________________ अज्जवडर 218 - अभिधानराजेन्द्रः - भाग 1 अजवइर ज्ञापितास्ते वज्रगुणानित्याचार्याः समाययुः। आप्राक्षुर्यतिनो जज्ञे, स्वाध्यायो वस्त ऊचिरे।।६२॥ जज्ञे किं त्वेष एवास्तु, स्वामिन् ! नो वाचनागुरुः / गुरुरूचेऽमुनोपात्तं, कर्णाघातात् श्रुतं ततः // 63|| युज्यते वाचनां दातुं, नास्य स्वयमतद्ग्रहे। ज्ञातुं वो वज्रमाहात्म्यं, वाचनाऽदाप्यपीयती / / 64|| यत्स्वस्याऽऽसीद् गुरुः सर्वं, श्रुतं वज्रस्य तद्ददौ। विहरन्नन्यदाऽऽयासीत् , पुरं दशपुराह्वयम्॥६५|| वृद्धावासे सन्त्यवन्त्यां, श्रीभद्रगुप्तसूरयः। तेभ्योऽन्यश्रुतमादातुं, वज्रः प्रैषि द्विसाधुयुक् / / 6 / / तदा च भद्रगुप्तार्याः, स्वप्नेऽपश्यन् यथा मम। पतद्ग्रहं क्षीरभृतं, पीत्वाऽऽगन्तुः समाश्वसीत्॥१७॥ साधूनां प्रातराचख्युस्तेऽन्योन्यफलमूचिरे। गुरुरुचे प्रतीच्छो मे, लास्यत्येत्याखिलं श्रुतम्।।६८|| वनोऽप्यस्थाद् बहिर्नक्तमदायात एव हि। ज्ञात्वोद्देशाद् गुरुर्वजं, माहात्म्ये तव गूढवान् Ill तेषां पार्श्वेऽथ वर्षिर्दशपूर्वीमधीतवान्। यत्रोद्देशस्तत्रानुज्ञेत्यागाद्दशपुरेऽनु सः॥१०॥ तत्रानुयोगानुज्ञायां, वयस्यैस्तस्य जम्भकैः / इन्द्राद्यैर्गीतमादीनामिव चक्रे महान्महः / / 101 / / अमुमेवार्थ ग्रन्थकृदाह"जस्स अणुनाए वायगत्तणे दसपुरम्मि नयरम्मि। देवेहि कया महिमा, पयाणुसारिं नमसामि" ||1|| यस्याऽनुज्ञाते वाचकत्वे आचार्यत्वे, शेष स्पष्टम्। अथान्यदा सिंहगिरिदत्त्वा वनमुनेर्गणम्। विधायानशनं धीमान् , ययौ स्वर्ग समाधिना।।१०२।। वज्रस्वाम्यथ संयुक्तः, साधूनां पञ्चभिः शतैः। सर्वतः प्रसरत्कीर्तिर्व्यहरद्बोधयन्जनम्॥१०३।। इतश्च पाटलीपुत्रे, श्रेष्ठः श्रेष्ठीधनीधनः। तत्पुत्री रुक्मिणी नाम्नी, रूपापास्तपुलोमजा // 10 // साध्व्यस्तद्यानशालास्थाश्चक्रुर्वगुणस्तुतिम्। वज्रमेव पतीयन्ती, श्रुत्वा तं रुक्मिणी स्थिता / / 10 / / आगच्छतोऽप्यनेकान्सा, वरकान् प्रत्यषेधयत्। साध्व्योऽभ्यधुन हे भद्रे!, व्रती परिणयत्यसौ // 106 / / साऽवदत् मान वज्रर्षिः, परिणेष्यति चेत्ततः। प्रव्रजिष्याम्यहमपि, स्त्रियो हि पतिवम॑गाः // 107 / / विहरन् पाटलीपुत्रे, वज्रोऽप्यन्येधुरागमत्। निर्ययौ संमुखस्तस्य, नगरेशः सनागरः // 108|| दृष्ट्वाऽऽयातो वृन्दवृन्दैर्दिव्यरूपान् बहून्मुनीन्। राजोचे सैष वज्रस्तेऽभ्यधुस्तस्यैकशिष्यकः / / 10 / / मा भूत्पौरजनक्षोभः, इति वज्रगुरुस्तदा। कृत्वा वपुःपरावृत्तिमागच्छन्नस्ति शस्तधीः // 110 / / पश्चिमस्यार्धक दृष्टो, वज्रः स्वल्पपरिच्छदः। सानन्दं वन्दितो राज्ञा, तत उद्यानवेश्मनि / / 111 // धर्ममाख्यत्प्रभुः क्षीराश्रवलब्धिर्जिनोदितम् / तेनाक्षिप्तमनाःक्ष्माभृत् , नाऽविदत् क्षुत्तृषं तथा // 12 // अन्तःपुरे तदाचख्यौ, वन्दितुं तं तदप्यगात्। श्रुत्वा श्रेष्ठिसुता लोकात, रुक्मिणी जनकं ययौ // 113|| आयातोऽस्त्यत्र वजः सः,तात! तस्मै प्रदेहि माम्। सोऽथ शृङ्गारयित्वा तां, निन्ये सार्द्ध स्वकोटिभिः // 11 // भगवान् धर्ममाचख्यौ, लोकः सर्वोऽपि रञ्जितः। दध्यौ चास्य यथाऽनेके,गुणा रूपंन तादृशम्॥११५|| ज्ञात्वा तदाशयं स्वामी, सहस्रदलमम्बुजम्। कृत्वाऽन्येद्युः स्वरूपस्थः, केवलीवोपविष्टवान॥११६।। तं वीक्ष्योवाच लोकोऽस्य, सहज रूपमीदृशम्। प्राोऽङ्गनानां मा भूवमित्यास्ते मध्यरूपभाक् // 117|| नृपोऽपि विस्मितः स्माह, शक्तिरेषाऽपि वोऽस्ति किम् ? लब्धीरनेकाः साधूनां, तदाख्यन्नृपतेर्गुरुः / / 118|| श्रेष्ठिना मन्त्रिपुत्र्यायैस्तानुपास्थजगौच सः। मद्रक्ता चेद्वतिन्यस्तु, जगृहे साऽपि तद् व्रतम्॥११६॥ अमुमेवार्थमाह"जो कन्नाइ धणेण य, निमंतिओ जुव्वणम्मि गिहवइणा। नयरम्मि कुसुमनामे, तं वयररिसिं नमसामि" // 120|| पदानुसारिणा तेन, स्वामिना प्रस्मृता सती। महापरिज्ञाध्ययनाद्विद्योद्धे नभोगमा // 121 / / "जेणुद्धरिआ विजा, आगासगमा महापरिन्नाओ। वंदामि अजवइरं, अपच्छिमो जो सुअहराणं // 122|| भणइ अ आहिंडिजा, जंबुद्दीवं इमाइ विजाए। गंतूण माणुसनगं, विजाए एस मे विसओ।।१२३|| भणइ अधारेअव्वा, न हुदायव्वा मए इभा विज्जा। अप्पड्डिआ य मणुआ, होहिंति अओ परं अन्ने" // 124 // वज्रोऽथाऽगात् पूर्वदेशाद्विहरनुत्तरापथम्। अभूच तत्र दुर्भिक्षं, पन्थानोऽपथिकाः स्थिताः॥१२५॥ ततः सङ्घ उपागत्याऽवादीन्निस्तारयेति तम्। पटेऽथ विद्यया सङ्घमारोप्य प्रस्थितः प्रभुः।।१२६।। शय्यातरस्तु चार्य थै, गतोऽभ्यायाद्विलोक्य तान्। शिखां छित्वाऽवदद्वजं, प्रभो ! साधर्मिकोऽस्मि वः / / 127 / / अथेदं स्मरता सूत्रं, सोऽप्यध्यारोपितः पटे। ("साहम्मिअवच्छल्लम्मि उज्जुयाय सज्झाए। चरणकरणम्मि अतहा, तित्थस्स पभावणाए य"||१॥) पश्चादुत्पतितः स्वामी, प्राप्तो नाम्ना पुरीं पुरीम्॥१२८।। सुभिक्षं वर्तते तत्र, श्रावकास्तत्र भूरयः। तत्र ताथागतः श्राद्धो, राजा तेऽहंयवस्ततः / / 126 / / आर्हतानां च तेषांच, चैत्येषु स्पर्धया पुनः। कुर्वतां स्नात्रपूजादि, जैनेभ्यस्तत्पराभवः / / 130 / / न्यवार्यन्ताथ तैः पुष्पाण्यर्हता राजवचसा। श्राद्धाः पर्युषणायां च, पुष्पाभावं गुरुं जगुः / / 131 / / प्रभो ! जैत्रेषु युष्मासु, शासनं वोऽभिभूयते। अथोत्पत्य ययौ वज्रः, क्षणान्माहेश्वरी पुरीम्॥१३२।। हुताशनवने तत्र, पुष्पकुम्भः प्रजायते। भगवत्पितृमित्रं च, तद्धितस्तस्य चिन्तकः / / 133 / / प्रभुं दृष्ट्वाऽवदत्तोषात्किं वोऽत्रागमकारणम् ? स्वाम्यूचे पुष्पसम्प्राप्तिः, स स्माहानुग्रहो मम॥१३४|| स्वाम्यूचे सुमनसोऽभिमेलयेर्यावदेम्यहम्। क्षुद्रे हिमवति स्वामी, ययौ श्रीसन्निधौ ततः॥१३५ // देवार्चार्थोपात्तपद्मा, पद्मा पद्महदात्तदा। प्रेक्ष्य प्रभुं प्रमोदेन, प्रणुन्ना प्राणमत्प्रधीः // 136|| ऊचेऽथादिश्यतां स्वामी, सोऽवदत्पद्ममर्पय। साऽर्पयत्तं गृहीत्वा स, हुताशनगृहेऽगमत्॥१३७॥ विमानं तत्र निर्माय, पुष्पकुम्भ निधाय च /