________________
४४४ केशवकृतः कल्पद्रुकोशः ह्रस्वाभावात्तथैवैचां चत्वारोन्ये यमा इति । कुं खुं गुं घुममीषां च समावेशः क्रमाद्यथा ॥४॥ पदेनन्त्यस्तु प्रथमोन्योन्त्यः स्यात्परतो यदि । यथासंख्यो यमावेशस्तयोर्मध्ये मतान्तरम् ॥४६॥ क्लीबेऽक्षरं तु वोर्णा ग्रन्थोद्वात्रिंशदक्षरी । अपि प्रबन्धः संदर्भः सूत्रंसूचनकारि यत् ॥४७॥ भाष्यं सूत्रप्रयुक्तार्थकठिनांशप्रकाशकम् । उक्तानुक्तदुरूहार्थचिन्ताकारि तु वार्त्तिकम् ॥४८॥ टीका निरन्तरव्याख्या पञ्जिका पदभञ्जिका । निबन्धवृत्ती अन्वर्थे संग्रहस्तु समाहृतिः ॥४६॥ चूर्णी चूर्णिरुभेतुल्ये पद्धती पद्धतिः समे । इत्येवं परिशिष्टादि पथानेन समुन्नयेत् ॥५०॥ पदच्छेदः पदार्थाक्तिर्विग्रहो वाक्ययोजना । श्राक्षेपश्च समाधानं व्याख्यानं वर्णनं समे ॥५१॥ कारिका तु स्वल्प वृत्ता बह्वर्थस्य प्रकाशिका । कलिन्दिका सर्वविद्या निघण्टुर्नामसंग्रहः ॥५२॥ इतिहासः पुरावृत्तमाख्यानं भारतादिकम् । सर्गबन्धो महाकाव्यं तत्स्यादेभिर्गुणैर्युतम् ॥५३॥
। स्यानत्यतो यदिB २ यमावेशस्तयोर्मध्ये यथासंख्यो मतान्तरेB ३ वृत्तौर