SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ अंग 37- अभिधानराजेन्द्रः - भाग 1 अंगचूलिया सांप्रतं युद्धाऽङ्गमाह - जाणावरणपहरणे, जुद्धे कुसलत्तणं व णीती य। दक्खत्तं ववसातो, सरीरमारोगए चेव।। दारम्) (जाणावरणपहरणेत्ति) यानं च हस्त्यादि तत्र सत्यपि न शक्नोत्यभिभवितुंशत्रुमत आवरणंच कवचादि, सत्यप्यावरणे प्रहरणं विना किं करोतीति प्रहरणं च खड्गादि यानाऽऽवरण-प्रहरणानि। यदि युद्धे कुशलत्वं नाऽस्ति, किंयानादिनेतियुद्धे संग्रामे कुशलत्वं च प्रावीण्यरूपं सत्यप्यस्मिन्नीति विना न शत्रुजयनमतो नीतिश्चाऽपक्रमादिलक्षणासत्यामपि चाऽस्यांदक्षत्वाऽधीनोजयस्ततो दक्षत्वमाशुकारित्वं सत्यस्मिन् निर्व्यवसायस्य कुतो जयः ? इति व्यवसायो व्यापारस्तत्रापि यदिन शरीरमहीनाऽङ्ग ततो न जयः, इति शरीरमर्थात् परिपूर्णाऽङ्ग तत्राऽप्यारोग्यमेव जयायेति (आरोगयत्ति) आरोग्यता चः समुचये एवावधारणे ततः समुदितानामेवैषां युद्धाऽङ्गत्वमिति सूत्रार्थः / भावाऽङ्गमाहभावंगं पि य दुविहं, सुतमंग चेव णोसुतं अंगं / सुतमंगं बारसहा, चउव्विहं णोसुयमंगं / भावाऽङ्गमपि च द्विविधम्- (सुयमंग चेवत्ति) श्रुताऽङ्गं चैव नोश्रुतानं च। श्रुताङ्ग द्वादशधा आचारादि, भावाङ्गता चाऽस्य क्षायोपशमिकभावाऽन्तर्गतत्वात् / उक्तं च- भावे खओव- समिए दुवालसंग पि होति सुयणाणंति / चतुर्विधं चतुष्प्रकारं नोश्रुताङ्गं तु, नोशब्दस्य सर्वनिषेधार्थत्वादश्रुताङ्ग,पुनः मकारश्च सर्वत्राऽलाक्षणिक इति गाथार्थः / एतदेवाऽऽह - माणुस्सं धम्मसुत्ती, सद्धा तवसंजमम्मि विरयं च / एए भावंगा खलु, दुल्लभगा होंति संसारे // . मानुष्यं मनुजत्वमस्य चाऽऽदावुपन्यास एतद्भावे शेषा-ऽङ्गभावात् धर्मश्रुतिरहत्प्रणीतधर्माकर्णनं श्रद्धा धर्म-करणाऽभिलाषः / तपोऽनशनादिस्तत्प्रधानः संयमः पञ्चा-ऽऽश्रवविरमणादिस्तपःसंयमो मध्यमपदलोपी समासः / तपश्च संयमश्च तपःसंयममिति समाहारो वा तस्मिन् वीर्यच वीर्यान्तरायक्षयोपशमसमुत्था शक्तिः / अस्यथ द्विष्ठस्याऽप्येकत्वेन विवक्षितत्वात् नोक्तः, संख्याऽविरोधः। एतानि भावाऽङ्गानि खलु निश्चितं दुर्लभकानि भवन्ति संसारे लिङ्ग-व्यत्ययश्च प्राकृतत्वादेतचाऽनुक्तमपि सर्वत्र भावनीयमिति गाथार्थः / इह द्रव्याऽङ्गेषु शरीराऽङ्ग भावाऽङ्गेषु च संयमः प्रधान-मिति / तदेकाऽर्थिकान्याह - अंगं दसभागभेए, अवयव असगलचुण्णियाखंडे / देसे पदेसपव्वे, साहापडलपज्जवखिलं च। दया य संजमे लज्जा, दुगुंछा अच्छलणादिय। तितिक्खा य अहिंसा य,हिरी त्ति एगट्ठिया पदा।। अङ्गदशभागो भेदोऽवयवोऽसकलश्चूर्णः खण्डो देशः प्रदेशः पर्व शाखा | पाटलं पर्यवः खिलं चेति शरीराङ्ग पर्याया इति वृद्धाः / व्याख्यानिकस्त्वविशेषतोऽमी अङ्गपर्यायास्तथा (दस- भागत्ति) दशभाग इति च भिन्नावेव पर्यायावित्याह / चः समुच्चये, सूत्रत्वाच सुपः क्वचिदश्रवणमिति / संयमपर्यायानाह- दया च संयमो लज्जा जुगुप्सा अच्छलना / इतिशब्दः स्वरूपपरामर्शकः पर्यन्ते योक्ष्यते, तितिक्षा चाऽहिंसा च ह्रीश्चेत्येकाऽर्थिकानि अभिन्ना-ऽभिधेयानि पदानि सुबन्तशब्दरूपाणि, पर्यायाभिधानं च नानादेश-जविनेयाऽनुग्रहार्थमिति गाथाद्वयार्थः / उत्त०३ अ० स्था० / अज्यते व्यक्तीक्रियतेऽस्मिन्निति चतुर्विधं नाम-स्थापनाद्रव्यभावभेदात्। तत्र नामस्थापने क्षुण्णं, द्रव्याऽङ्गं ज्ञशरीरभव्यशरीरव्यतिरिक्तं शिरो बाहादि / भावतोऽयमेवाचारः आचाराङ्गम्। आचा०१ श्रु०१ अ०१ उ०। चित्ते, अङ्गजे कामे उपाये, प्रधानोपयोगिनि उपकरणे, फलवत्सन्निधावफलं तदङ्गमिति मीमांसा जन्मादिलग्ने, यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गमिति पाणिनिपरिभाषिते प्रत्ययावधिभूते शब्दभूते च / वाच०। ऋषभदेवस्य द्वादशे पुत्रे, कल्प०) तीला जनपदविशेषे, यत्र चम्पानगरी। ज्ञा०८अ० प्रव०। स्था०1 वृ०। कल्प०। सूत्र *आङ्ग-पु० अङ्गानां राजा आङ्गः। अङ्गदेशाधिपे, बह्वर्थेऽणो लुक् अङ्गा अङ्गदेशास्तद्राजानो वा भक्तिरस्य अण ,आङ्गः / अङ्गदेशभक्ते, अङ्गराजभक्ते वा / त्रि०। अङ्गादागतम् आङ्गम् / अङ्गनिमित्ते कार्ये, वार्णादाङ्गं वलीयः इति परिभाषा / वाच० अङ्गं शरीरावयवस्तद्विकार आङ्गम्। देहावयवविकारे, स्था०८ ठा० अङ्गे भवमाङ्गम्। शरीरोत्पन्ने, सूत्र०२ श्रु०२ अ० अङ्गविषयमाङ्गम्।आव०४अ०।शिरःस्फुरणादौ, स्था० 8 ठा०। शरीराऽवयव-प्रमाणस्पन्दितादिविकारफलोदभावके महानिमित्तभेदे, स०। अङ्गस्फुरणादिभिः शरीरावयवस्पन्दनप्रमाणादिभिर्यदिह वर्तमानमतीतमनागतं वा शुभं प्रशस्तमशुभं वाऽप्रशस्तमन्यस्मै कथ्यते तद्भण्यते आङ्गं निमित्तं यथा- मूर्नि स्फुरत्याशु पृथिव्यवाप्तिः, स्थानप्रवृद्धिश्च ललाटदेशे। भू-ध्राणमध्ये प्रियसंगमः स्यान्नासाऽक्षिमध्ये च महार्थलाभः, इत्यादि / प्रव०२५७ द्वा० दक्षिणपार्श्वे स्पन्दनमभिधास्ये,तत्फलं स्त्रिया वामे। पृथिवीलाभं शिरसि,स्थानविवृद्धिर्ललाटे स्यात्, इत्यादि।स्था०८ ठान आङ्गनाम्नो महानिमित्तस्य सूत्रादिमानम्। अंगस्स सयसहस्सं, सुत्तवित्ती य कोडि विन्नेया। वक्खाणं अपरिमियं इयमेव य वत्तियं जाण / आव०४ अ०। आ० चूला सन अंगअ-पुं०(अङ्गज) अङ्गाज्जायते, जन-ड-पुत्रे, को०। ज्ञा०। आ०चू०। दुहितरि, स्त्री०। देहजातमात्रे, त्रि०। रुधिरे, ना रोगे, पुं० लोम्नि, ना अङ्गं मनस्तस्माज्जायते कामे, पुं० वाचा *अङ्गद-ना अङ्गदायति शोधयति, दै-क, बाहुशीर्षाभरणे, प्रज्ञा०२ पदाजी।भा ज्ञा। स्था। रा०ा औ०। बालिवानरराजपुत्रे, वाच०। अंगइ-पुं०(अङ्गजित्) श्रावस्तीवास्तव्ये गृहपतिभेदे, नि० स्था०। (स च पार्श्वजिनाऽन्तिके प्रव्रज्यां गृहीत्वाऽनशनेन मृत्वा चन्द्रविमाने चन्द्रत्वेनोपपन्न इति चंदशब्दे वक्ष्यते। अंगइ(रि)सि-पुं०(अङ्गर्षि-अङ्गऋषि) चम्पावास्तव्ये कौशिकाऽऽर्यशिष्ये, तस्य भद्रत्वादङ्गर्षिरिति कौशिकार्येण नाम कृतम् / आ० म० द्वि०। आव०। आ० चूला आ० का तीर्थ०। (तेनोपशमे सति सामायिकमवाप्य केवलमधिगतमिति अजव-शब्दे वक्ष्यते।) / अंगचूलिया-स्त्री०(अङ्गचूलिका)अङ्गस्याऽऽचारादेः चूलिका यथाचाऽऽचारस्याऽनेकविधा इहाऽनुक्ताऽर्थसंग्राहिका चूलिका। कालिक श्रुतभेदे, पा० न०। स्थानाङ्ग सूत्रे तु संक्षेपिकादशायास्तृतीयाऽध्ययनत्वेनेयमुक्ता स्था० 10 ठा०। सम्प्रत्युपलभ्यमानाऽङ्गचूलिकाग्रन्थस्येत्थमारम्भादिः - नमो सु अदेवयाए भगवईए, नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy