SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १०६ केशवकृतः कल्पद्रुकोशः च्यवन (स्यात् ) मध्यमं तल्लोहिताब्धेश्च पश्चिमे। त्रिपुर्या को सलादौ च चेदिका रूपकं वरम् ॥१५३॥ श्रीक्षेत्रं गौड़बङ्गाल माङ्गिश्यं तु मध्यमम् । विन्ध्याद्रि वेङ्कटाद्रेश्च कलिङ्गद्रविडावपि ॥१५४॥ वनं कालीयकं नाम समुद्रावधिमध्यमम् । श्रीशैले देवशैले च मलये पर्वते वनम् ॥१५५॥ दाशार्णकं वनं तत्स्या द्वरं सह्याद्रिमूलतः । भृगुकच्छावधि वनमपरान्तं च मध्यमम् ॥१५६॥ द्वारवत्यां च सौराष्ट्र कलिङ्गवनमुत्तमम् । कालंजरे कुरुक्षेत्रे सिन्धुसागरसंगमे ॥१५७॥ वनं पाञ्च नदं नाम मध्यमं परिकीर्तितम् । कालेप्यजातदन्तो यः स्वल्पाङ्गः स च मत्कुणः ॥१५॥ यूथपर्यायनाथार्थः प्रभिन्ने मत्तगर्जितौ । मदोत्कटो मदकलः समावुद्वान्तविर्मदौ ॥१५॥ कल्पितः सजितस्तिर्यग्घाती परिणतश्च सः । ब्यालोत्रऽदुष्टे गम्भीरवेदी त्ववमताङ्कशः ॥१६०॥ १°दण्डाराराललुषमा यत्रारोहति पार्थिवः । राजवाह्यस्तूपवाह्यः सान्नाह्यः समरोचितः ॥१६१॥ १नाच्यं वन र0 २ र्याः KC ३ कारुषकं B ४ मागिरेयं B ५ व्यङ्क B विक ६ द्वनं B ७ कण्ठा KC - वनं KCE नामा 30 १० दण्डरा 0 *प्राच्यं वरं पाठो भवेत् ।
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy