे ओहिदंसणावरणे केवल-दसणावरणे / जं वेदेइ पोग्गलं वा पोग्गले वा पुग्गल-परिणामंवा वीससा वापोग्गलपरिणाम, तेसिं वा उदएणं पासियव्वं वान पासइ, पासिउकामे न पासइ, पासित्ता विन पासइ, उच्छन्नदसणीया वि भवइदरिसणावरणिजस्स कम्मस्स उदए णं, एस णं गोयमा ! दरिसणावरणिज्जे कम्मे , एस णं गोयमा! दरिसणा-वरणिजस्स कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प नवविहे अणुभावे पण्णत्ते। प्रश्नसूत्रं पूर्ववत् / निर्वचनमाह-गौतम ! नवविधः प्रज्ञप्तः / तदेव नवविधत्वं दर्शयति-'निद्दा' इत्यादि / निद्राशब्दार्थमने वक्ष्यामः / भावार्थस्त्वयम् - "सुहपडिबोहा निद्दा, दुहपडिबोहा य निरनिदा य / पयला होइ ठियस्सा, पयलापयला य चंकमओ // 1 // थीणद्धी, पुण अइसं, किलिट्टकम्माण वेयणे होइ।महनिद्दादिणचिंतिय-वावारपसाहणी पायं"।सा चक्षुर्दर्शनावरणंचक्षुःसामान्यो-पयोगावरणम्। एवं शेषेष्वपि भावनीयम् ।(जं वेयइ इत्यादि) यं वेदयते पुद्गलमृदुशयनीयादिकं (पुग्गले वा इति) यान् पुद्गलान् बहून् मृदुशयनीयादीन् वेदयते पुद्गलपरिणाम माहिषदध्याद्य-भ्यवहृताहारपरिणाममित्यर्थः,(वीससा वा पोग्गलाण परि-णाममिति) वर्षास्वभ्रसंसृतनभोरूपं, धाराम्बुनिपातरूपं वा यं वेदयते तेन निद्राद्युदयाक्षेपतो दर्शनपरिणत्युपघाते। एतावता परत उक्तः। सम्प्रति स्वत उदयमाह- (तेसिं वा उदएण त्ति) तेषां वा दर्शनावरणीयकर्मपुद्गलानामुदयेन परिणतिविघातेन द्रष्टव्यं, न पश्यति। तथा कञ्चिद्दर्शनपरिणामेन परिणमितुमिच्छन्नपि जात्यन्धत्वादिना दर्शनपरिणत्युपघातात् न पश्यति- प्राग् दृष्ट्वाऽपि पश्चात् न पश्यति, दर्शनावरणीयकर्मपुद्गलानामुदयात्। किं बहुना ?, दर्शनावरणीयस्य कर्मण उदयेन जीव उच्छन्नदर्शन्यपि यावच्छक्तिप्रच्छादितदर्शन्यपि भवति। "एसणं गोयमा ! दरिसणावरणिजे कम्मे" इत्याद्युपसंहारवाक्यम्।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy