________________ अट्ठपुष्फी 246 - अभिषानराजेन्द्रः - भाग 1 अट्ठपुप्पी वीतरागस्य नोपपद्यन्ते एवं पुष्पाण्यपि, उभयेषामपि सरागै- 1 राचरितत्वादिति / अष्टपुष्पीविधाने कारणमाह- अपायोऽनर्थस्तद्धेतुत्वादपाया ज्ञानावरणादयः, अष्टावपायाः समाहृताः अष्टापायम्, तस्माद्विशेषेण प्रकारान्तरेणैव, दग्धरज्जुकल्प-करणतः भवोपग्राहिभ्यश्चतुर्य इत्यर्थः / नितरां निःसत्ताकतया चतुर्म्य एव घातिकर्मभ्यो मुक्तः अपेतः / धात्वर्थमात्रवृत्ती वा विशब्दनिः शब्दाविति / विनिर्मुक्त इव विनिर्मुक्तः, अष्टाऽपायविनिर्मुक्तस्तथा, तस्मादष्टाऽपायविनिर्मोक्षणादुत्था उत्थानं यस्याः सा तदुत्था, गुणा अनन्तज्ञानदर्शनादयस्तेषां भूतिः प्रादुर्भावः, त एव वा भूतिर्लक्ष्मीगुणभूतिः, तदुत्था गुणभूतिर्यस्य स तथा / अष्टापायविनिमुक्तस्तदुत्थगुणभूतिश्च यः स तथा, तस्मै / यद्यपीह गुणीभूतं विनिर्मोचनं, क्तप्रत्ययार्थस्यैव प्रधानत्वात्तथापि तच्छब्देन तदेव परामृश्यते, वक्त्रा तथैव विवक्षितत्वात् / दृष्टश्चाऽयं न्यायः / यथा- सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तद्-व्युत्पाद्यत इत्यादाविति। दीयते वितीर्यते, देवदेवाय स्तुत्यस्तुत्याय, याऽष्टपुष्पी सा शुद्धाऽसावद्या, उदाहृता सर्वज्ञैरभिहितेति / नन्वष्टा-ऽपायविनिर्मुक्तोत्था एतद्विनिर्मोक्षणोत्था गुणभूतिर्यस्येत्यनेनैवा-ऽष्टपुष्पीनिबन्धनस्यावसीयमानत्वात्, किं तच्छब्दोपादानेनेति / नैवम् , अष्टाऽपायविनिर्मुक्ताय दीयते, इत्यनेनाऽष्टपुष्पीनिबन्धन-माह / तदुत्थगुणभूतये इत्यनेन चतुःपुष्पिकाया अनन्तज्ञानदर्शन सुखवीर्यचतुष्टयरूपत्वादष्टकर्मविनिर्मुक्तिप्रभवगुणानाम्, अष्टाऽपाय-विनिर्मुक्ताय इत्यनेनैवाऽवसितमिदमिति चेन्न, सिद्धानां हि कैश्चित् प्रकृतिवियोगाद् ज्ञानाऽभावः, शरीरमनसोरभावाद्वीयर्याभावः, विषयाभावाच्च सुखाऽभावो भाष्यते, तन्मतव्युदासार्थत्वादित्थ-मुपन्यासः, तदाऽऽवारकक्षये हि तेषां न्यायप्राप्तत्वात् / यद्येवं ज्ञानावरण-पञ्चकक्षये केवलिनो ज्ञानपञ्चक प्रसङ्गः, न चेष्यते, नट्ठम्मि छाउमथिए नाणे, इतिवचनादिति / नैवम्। केवलज्ञानेनैव शेषज्ञानज्ञेयस्य प्रकाशितत्वेन तेषामनर्थकत्वान्नष्टत्वमुपदिश्यत इति / एतेन तु पूर्वाऽर्धन ये मन्यन्ते जिनबिम्बप्रतिष्ठायामवस्था-त्रयम् , कल्प्यते