________________
केशवकृतः कल्पद्रुकोशः ३६३ स्थिर'चक्रो वज्रधरः कुमारोष्टारचक्रवान् ।
नीलोपली महारंजी प्रज्ञाकायश्च वादिराट् ॥११६॥ धियां पतिश्च खड्गी च नीलशार्दूलवाहनः । दण्डी बालवतः पञ्चवीरो वागीश्वरः शिखी ॥१२०॥ सिंहपर्यायकेलिः स्यादथ स्याच्छशि शेखरः । 'हेरम्बो देहको वत्सो निकुम्भी वक्रसंचरः ॥१२१॥ देवो वज्रकपाली च वज्रटी चाथ गौर्यपि । उमा कात्यायनी गोला सिनीवाली दृषद्वती ॥१२२॥ गौरा कालंजरी चण्डा चण्डाका चण्डकापि च । सिंहाद्विाहनार्था स्यात्काली हिण्डीश्वरीश्वरा ॥१२३॥ हिमाद्रिदक्षनन्दानां पर्यायेभ्यः सुतार्थका । "चण्डिश्च बाभ्रवी माता चर्या शिखर वासिनी॥१२४॥ गौतमी 'सौः कृष्णपिङ्गा मारी च गणनायिका । शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला ॥१२५॥ एका वरालिकानंशा शिवदूती यमखसा । अपर्णा रोहिणी दुर्गा मृडानी चण्डिकाम्बिका ॥१६॥ कोटव्यदितिकैटभ्यः कैटभा यादवी च सा । 'शृङ्गा टेका शची देवी महादेवी कुमारिका ॥१२७॥ १ चक्रीB २ नीलोत्पलाB ३ महाराजीC ४ शैखरःB ५ हेरम्भाB ६ श्वरीश्वरेतिB पुस्तके न दृश्यते ७ चण्डी चB ८ वाशिनीB | सःB १० वादवीB
११ शृङ्गाष्टिकाB