________________
केशबकृतः कल्पबुकोशः
जीवन्ती' स्वर्णवर्णा सा सर्वदेशसमुद्भवा । गुणे' सार्वपथीनाथ विजया लघुवृतका ॥ १४७॥ सा विन्ध्याद्रिसमुद्भूता सर्वदोषविनाशिनी । तृतीया रोहिणी वृत्ता प्रातिष्ठानी क्षते हिता ॥ १४८ ॥ अमृता मांसला स्थूला चम्पोत्था सा विरेचनी । पञ्चमी पूतना स्वल्पत्वचा सिन्धुसमुद्भवा ॥ ९४६ ॥ लेपे हिताचाभया तु नेत्ररोगविनाशिनी । सौराष्ट्री पञ्चकाराथ पुनः श्वेतकिनी व सा ।। १५० ।। म्ला हिमाद्रिसंभूता सर्वरोगविनाशिनी । यास्ते कृता तावद्विरेचनकरी नृणाम् ॥ १५१॥ विभीतकस्लैलफलो भूतावासः कलिद्रुमः । संवर्तकश्च वासन्ती विषघ्नोपि विभीदकः ॥१५२॥ वहेको हार्यफलः पुनः कर्षफलश्च सः । निम्बः प्रभद्रः कीरेष्टोऽरिष्टोऽरिष्टफलोऽपि च ॥ १५३ ॥ पिचुमन्द: पारिभद्रो नेता काक 'फलश्व सः । यवनेष्टः पीतसारः सर्वतोभद्र इत्यपि ॥ १५४॥ वरतिक्तः पिचुमर्दः शीतो " ज्येष्ठामलः पुनः । बर्दनो हिङ्गुनिर्यासो महानिम्बस्तु कार्मुकः ॥१५५॥
२६५
१ जीवनी B २ गुणैः B ३ प्रतिB ४ पुनश्चल किनी B ५ श्री KO . ६ काल B ७ ज्येष्टीमल: B = कामुकः B
३४