SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः ४२१ खण्डैधंवा भवन्त्येवं षड्विंशत्यादितः क्रमात् । कमलाकरः कलापः कामश्चैवात्र सुन्दरः ॥३५॥ वल्लभो मङ्गलश्चापि षडुक्ता मण्डका अथ । अमरो मन्दिरश्चापि विचारः कुन्दसंज्ञकः ॥३६॥ चतुर्विधोथ घोढा स्यादथ निःसारकाभिधः । "सुनरोऽपि विशालः स्यान्नन्दो वैकुण्ठवाञ्छितौ ॥३७॥ विजयोथाडुतालस्तु षोढा स्याच्चमरामरौ । अथ षोढा रासकः स्यात्कम्बुजो मुदिराम्बुजौ ॥३८॥ विनोदश्चन्द्रसरसोऽथैकताली त्रिधा मता । रामा तारा चन्द्रिका च द्रुतमध्यविलम्बिताः ॥३६॥ एकमात्रिकतालेन सूडाद्याः स्युरनेकधा । नाट्यं तौर्यत्रिकं गीतं नृत्तं वाद्यं त्रयं च तत् ॥४०॥ "संगीतं प्रेक्षणार्थेस्मिशास्त्रोक्ते नाट्यधर्मिका ।। गीतं गानं च गान्धर्वे गेयं स्त्री गीतिरित्यपि ॥४१॥ व्यक्तं पूर्ण प्रसन्नं च सुकुमारमलंकृतम् । समं सुरक्तं सुश्लक्षणं विक्रुष्टं मधुरं तथा ॥४२॥ दशैते स्युर्गुणागीते तत्र व्यक्तं स्फुटः स्वरैः । पूर्णं "पूर्णीकममकं प्रसन्नं प्रकटार्थकम् ॥४३॥ १ न्त्येवCK २ सुन्दरB ३ मटकाB ४ मन्दरB ५ विचारेB ६ यCK . सवदोपिB न्मन्दोB | सुडाB १० वाद्यवयंB ११ संगीतB १२ नाथर्षिकाB १३ रक्तंसुश्लक्ष्णमितिB पुस्तके नास्ति १४ पूर्णार्थगमकमिति स्यात् ।
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy