SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः ब्रियमाणातया वापि सत्तया वानुवर्त्तनम् । एकस्य दृश्यते यत्र तद् गोत्रं तस्य कथ्यते ॥३॥ कुलं तु गोत्रं जननं क्लीबे स्त्री संततिः पुमान् । वंशोन्ववायः सन्तानो ऽन्वयो वर्णचतुष्टयी ॥४॥ ब्राह्मणक्षत्रविटशूद्राश्चातुर्वर्ण्यमिति स्मृतम् । स्यादामुष्यायणोऽमुष्यपुत्रश्च ब्राह्मणायनः ॥५॥ प्रख्यातनप्तृकश्चापि बीज्यः कुल्यः कुलोद्भवः । महाकुलः सभ्य श्रार्यः कुलीनः कुलसंमतः ॥६॥ गर्भाधानं पुंसवनं गर्भरक्षणमित्यपि । सीमन्तोन्नयनं जातकर्म मेधाजनिस्तथा ॥७॥ उत्थानं नामकरणमन्नप्राशनमित्युत । चूडाकर्मोपनयनं बतादेशनमेव च ॥८॥ समावर्त्तनमुद्राहस्तत्रैवाग्नेः प्रधारणम् । एभिः स्मार्तेश्च संस्कारैः संस्कृतो ब्राह्मण मतः॥६॥ भूमिपर्यायदेवार्थो माठरः कठवाडवौ । सूत्रकण्ठो वेदगर्भः सावित्रोऽपि त्रयी तनुः ॥१०॥ स्यान्मुखव्ययपर्यायजन्मपर्यायइत्ययम् । वर्णज्येष्ठः शमीगर्भो ब्रह्म षटकर्मकृत्पुनः ॥११॥
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy