________________
अत एव शब्दानां सम्यक् प्रयोगः सर्वेभ्योऽपि महत्तमा घटनाऽस्ति । महात्मना पतञ्जलिना तु कथितं यत् सम्यक् ज्ञातः सुप्रयुक्तश्च एकः शब्दः इहलोके परलोके च इष्टार्थप्रदो भवति । वेदेष्वपि सुप्रयुक्तः शब्दः परमेश्वर-प्राप्तिकारणत्वेन प्रतिपादितोऽस्ति । 'हे प्रकाशमयपरमात्मन् ! अहं वचनद्वारा त्वां प्राप्तुमीहे' इत्येवम्भूता तत्र प्रार्थना कृताऽस्ति ।
यदि शब्दसाहाय्यात् प्रभुप्राप्तिं यावत् गम्येत तर्हि ते शब्दा: सम्यग् ज्ञेयाः, तदर्था अपि सम्यग् ज्ञेया इति नितान्तमावश्यकं भवति । तदर्थं शब्दकोशशरणग्रहणं श्रेयस्करमावश्यकतमं च । शब्दकोषं विहाय नहि शब्दानां सम्यगर्थनिर्णयो भवति । शब्दानां सम्यगर्थनिर्णयार्थमेव शब्दकोशानां रचनाः जायन्ते । शब्दकोश: विदुषां मूलधनम् । राज्ञां धनकोशः आवश्यकः तद्वत् विदुषां शब्दकोशः आवश्यकः । कोशं विना द्वावपि दरिद्रौ स्तः । शब्दकोश - साहित्यम्
अद्यप्रभृति प्राचीना अर्वाचीमाश्च विद्वांसः अनेकशब्दकोशान् रचितवन्तः ।
प्राचीनतमकोशेषु कात्यायनस्य नाममाला, वाचस्पतेः शब्दार्णवः, विक्रमादित्यस्य संसारार्णवः, भागुरेः त्रिकाण्डः, धन्वन्तरे: निघण्टुः, यास्कस्य निरुक्तः, अमरसिंहस्य अमरकोशः - इत्यादयः मुख्याः शब्दकोशाः सन्ति । एषु 'अमरकोशः' प्रसिद्धः सम्प्रति च २. एकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः स्वर्गे लोके च कामधुग् भवति । पातंजलमहाभाष्य, प्रथम आह्निक
३. अग्ने त्वां कामये गिरा ।
४. अभिधानकोशतः पदार्थनिश्चयः ।
-
सामवेद (८)
वामन (काव्यालङ्कारसूत्र १ । ३ । ५ )
16