________________ अजसेणिया 220 - अभिधानराजेन्द्रः - भाग 1 अजा अज्जासेणिया-स्त्री०(आर्य सैनिकी)आर्य सैनिकान्निर्गतायां शाखायाम् , "थेरेहिंतो णं अजसेणिएहिंतो इत्थ णं अज्जसेणिया साहा णिग्गया"। कल्प। अज्जा-स्त्री०(आद्या) आदौ भवा, दिगादित्वात् यत्। वाच० 'गवि' इति केचित् / अम्बिकायाम् , देवना० 1 वर्ग०। आर्या-स्त्री०। ऋ ण्यत्। प्रशान्तरूपायां दुर्गायाम् , ज्ञा० 8 अ० ग०। सप्तचतुष्कलगणादिव्यवस्थानिबद्ध मात्राछन्दसि,जं०२ वक्षIआर्यव संस्कृतेतरभाषासु गाथासंज्ञा / ग०१ अधि०। आर्यारचनं हि एकविंशतिरूपायां कलायां गण्यते (तच'कला' शब्दे तृ०भा०पृष्ठे 377 द्रष्टव्यम् ) ज्ञा० 1 अ०। साध्व्याम्, ग०३ अधि०| आर्यासामाचार्याः सूचनिकामात्रमत्र दर्श्यते विस्तरस्तु यथास्थानम् ('एकागि' शब्दे एकाकित्वनिषेधो वक्ष्यते) आर्याया गृहिसमक्षं दुष्टभाषणे दोषमाहजत्थ जयारमयारं, समणी जंपइ गिहत्थपञ्चक्खं / पचक्खं संसारे, अज्जा पक्खिवइ अप्पाणं॥११०॥ यत्र गच्छे (जयारमयारमिति) अवाच्यदुष्टगालिरूपं जकारमकारसहितं वचनं या श्रमणी गृहस्थप्रत्यक्षं गृहिसमक्षं जल्पति / हे गौतम ! तत्र गच्छे सा आर्या आत्मानं संसारे प्रत्यक्षं साक्षात् प्रक्षिपतीति // 110 // ('गारत्थियवयण' शब्दे दोषं प्रायश्चित्तं च वक्ष्यामः) अथाऽऽर्याया विचित्रवस्त्रपरिधाने दोषमाहगणि ! गोअम ! जा उचिअं, से अवत्थं विवजिउं / सेवए चित्तरूवाणि, नसा अज्जा विआहिआ।।११।। हे गणिन् गौतम ! याऽऽा उचितं श्वेतवस्त्रं विवर्त्य चित्ररूपाणि विविधवर्णानि विविधानि चित्राणि वा वस्त्राणि सेवते, उपलक्षणात्पात्रदण्डाद्यपि चित्ररूपं सेवते, सा आर्या न कथितेति / विषमाक्षरेति गाथाछन्दः / / 112 // अथाऽऽाया गृहस्थादीनां सीवनादिकरणे दोषमाहसीवणं तुन्नणं भरणं, गिहत्थाणं तु जा करे। तिल्लमुव्वट्टणं चावि, अप्पणो य परस्स य॥११३|| या आर्या गृहस्थानां तुशब्दादन्यतीर्थिकादीनां च वस्त्रकम्बलचीनांशुकादिसंबन्धि सीवनं, तुन्ननं,(भरणमिति) भरणं करोति, तथा या आत्मनश्चस्वस्य परस्य च गृहस्थडिम्भादेः (तिल्लंति) तैलाभ्यङ्गम् (उव्वट्टणंति) सुरभिचूर्णादिनोद्वर्तनं च अपीति-शब्दान्नयनाञ्जनमुखप्रक्षालनमण्डनादिकं च करोति, नसा आर्या व्याहृतेति पूर्वगाथात आकर्षणीयम्। तस्याः पार्श्व-स्थादित्वसमासादनात्। ग०३ अधिo (अत्र सुभद्रा काली चेत्युदाहरणे 'बहुपुत्तिआ' काली' शब्दयोः गच्छप्रत्यनीकाऽऽा) अथ गाथात्रयेण गच्छप्रत्यनीकाऽऽर्याः दर्शयतिगच्छइ सविलासगई, सयणीयं तूलिअंसविव्वो। उव्वट्टेइ सरीरं, सिणाणमाईणि जा कुणइ // 114 // गेहेसु गिहत्थाणं, गंतूण कहा कहेइ काही आ। तरुणाइ अहिवडते, अणुजाणे साइपडिणीया।।११।। याऽऽा सविव्वोकं यथा स्यात्तथा सविलासा गतिर्यस्याः सा सविलासगतिर्गच्छति, तथा शयनीयं पल्यकादि वा तूलिकां च संस्कृतरुतादिभृतामर्कतूलादिभृतां वा, तथा या शरीरमुद्वर्तयति, तथा या स्नानादीनि च करोति / अथवा सविलासगतिर्गच्छति तथा शयनीयं तूलिकां च (सविव्वोअंति) उच्छीर्षकसहितां सेवते / शेषं तथैव / / 114 / / तथा गृहस्थानां गृहेषु गत्या उपलक्षणत्यात् उपाश्रयेऽपि स्थिता संयमयोगान् मुक्त्वा या काथिका कथिकलक्षणोपेता आर्या कथा धर्मविषयाः संसारव्यापारविषया वा कथयति, तथा या तरुणादीन पुरुषान् अभिपतत अभिमुख-मागच्छतोऽनुजानाति सुन्दरमागमनं भवतां पुनरागमनं विधेयम् , कार्यं ज्ञाप्यमित्यादिप्रकारेण, इ जे राः पादपूरणे।।२।२१७। इति प्राकृतसूत्रोक्त-इकारः पादपूरणार्थः। गच्छस्य प्रत्यनीका शत्रुतुल्या स्यात् भगवदाज्ञाविराधकत्वादिति // 115|| वुड्डाणं तरुणाणं, रत्ति अजा कहेइ जा धम्म। सा गणिणी गुणसायर ! पडिणीया होइ गच्छस्स // 116|| वृद्धानां स्थविराणां तरुणानां यूनां, पुरुषाणां (रत्तिं ति) सप्तम्या द्वितीया / 8 / 3 / 137 / इति प्राकृतसूत्रेण सप्तमीस्थाने द्वितीयाविधानात्। रात्रौ या आर्या गणिनी (धम्मं ति) धर्मकथां कथयति, उपलक्षणाद् दिवसेऽपि या केवल पुरुषाणां धर्मकथां कथयति, हे गुणसागर ! हे इन्द्रभूते ! सा गणिनी गच्छस्य प्रत्यनीका भवति। अत्र च गणिनीग्रहणेन शेषसाध्वीनामपि तथाविधाने प्रत्यनीकत्वमवसेयमिति॥११६|| __अथ यथा श्रमणीभिर्गच्छस्य प्रधानत्वं - स्यात्, तथा दर्शयतिजत्थ य समणीणमसंखडाइँ गच्छम्मि नेव जायंति। तं गच्छं गच्छवरं, गिहत्थमासाउ नो जत्थ // 117 // यत्र च गणे श्रमणीनां परस्परम् (असंखडानि) कलहा नैव जायन्ते नैवोत्पद्यन्ते, तथा यत्र गणे गृहस्थानां भाषाः 'मामा आई बाप भाई' इत्यादिका अथवा गृहस्थैः सह सावद्यभाषा गृहस्थभाषास्ता नोच्यन्ते, सगच्छः गच्छवरः सकलगच्छप्रधानः स्यादिति।।११७।। अथ स्वच्छन्दाः श्रमण्यो यत् प्रकुर्वन्ति, तद् गाथापञ्चकेन प्रकटयतिजो जत्तो वा जाओ, नाऽऽलोअइ दिवसपक्खिअंवा वि। सच्छन्दा समणीओ, मयहरिआएन ठायंति॥११८|| यो यावान् वा अतिचार इति शेषः / जातः उत्पन्नः, तं तथा दैवसिकं पाक्षिकं वा अपिशब्दाच्चतुर्मासिकं सांवत्सरिकं वाऽतीचारं नाऽऽलोचयन्ति। अत्र वचनव्यत्ययः प्राकृतत्वात् / स्वेच्छाचारिण्यः श्रमण्यः,तथा महत्तरिकाया साध्व्या आज्ञायामिति शेषः / न तिष्ठन्ति इति !,118|| बिंटलियाणि पउंजति, गिलाणसेहीण मेव तप्पंति। अणगाढे आगाढं, करंति आगाढि अणगाढं॥११६॥ बिण्टलिकानि निमित्तादीनि / बिण्टलं निमित्तादीत्योपनियुक्ति वृत्त्यादौ व्याख्यानात् / तानि प्रयुञ्जते / अत्रापि वचनव्यत्ययः प्राकृतत्वादेव / तथा ग्लानाश्च रोगिण्यः शैक्ष्यश्च नवदीक्षिता इति द्वन्द्वः। अतस्ता नैव तर्पयन्ति औषधभेषजवस्त्रपात्रज्ञानदानादिना नैव प्रीणयन्तीत्यर्थः। अत्र सूत्रे क्वचिद् द्वितीयादेः।८।३।१३४। इति प्राकृतसूत्रेण द्वितीयास्थाने षष्ठी। यथा- ''सीमाधरस्स वंदेत्ति' तथा आगाढमवश्यकर्त्तव्यं ग्लानप्रतिजागरणादिकं, न आगाढं. अनागाढं तस्मिन् अनागाढे, कार्य इति शेषः / आगाढमवश्यकर्त्तव्यमिति कृत्वा कुर्वन्तीत्यर्थः / तथा आगाढे ऽवश्यकर्त्तव्ये कार्ये ऽनागाद कार्य , येन कृतेन विनाऽपि सरति तत्कायं कुर्वन्ती