SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ (सिद्धहेम०] (123) अभिधानराजेन्द्रपरिशिष्टम्। [अ०८ पा०४] हन्-खनोऽन्त्यस्य // 244|| धात्वोर् हन-खनोरत्र, भाव-कर्मप्रवृत्तयोः। अन्त्यस्य वा स्याद्म्मः, तत्सन्नियोगे क्यस्य चास्तु लुक्। [वर्तमाने यथा हम्मइ खम्मइ, हणिज्जइ खणिज्जइ / [भविष्यति हम्मिहिइ हणिहिइ, खम्मिहिइ खणिहिइ। कर्तर्यपि हनोऽयं स्याद्, हन्तीत्यर्थे तु 'हम्मइ'। कृचिन्न दृश्यते-'हन्तव्य' 'हन्तूण' 'हओ' यथा। भो दुह-लिह-वह-रुधामुच्चातः // 24 // दुह-लिह-वह-रुधधातूनां ब्भो वाऽन्त्यस्य भावकर्मजुषाम्। लुक् च तत्सन्नियोगे क्यस्य, भवेद् उद् वहेरस्य। स्याद् दुहिलइ दुब्भइ, वा लिब्भइ लिहिज्जइ। वुडभइ वहिजइ रुडभइरुन्धिज्जइ स्मृतम् / दुभिहिइ दुहिहिईत्यादि काले भविष्यति। दहो ज्झः॥२४६|| भाव-कर्मप्रवृत्तस्य, दहो धातोर् विभाषया। ज्झः स्याद्, अन्त्यस्य तत्सन्नियोगे क्यस्यापिलुग भवेत्। स्याद्वर्तमाने डज्झइ, तथा रूपं डहिजइ। 'डज्झिहिइ डहिहिइ' इति काले भविष्यति। बन्धो न्धः॥२४७|| भावकर्मप्रवृत्तस्य, बन्धधातोर्विभाषया। ज्झःस्याद् अन्त्ययोस् तत्सन्नियोगेक्यस्य चास्तु लुक्। स्याद् वर्तमाने वज्झइ, तथा बन्धिज्जइस्मृतम्। 'बज्झिहिइ बन्धिहिइ' इति काले भविष्यति। समनूपाढुंधेः // 24 // भावकर्मप्रवृत्तस्य, समनूपाद्धे स्तु वा। अन्त्यस्य वा ज्झः, तत्सन्नियोगे क्यस्यापिलुग भवेत्। संरुज्झइ अणुरुज्झइ, उवरुज्झइ भवति, पाक्षिकं तु यथा। संरुन्धिज्जइ अणुरुन्धिज्जइ उवरुन्धिज्जइ भवति। संरुज्झिहिइ संरुन्धिहिईत्यादि भविष्यति। गमादीनां द्वित्वम् / / 24 / / भावकर्मप्रवृत्ताना, गमादीनां विभाषया। स्याद् द्वित्वमन्त्यस्य तत्सन्नियोगे क्यस्य चास्तुलुक्। [गम् ] गम्मइ गमिजइ हस हस्सइ हसिञ्जइ। [भण्] भण्णइ भणिज्जइ [छुप्] छुप्पइ छुविजइ। (रुव रुव्वइ रुविज्जइ [लभ ] लब्भइ लहिज्जइ। [कथ्] कत्थइ कहिज्जइ [भुज् ] भुजइ भुंजिजइ ! गम्मिहिइ गमिहिईत्यादि रूपं भविष्यति। रुद-[४/२२६] सूत्रेण कृतवाऽऽदेशोऽत्र रुदिरिष्यते। ह-कृ-तृ-जामीरः / / 250 / / धातूनां ह-कृ-तृ-जां स्याद्, ईरादेशो विभाषया। क्यलुक् तत्सन्नियोगेच, भवेदित्युपदिश्यते। हीरइ हरिजइ, कीरइ करिज्जइ। तीरइ तरिजइ, जीरइ जरिजइ। अर्जेविढप्पः॥२५१॥ अर्जेर्विढप्पो वा तत्सन्नियोगे क्यस्य चास्तु लुक्। विढप्पइ, विढविज्ज, अज्जिज्जइ पाक्षिकम्। ज्ञो णव्व–णौ // 25 // भाव-कर्मप्रवृत्तस्य, जानातेर्भवतः पदे। णव्वो णज्जच वा, तत्सन्नियोगे क्यस्य चास्तु लुक्। णव्वइणज्जइ, पक्षे-जाणिज्जइ मुणिज्जइ। 'म्न-शेर्णः' (2/42) इति णादशे, णाइज्जइच सिध्यति। नज्पूर्वकस्य जानातेर् 'अणाइज्जइ' पठ्यते। व्याहगेाहिप्पः / / 253|| भावकर्मप्रवृत्तस्य, भवेद्व्याहरतेः पदे / याहिप्पो वाऽत्र तत्सन्नियोगे क्यस्यापि लुग् भवेत्। वाहिप्पइ तथा वाहरिज्जइ स्यान्निदर्शनम्। आरभेराढप्पः॥२५४|| आरभेः कर्मभावे स्याद, वाऽऽढप्पः क्यस्य चास्तु लुक् / आढप्पइभवेत, पक्षे-'आढवीअइ'सिध्यति। स्निह-सिचोः सिप्पः॥२५५|| स्निह-सिचोः कर्मभावे, सिप्प: स्यात् क्यस्य चास्तुलुक्। 'स्निह्यते,सिच्यते' इत्येतयोरर्थेऽत्र 'सिप्पइ'। ग्रहेर्धेप्पः // 256|| कर्मभावे ग्रहेर, घेप्पो, वा भवेत, क्यस्य चास्तु लुक्। यथा 'घेप्पइ' इत्येतत्, पक्षे गिणिहज्जइ स्मृतम्। स्पृशेश्छिप्पः॥२५७|| स्पृशतेः कर्मभावे स्याद्, वा छिप्पः, क्यस्य चास्तु लुक् / तेन 'छिप्पई' संसिद्धं, तथा रूपं 'ठिविज्जइ। तेनाप्फुण्णादयः॥२५८|| आक्रमिप्रभृतीनां तु, धातूनाम् अप्फुण्णाादयः। अप्फुण्णो आक्रान्तः, उक्कोसं उत्कृष्ट, लुग्गो रुग्णः। योलीणोऽतिक्रान्तः, पल्हत्थं पल्लोट्टं वा पर्यस्तम्। फुड स्पष्ट, विकसितो वोसट्टो, निमिअंत्विदम्। स्थापितं, चक्खि आस्यादितं, क्षिप्तं तु ज्झोसि। निपातितो निसुट्टो स्याद्, हीसमाणं तु हेषितम्। वा प्रमृष्टःप्रमुषितः, पम्हुट्टो परिपठ्यते। ल्हियको नष्टो, जढं त्यक्तं, विदत्तं अर्जितं तथा। छित्तं स्पृष्ट,लुअंलून, भवेद् निच्छूढम् उद्धृम्। इत्यादयो वेदितव्याः,शब्दालक्ष्यानुसारतः। धातवोऽर्थान्तरेऽपि / / 256 / / उक्तादर्थात् प्रवर्त्तन्तेऽर्थान्तरेऽपीह धातवः। उक्तो बलिःप्राणनेऽर्थे, खादनेऽपिस वर्तते। यथा 'वलइ' खादति, प्राणनं च करोति वा। एवं कलिश्च संख्याने, संज्ञानेऽपि सदृश्यते। यथा 'कलइ' जानाति, संख्यानं च करोति वा। रिगिर्गतौ प्रवेशेऽपि, 'रिगइ' विशत्येति च। काहातेः प्राकृते वम्फो, 'वम्फइ' खादतीच्छति। फक्कतेः स्थक्क आदेशस्ततः सिध्यति 'थक्कइ। नीचां गतिं करोतीति वा, विलम्बयतीति वा। धात्वोर्विलप्युपालम्भ्योर् झनादेशे तु 'झङ्गइ। तस्यार्थ उपालभते, वा विलपति भाषते। एवं हि 'पडिवालेइ', वा रक्षति प्रतीक्षते। केचित् कैश्चिदुपसगैर्नित्यमन्यार्थकामताः।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy