SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ ॐ ह्रीं अर्ह श्रीशङ्गेश्वरपार्श्वनाथाय नमः श्रीमज्जिनभद्रसूरिकविराड्-विरचिता पञ्चवर्गपरिहारनाममाला नत्वा पञ्चेषु पञ्चास्य-शरभं रभसाज्जिनम् । अपञ्चवर्गवर्णात्मशब्दान् कतिपय़ान् ब्रुवे ॥१॥ यो वर्गव्यञ्जनान्तः स्यात्, स श्लोकार्द्धान्तगो ध्वनिः । अवर्गकाव्ये कर्त्तव्यो वर्णमध्ये न तद् यतः ॥२॥ अर्हन्नविषयोऽरोषोऽरिहा संवरवैरिहा । सुरासुरेशसंसेव्यः शिवावासो जिनेश्वरे ॥३॥ स्वर्गेऽव्ययं स्वरावासाऽऽश्रयाऽऽलयाः सुरात् *परः ॥ देवेऽसुरारिः स्वाहाशी बर्हिरास्योऽव्ययालयः ॥४॥ अवित्रसः सुरश्चार्के सहस्रांशुहरी रविः । सूरः सूर्यो हेलिहँसोऽहरीशी वासरेश्वरः ॥५॥ अंशुः सरोरुहसुहृद् रश्मावंशुर्वसुश्च रुक् । उस्रश्चन्द्र शर्वरीशः शिशिरांशुः शशी हरिः ॥६॥ सरोरुहारिरङ्गारे रसासूरार इत्यपि । बुधे च शार्वरीशिः स्यात् शशिसूश्च बृहस्पतौ ॥७॥ * पुर इति पाठान्तरम्।
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy