SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३४४ केशवकृतः कल्पद्रुकोशः तरीषो नभसः पेरुरुदन्वान्पृथिवीप्लवः । गङ्गाधरो महाकच्छो मितद्रुर्दारदश्च सः ॥२॥ दैत्यदानवशैलानां पर्यायेभ्यो गृहार्थकः । तिम्यूर्म्यर्थपदान्माली कोशार्थोपि पलंकषः ॥३॥ जलपर्यायराशिधिनिधिर्नदनदीपतिः । पारावारोप्यकूपारो महीप्रावरणार्थकः ॥४॥ विततश्चन्द्रपर्यायजनको यादसां पतिः। रत्नाकरोऽपि जलदस्तभेदा लवणादयः ॥५॥ अपि ते स्युः सुरासर्पिर्दधिक्षीरपयोमयाः । खखापिधान 'पर्यायासिन्धुपर्यायवाचकः ॥६॥ स्त्रियां तृप्तिरिरापः स्त्री भूम्नि पुंसि रसो द्वयोः । गौः क्लीबे प्राणदं क्षीरं वाश्चापि सलिलं जलम् ॥७॥ कृपीटं कमलं सारं क्षीरं विषमिदं घृतम् । कबन्धमुदकं पाथः कीलालं पुष्कर २ सरम् ॥८॥ वनं पवित्रममृतं कंवलं के कुलीनसम् । पानीयं पिप्पलं पीथं पातालं सर्वतोमुखम् ॥६॥ जीवनं भुवनं यादः पावनं क्षणदं दकम् । अम्ब्वम्भः शंवरं तोयं कोमलं धरुणं सुखम् ॥१०॥ , पर्याया:Ck २ सर:Ck ३ पाद:Ck
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy