________________ अहिंसा 872- अभिवानराजेन्द्रः-विभाग१ अहिंसा (13) अहिंसाविवेचनम्। (14) एकान्तनित्यानित्यात्मनि हिंसा न घटत इति निरूपणम् / (15) आत्मनः परिणामित्वे हिंसाया अविरोधनिरूपणम्। (16) स्वर्गादयो हि यदि स्वकृतकर्मानाऽपादिता एव स्युरिति तदा कर्माभ्युपगमो निरर्थक इति हिंसाऽपि असंभवा जैनानामिति विचारः। (17) आत्मनो नित्यानित्यत्वस्य देहान भिन्नाऽभिन्नत्वस्य च साधने प्रमाणोपदर्शनम्। (18) आत्मनोऽसर्वगतत्वे गुणवर्णनम्। (1) अस्य निक्षेपःहिंसाएपडिवक्खो, होइअहिंसाचउव्विहा साउ। दवे भावे यतहा,अहिंसाऽजीवाइवाउ ति।।५।दश०नि० तत्र प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा / अस्या हिंसायाः, किम् ? प्रतिकूलः पक्षः प्रतिपक्षः, अप्रमत्ततया शुभयोगपूर्वकं प्राणाऽव्यपरोपणमित्यर्थः / किम् ? भवत्यहिंसेति। तत्र चतुर्विधा चतुष्प्रकारा अहिंसा। (दव्वे भावे य ति) द्रव्यतो भावतश्चेत्येको भङ्गः / तथा- द्रव्यतो, नो भावतः / भावतो, न द्रव्यतः / तथा- न द्रव्यतो, न भावत इति / तथाशब्दसमुचितो भङ्गत्रयोपन्यासः, अनुक्तसमुच्चयार्थकत्वादस्येति। उक्तश्च- "तथा समुच्चय-निर्देशाऽवधारणसादृश्यप्रेष्येषु" इत्यादि। तथाचाऽयं भङ्गक-भावार्थः द्रव्यतो भावतश्चेति - "जहा केइ पुरिसे मियवह परि-णामपरिणए मियं पासित्ता आयनाइट्टियकोदंडजीवे सरं णिसिरिज्जा, से य मिए तेण सरेण विद्धे मए, सिया एसा दव्यओ हिंसा, भावओ वि।या पुनर्द्रव्यतो, न भावतः, साखल्वीर्यादिसमितस्य साधोः कारणे गच्छत इति। उक्तं च - उचालियम्मि पाए, ईरियासमियस्स संकमलए। वावज्जेज कुलिंगी, मरिज तं योगमासज्जा / / 1 / / न य तस्स तं निमित्तो, बंधो सुहमो विदेसिओ समए! जम्हा सो अपमत्तो, सा उपमाआ त्ति निद्दिवा'' ||2|| इत्यादि। या पुनर्भावतो, न द्रव्यतः / सेयम्- "जहा के वि पुरिसे मंदमंदप्पगासप्पदेसे संठियं ईसिवलिअकायं रख्खं पासित्ताएस अहि त्ति तव्वहपरिणामए णिकड्डियाऽसिपत्ते दुअं दुअंछिदिज्जा / एसा भावओ हिंसा, न दव्वओ। चरमभङ्गस्तु शून्यः / इत्येवम्भूताया हिंसायाः प्रतिपक्षोऽहिंसेति / एकार्थिकाऽभिधित्सयाऽऽह (अहिंसजीवाइवाओ त्ति) न हिंसा अहिंसा, न जीवाऽतिपातः अजीवाऽतिपातः / तथा च तद्वतः स्वकर्माऽतिपातो भवत्येवाऽजीवश्च कर्मेति भावनीयमिति / उपलक्षणत्वाचेह प्राणाऽतिपातविरत्यादिग्रह इति गाथार्थः। दश०१ अ०। सस्थावरजीवरक्षायाम, संथाका प्रमादयोगात्सत्त्वव्यपरोपणविरतिरूपे प्रथमे व्रते,धा (२)प्रथममहिंसावतलक्षणमाहप्रमादयोगाद् यत्सर्व-जीवाऽस्वव्यपरोपणम्। सर्वथा यावजीवंच, प्रोचे तत् प्रथमं व्रतम् / / 4 / / प्रमादो ज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशयोगदुष्प्रणिधान धर्माऽनादरभेदादष्टविधः। तद्योगात् तत्संबन्धात् सर्वेषां सूक्ष्मादिभेदभिन्नानां, जीवानां प्राणिनां, येऽसवः प्राणाः पञ्चेन्द्रियबलत्रयोच्छ्वासाऽऽयुर्लक्षणा दश, तेषां यथासंभवेना-ऽव्यपरोपणमविनाशनम्।तद्देशतोऽपि स्याद्, अत्यत आह-सर्वथैति।सर्वप्रकारेण त्रिविधत्रिविधेन भङ्गेनातचेत्वरमपि स्यादित्यत आह-यावजीवं प्राणधारणं यावत् / तत् किम् ? इत्याहप्रथमं व्रतम्- अहिंसाव्रतं, प्रोचे जिनैरिति शेषः / प्रथमत्वं चाऽस्य शेषाऽऽधारत्वात् सूत्रक्रमप्रामाण्याचाऽवसेयम् / द्वितीयो हेतुश्च द्वितीयव्रतादिष्वपि भाव्य इत्युक्तं प्रथमं व्रतम्। ध० 3 अधि० तस्थिम पढमं ठाणं, महावीरेण देसियं / अहिंसा निऊणा दिट्ठा,सव्वभूएसु संयमो ॥६॥दश०६अ०(अष्टादशविधस्थानगणस्य, व्रतषट्कादीनां च व्याख्या 'अट्ठारसट्ठाण' शब्देऽस्मिन्नेव भागे 246 पृष्ठे, स्वस्वस्थाने च द्रष्टव्या) (३)अहिंसाख्यसंवरद्वारस्यैषाऽशेषा वक्तव्यतातत्थ पढमं अहिंसा, तसथावरसव्वभूयखेमकरी। तीसे समावणाए, उ किंचि वोच्छं गुणुद्देसं // (तत्थ ति) तत्र तेषु पञ्चसु मध्ये प्रथमं संवरद्वारमहिंसा (तसथावरसव्वभूयखेमकरि त्ति) त्रसस्थावराणां सर्वेषां भूतानां क्षेमकरणशीला / तस्या अहिंसायाः सभावनायास्तु भावनापञ्चकोपेताया एव (किंचि त्ति) किञ्चनाऽल्पं, वक्ष्ये गुणोद्देश गुणलेशमिति / प्रश्न०। अथ प्रथमसंवरनिरूपणायाऽऽह तत्थ पढमं अहिंसाजा सा सदेवमनुयासुरस्स लोगस्स भवतिदीवो, ताणं, सरणगती, पइट्ठा, निव्वाणं, निव्वुइ, समाही, संती, कित्ती, कंती, रइय विरइय सुयंग तित्ती, दया विमुत्ती, खंती, सम्मत्ताराहणा, महंती, बोही, बुद्धी, धिती, समिद्धी, रिद्धी, विद्धी, ठिती, पुट्ठी, नंदी, भद्दा, विसुद्धी, लद्धी, विसिदिट्ठी, कल्लाणं, मंगलं, पमोओ, विभूति, सिद्धावासो, रक्खा, अणासवो, केवलीणं ठाणं, सिव समियी,सील संजमो त्ति य, सीलधरो, संवरो य, गुत्ती ववसाओ, उस्सतो य, जण्णो, आयतणं,जयणमप्पमाओ, असासो, विसासो, अभओ, सव्वस्स वि अमाघाओ, चोक्खपवित्ती, सुती, पूया, विमलपमासा य, निम्मलतर त्ति / एवमादीणि नियगुणनिम्मियाइं पजवनामाणि हुंति अहिंसाए भगवतीए। (तथेत्यादि) तत्र तेषु पञ्चसु, संवरद्वारेषु मध्ये प्रथममाय संवरद्वारमहिंसा। किंभूता? या सा सदेवमनुजासुरस्य लोकस्य भवति- (दीव त्ति) द्वीपो दीपो वा / यथाऽगाधजलधिमध्यमग्नानां स्वैरश्वापदकदम्बकदर्थितानां महोर्मिमालामध्यमज्जमानगात्राणां त्राणं भवति द्वीपः प्राणिनाम, एवमयमहिंसा संसारसागरमध्यगतानां व्यसनशतश्वापदप्रपीडितानां संयोगवियोगवीचिविधुराणां त्राणं भवति, तस्याः संसारसागरोत्तारहेतुत्वात्, इति अहिंसा द्वीप उक्ता / यथा वादीपाऽन्धकारनिराकृतदृक्प्रसराणां हेयोपादेयाऽर्थहानोपादानमूढमनसां तिमिरनिकरनिराकरणेन प्रवृत्यादिकारणं भवति, एवमहिंसा ज्ञानावरणादिकर्मतमिस्रसंसनेन विशुद्धबुद्धि-प्रभापटलप्रवर्त्तनेन प्रवृत्त्यादिकारणत्वाद् दीप उक्ता / तथा- त्राणं, स्वपरेषामापदः संरक्षणात् / तथा- शरणम्। तथैव- सम्पदः, सम्पादकत्वात्। गम्यते श्रेयोऽर्थिभिराश्रीयत इति गतिः। प्रतिष्ठन्ते आसते सर्वे गुणाः सुखानि वा यस्यां सा प्रतिष्ठा। तथा- निर्वाणं मोक्षः, तद्धेतुत्वात् निर्वाणम् / तथा- निर्वृत्तिः स्वास्थ्यम्, समाधिः समता, शक्तिः शक्तिहेतुत्वात् /