________________
केशवकृतः कल्पद्रुकोशः २७३ शिरीषपत्रा किणीही कालिन्दी विषपादिका । महाश्वेताथ क्षवकः क्षतकः क्रूर इत्यपि ॥२१६॥ तीक्ष्णो भूताङ्कशो राजोद्वेजनो' भूतनाशनः । लकुचो लिकुचः सालः काषायी दृढवल्कलः ॥२२०॥ स्थूलस्कन्धो डहुडुहू लकुचोऽथ विकङ्कतः । स्याव्याघ्रकण्टयोःपादो ग्रन्थिलः स्वादुकण्टकः २२१ गोपघण्टो बहुफलः सुचावृक्षः सुवद्रुमः । वैकङ्कतः कण्टकारी वैकतो ग्रन्थिलः समाः ॥२२२॥ स्यात् पिण्डरोहणः पूतः किंकिणीरवकस्तु सः । हय पर्यायवैर्यर्थः कटवीरो हरप्रियः ॥२२३॥ प्रतिहासः श्वेतकुन्दगौरीभ्यः पुष्प इत्यपि । स्यास्निग्धदिव्ययोस्तद्वद्रोधक'स्तत्र रक्तके ॥२२४॥ गणेशचण्डीकुसुमो भूतमारी रविप्रियः । क्रूरोथ पीतप्रसवो गन्धपुष्पोथ कृष्णके ॥२२५॥ कृष्णपुष्पोथ धत्तूर उन्मत्तः कितवः शठः । धुस्तुरोऽपि च धूस्तूरो धुत्तुरो धूत्तुरश्च सः ॥२२६॥
, ननो CK २ कण्टो गोपादो Ck ३ फलस्तचा B ४ श्रुच Ck ५ विकदूतः Ck ६ चैकतो Ck ७ किकेणी वीरकस्तु Ck ८ हयपर्यायवैयर्थःB ६ द्रोधक इति स्यात् १० बीजB