तेन बालाऽवस्थाश्रयं स्नानम्, निष्क्रमणाऽव-स्थोचितं रथारोपणपुष्पपूजादिकम् , केवल्यवस्थाश्रयं च वन्दनं प्रवर्तत इति, तन्मतमपाकरोति / न ह्यष्टापायविनिर्मुक्तिद्वारेण पूजा क्रियमाणा गृहस्थावस्थां विषयीकरोति, किन्तु केवल्यवस्थामेव / न तु चिन्तनीयमिदं यदष्टापायविनिमुक्तिमालम्ब्य केवल्यवस्थायां पूजा कार्येति, यतो न चारित्रिणः स्नानादयो घटन्ते। तद्वत्साधूनामपि तत्प्रसक्तेः।नचतचरितं सताऽऽलम्बनीयम्, अन्यथा परि-णताप्कायादिपरिहार आचरणनिषेधार्थः कथं स्यात् ? श्रूयते हि-एकदा स्वभावतः परिणतं तडागोदरस्थाप्कायं तिलराशिं स्थण्डिलदेशं च दृष्ट्वाऽपि भगवान् महावीरस्तत्प्रयोजनवतोऽपि साधून तत्सेवनार्थं न प्रवर्तितवान् / मा एतदेवास्मचरितमालम्ध्य सूरयोऽन्यांस्तेषु प्रवर्तयन्तु, साधवश्व मा तथैव प्रवर्त्तन्तामिति / सत्यम् , किन्तु बिम्बकल्पोऽन्य इति मन्यते, यथैव भावार्हति च वर्तितव्यं, न तथैव स्थापनार्हत्यपीति भावः / अत एव भगवत्समीपे गौतमादयः साधयस्तिष्ठन्ति स्म / तबिम्बसमीपावस्थाने तु तेषां निषेध उक्तः / यदाह-जइ विन आहाकम्म,भविककयं तह वि वज्जयंतेहि। भत्ती खल होइ कया, इहरा आसायणा परमा॥१॥ तथा- दुन्भिगंधमलस्सावि, तणुरपि सण्हाणि य / उभओ उ वहो चेव, ते णट्ठति न चेइए // 1 // | तेनैवार्यिका दण्डकं स्थापनाचार्य स्थापयन्ति / अन्यथा यथा भावाचार्यसमीपे नावश्यकं कुर्वन्ति, तथा स्थापनाचार्यसमीपेऽपि न कुर्युः, न च ताः प्रवर्तिनी स्थापयन्तीति वाच्यम्। प्रतिक्रमणकाल एव चैत्यवन्दनाऽवसरे महावीरादेरवश्यं कल्पनीयत्वेन तद्दोषस्य समानत्वात्, नह्याचार्य एव पुरुषो, न भगवान्।नच वीतरागत्वेऽपि भगवत्समीपे, आर्यचन्दनाद्यार्यिका रात्रौ तस्थुः / ननु प्रतिक्रमणादिकालेऽर्हत्स्थापनां कृत्वा चैत्यवन्दने क्रियमाण आशातना-दोषप्रसङ्ग इति। नैवम्, जिनायतनेऽपि चैत्यवन्दनस्यानुज्ञातत्वात् / यदाहनिसकडमनिसकडे वा, विचेइए सव्यहिं थुई तिन्नि। वेलंबचेझ्याणिव, नाउं एक्कक्किया वा वि ||1|| इत्यलं प्रसनेनेति // 3 // अशुद्धाऽष्टपुष्पी स्वरूपत उक्ता, सैव स्वर्गप्रसाधनीति यदुक्तं, तदधुना प्रदर्शयन्नाह - संकीर्णषा स्वरूपेण, द्रव्याद्भावप्रसत्तितः।। पुण्यबन्धनिमित्तत्वाद्, विज्ञेया स्वर्गसाधनी॥४|| संकीर्णा- अवद्येन व्यामिश्रा, एषाऽनन्तरोक्ताऽष्टपुष्पी, स्वरूपेण स्वभावेन / कथमित्याह- द्रव्यात् पुष्पादेः सकाशाद् भाव-प्रसूतितो भगवति चित्तप्रसादोत्पत्तेः। इदमुक्तं भवति-पुष्पादिद्रव्यो-पयोगादवद्यु, शुभभावश्च स्यातामिति संकीर्णत्वम्। इदं च न कर्मक्षपणनिमित्तमपितु पुण्यबन्धनिमित्तमेवेत्यत आह-पुण्यस्य शुभकर्मणो बन्धो बन्धनं तस्य निमित्तं कारणं पुण्यबन्धनिमित्तं तद्भावस्तत्त्वं, तस्मात् पुण्यबन्धनिमित्तत्वात् हेतोविज्ञेयाऽवसेया, स्वर्गसाधनी देवलोकप्राप्तिहेतुः / उपलक्षणत्वात् सुमानुषत्वसाधनी, पारंपर्येण भावपूजानिबन्धनतां प्रतिपद्य मोक्षसाधनी चेति द्रष्टव्यमिति / / 4 / / अथ शुद्धामष्टपुष्पीमभिधातुमाहया पुनर्भावजैः पुष्पैः, शास्वोक्तिगुणसङ्गतैः। परिपूर्णत्वतोऽम्लानै रत एव सुगन्धिभिः॥५॥ याऽष्टपुष्पी, पुनःशब्द उक्तवक्ष्यमाणार्थयो विशेषद्योतनार्थः / भावजैरात्मपरिणतिसंभवः, पुष्पैरिव पुष्पैर्वक्ष्यमाणलक्षण - रात्मधर्मविशेषः, किं भूतैः ?, शास्त्रोक्तिगुणसंगतैः, शास्त्रमागमस्तस्योक्तिर्भणितिराज्ञेत्यर्थः / अथवा शास्त्रोक्तिरेव गुणो दवरकस्तत्संगतैः। एतेनैषां मालारूपतोक्ता, तथा च द्रव्यपुष्पाणि अपि यदा मालां कृत्वाऽऽरोप्यन्ते, तदाऽष्टावपायापगमान् स्मृत्वा रोपणीयानीति दर्शितम्। पाठान्तरे तु- शास्त्रोक्तगुणसंगतैरिति, तथा शास्त्रीयसमित्यादिगुणोपेतैरित्यर्थः / पुनः किंभूतैस्तैः? इत्याहपरिपूर्णत्वतोऽम्लानैः परिपूर्णतया सकलजीवमृषावादादिविषयत्वेन निरतिचारतया वाऽम्लानैम्लानिमनुपगतः। अत एव च परिपूर्णत्वादेव,सुगन्धिभिः सद्गन्धोपेतैः, परिपूर्णताधर्म एवैषामम्लानिसुगन्धितालक्षणौ पुष्पधमौ द्रष्टव्यावित्यर्थः / विधीयते सा शुद्धत्येवं रूपः श्लोकावसाने वाक्यशेषो द्रष्टव्य इति ॥५||नामतस्तान्येवाऽऽहअहिंसा सत्यमस्तेयं, ब्रह्मचर्यमसङ्गता। गुरुभक्तिस्तपो ज्ञानं,सत्पुष्पाणि प्रचक्षते // 6 // प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा, तद्भावोऽहिंसा,सै कं पुष्पम् 1, तथा सद्भ्यो हितं सत्यम्, अनृताभावो द्वितीयम् 2, तथा स्तेनस्य चौरस्य कर्म भावो वा स्तेयं चौर्यं तदभावोऽस्तेयमिति तृतीयम् 3, तथा ब्रह्म कुशलं कर्म, तदेव चर्यते सेव्यत इति चर्यम्, ब्रह्मचर्य / मनोवाक्कायैः कामसेवनवर्जनमित्यर्थः, तत् चतुर्थम् 4, तथा नाऽस्ति सङ्गोऽभिष्वङ्गो यस्य सोऽसङ्गः,