________________
केशवकृतः कल्पद्रुकेाशः
यासोऽनन्तो बालपत्रः समुद्रान्तो मरुद्भवः । त्रिकण्टकः सूक्ष्मपत्रो विषघ्नो विषकण्टकः ॥४६४॥ सुदूरमूलः कटुकश्चाल्पको बहुकण्टकः । क्षुदी तीक्ष्णगन्धो गन्धार्यधिककण्टकः ॥४६५|| वृषोऽरूषः सिंहास्यो वासको थाटरूषकः । शितपर्णी वाजिदन्ता भिषङमाता वसादिनी ॥४६६॥ वाशाका वाशिका वाशा वाशका वाशकः पुमान् । वासाका वासिका वाजी वासको वाजिदन्तकः ॥ ४६७ ॥
३०१
अटरूषोप्यटरुषस्तद्वच्चारुरित्यपि ।
वासापि सिंही पर्याया' सूच्याख्यस्तु शितावरः ॥४६ ८॥ सूचिपत्रः शीतवरः स्वस्तिकः पुरुटः शिखी । मेधाकृदग्राहकः सूची ' कुर्कुटः सुनिषणकः || ४६६॥ बः " श्रीवारको धन्यवासस्तु दुरालभा । ताम्रमूला दुरालम्भा विरूपा दुरवग्रहा ||४७०॥ प्रबोधिनी सूक्ष्मदला धन्वी पुंस्यपि कच्छुरा । विशारदा तूष्ट्रभक्षाऽजभक्षा मरुसंभवा ॥ ७१ ॥ वल्ली कटारिका क्षुद्रफला क्षुद्रदुरालभा । बहुकण्टाभिधमनी राजमाता धमन्यपि ॥ ४७२॥
६
१ ने B २ वाशाकेत्यर्ध पुस्तके नास्ति वासकेतिपदं B पुस्तके नास्ति ३ वासी B ४ पर्याया:CK ५ सूथप्रस्तुB ६ कुक्कुरः B ७ बभ्रु: B ८ दुरोलभाB ६ गजमाता B