________________
केशवकृतः कल्पद्रुकोशः २६७ मण्डकः' फल्गुवृन्ताको निःसारः पूतिपत्रकः । पीतवृक्षो भूतिसारः टेटू वासन्तशोणकौ ॥१६५॥ मण्डूकपर्णी पीताङ्गोऽप्यजशृङ्गी तु वार्तिका । मेषशृङ्गी सर्पदंष्ट्रा कृष्णवृन्ता तु काश्मरी ॥१६६॥ श्रीपर्णी सर्वतोभद्रा हीरा भद्रा च कट्फला । भद्रपर्णी सीधुपर्णी कम्भारी कुमुदा पुनः॥१६७॥ काश्मरी कश्मरी च स्त्री कश्मर्य पुनपुंसकम् । विदारिणी गोपभद्रा गम्भारी मधुपर्ण्यपि ॥१६८॥ रोहिणी क्षीरिणी श्वेता बहुभद्रा च मेदिनी । "कृष्णस्थूलत्वचा गृष्टिः सुफला मधुमत्यपि ॥१६॥ स्यान्महाकुमुदा चाथ कुदालो युगपत्रकः । श्लक्ष्णत्वक मालुपत्रः स्यादम्बुराश्मान्तकेन्द्रको १७०। कृतमालो राजतरुः प्रग्रहः कर्णिकारकः । परिव्याधो व्याधिरिपुः सुंफलोथ ज्वरान्तकः ॥१७१॥ 'पारेचनो दीर्घफलः स्वर्णदः स्वर्णपुष्पकः । पारग्वधो व्याधिघातो दद्रकुष्ठहरश्च सः ॥१७२॥ स्यादारगवधश्चापि शंपाकश्चतुरङ्गलः । संपाकोऽपि च शम्याका सुवर्णांशुः पुमान्स्त्रियाम् १७३ १ मण्डक: २ फरि: ३ पीन! ४ टू ५ वर्तिकाB ६ कभारीB ७ कृष्णा # भालुB ६ केन्दुकौB ५० प्रारैवतो११ सुवर्णालु:K